________________ पच्छित्त 171 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तत्र पथा जिन प्रतीत्य दोषा एकत्वमापन्नास्तथा विभङ्गि प्रयुक्तघृत- / कुण्डदृष्टान्तेन भण्यतेउप्पत्तिं रोगाणं, तस्समणे ओसहे य विभंगी। नाउं तिविहमामयीणं, देइ तहा ओसहगणं तु // 258|| मिथ्याटाटेरुत्पन्नावधिविभङ्गी, स हि चिकित्सा करोति, न साधुरिति तदुपादानमा विभगिनो विभङ्गज्ञानिनो रोगाणामुत्पत्तिम्, उत्पद्यन्ते रोगा अस्य इत्युत्पत्ति निदान, तां ज्ञात्वा, तथा तदित्यनेन रोगा: संबध्यन्ते, शभ्यन्ते उपशम नीयन्ते रोगायैस्तानिशमनानि, ओषधानि तेषां रोगाणं शमनानि तच्छगनानि तानि ओषधानि, यथावत् ज्ञात्वा त्रिविधतापाऽऽदिजन्यरोगयोगतरित्रप्रकाराः, आमयो रोग: स येषां विद्यते ते आभायेन, त्रिविधाश्च ते आमयिनश्च, तेषां त्रिविधाऽऽमयिना तथा ओषधगण ददति प्रयच्छन्ति यथा नियमतो रोगोपशमो भवति। ओषधप्रदाने च चत्वारो भङ्गाः / तद्यथाएकेणेको छिज्जइ, एकेण अणेगऽणेगााहिं एको। गेगेहिं पि अणेए, पड़िसेवा एव मासेहिं // 256 / / कचित् एकेन घृतकुटेन एको वाताऽऽदिको रोगश्छिद्यते,एष प्रथमो भङ्गा दाचिदेकेन घृतकुटेन अनेके त्रयोऽपि वाताऽऽदयो दोषाश्छिद्यन्ते, एष द्वितीयः / तथा क्वचिदने केघृतकुटेरेकोऽत्यन्तमवगाढो रोगो वाताऽऽदिकश्छेदमुपयाति, एष तृतीयः / क्वचिदनेकैघृतकुटेरनेके वाताऽऽदयो दोषा उपशाम्पन्ति, एष चतुर्थो भङ्ग / एवं प्रतिसेवाऽप्येकरनेकमासविषया चतुर्भङ्गिकया एकानेकर्मासै: शुध्यतीति घृतकुटदृष्टान्त उपलक्षणं, तेन सामान्यत ओषधदृष्टान्तोऽपि द्रष्टव्यः / तत्राऽपि चतुर्भङ्गिका। प्रतिथूत्कृताः, तत एष एकेन मासेन शुद्ध्यतीति जानाना एक मासं प्रयच्छिन्ति। यदि वा-पञ्चरात्राऽऽदिकम् एष द्वितीयो भङ्गा एकन मासेन, पञ्चरात्राऽऽदिना वा बहूना मासिकाऽऽदिपरिहारस्थानानामुपशमनात् / तथा येन तीव्रण रागाऽऽद्यध्यवसानेन एको मास एकं वा पञ्चरात्राऽऽदिक प्रतिसेवितं, स किलैकेन मासेनैकेन पञ्चरात्राऽऽदिना वा न शुध्यतीति तस्मै अनेकान् मासान् प्रयच्छन्ति / उपर्युपरि रागद्वेषाऽऽदिवृद्धि पश्यन्तश्चछेदमपि मूलमपि यावत्पाराञ्चित्तमपि प्रयच्छन्ति, एष तृतीयो भङ्ग। अनेकैर्मासैश्छेदाऽऽदिभिर्वा पाराश्चितपर्यन्तैरकस्य मासस्य पञ्चरात्राऽऽदिकस्य वा शोधनात्। तथा बहुषु मासेषु पगतिसेवितेषु नूनमेष बहुभिर्मासै: शोधिमासादयिष्यतीत्यवबुध्यमाना: स्थापनाऽऽरोपणाव्यतिरेकेण षण्मासान प्रयच्छन्ति, परत: तपः प्रायश्चित्तदानस्यासंभवात्। एष चतुर्थो भङ्गः, अनेकैसैिरनेकषां मासाना शोधनात्। उपनययोजनामाहविभंगीव जिणा खलु, रोगी साहू य रोग अवराहा। सोहीय ओसहाई, तीए जिणओ विसोहिंति॥२६१।। इह विचारप्रक्रमे विभगितुल्या: खलु जिना: प्रतिपत्तव्या: रोगिणो रोगितुल्या साधवः, रोगा रोगतुल्या अपराधा मूलगुणोत्तरगुणापराधा: ओषधानि ओषधतुल्या: शोधय: प्रायश्चित्तलक्षणा:, यतस्तया शेध्या कृत्वा जिना अपि शोधयन्ति, नैवमेव, तत ओषधस्थानीया शोधि:, एवं जिनं प्रतीत्य दोषा: एकत्वमापन्नाः। संप्रति यथा चतुर्दशपूर्विणामधिकृत्य दोषाणामेकत्वं भवति तथा प्रतिपादयतिएसेव य दिह्रतो, विमंगिकएहिँ विजसत्थेहिं। भिसजा करेंति किरियं, सोहिंति तहेव पुव्वधरा / / 262 / / एष एव घृतकुटलक्षण ओषधलक्षणो वा दृष्टान्तश्चतुर्दशपूर्विणोऽपि योजनीयः / यतो यथा भिषजो भिषग्वराविभङ्गिकृतैवैद्यशास्त्रैर्विभ-टिवत् चतुर्भङ्गविकल्पेनावितथा रोगापनयनक्रिया कुर्वन्ति, तथा चतुर्दशपूर्वधरास्त्रयोदशपूर्वरा यावदशपूर्वधरा यावदभिन्नदशपूर्वधरा जिनोपदिष्टे शास्त्रैर्जिना इव चतुर्भङ्गविकल्पतः प्रायश्चितप्रदानेन प्राणिनोऽपराधमलिनान शोधयन्ति, ततस्तत्रापिघृतकुटदृष्टान्त: केवलौषधदृष्टान्तो वा योजनीय इति। आह पर:- ननु जिना: केवलज्ञानसामर्थ्यत: प्रत्यक्षेण रागाऽऽदिवृद्ध्यपवृद्धी पश्यन्ति, ततस्ते चतुर्भङ्गविकल्पतः प्रायश्चित्तं ददतु, तथा शुद्धिदर्शनात्। चतुर्दशपूर्विणस्तु साक्षान्ना वेक्षन्ते, ततः कथं ते तथा दद्युरिति ? नैष दोषः / तेषामपि ज्ञानात्। तथा चात्र नालिकादृष्टान्त :नालीऍ परूवणया, जह तीऍ गतो उ नजए कालो। तह पुव्वधरा भावं, जाणंति विसुज्झए जेण // 263 / / नालिका नाम घटिका, तस्या: पूर्व प्ररूपणा कर्त्तव्या, यथा पादलिप्तकृतविवरणे कालज्ञाने। सा चैवम "दाडिमपुप्फाऽऽगारा, लोहमयी नालिगा उ कायव्वा / तीसे तलम्मि छिड्डु, छिडुपमाणं च मे सुणह // 1 // छन्नउयमूलवाले–हिँ तिवस्सजायाएँ गयकुमारीए। उज्जुकयपिंडिएहिं, कायव्वं नालियाछिडु / / 2 / / तामेवाऽऽहएक्कोसहेण छिज्जं-ति के वि कुविया उ तिणि वायाऽऽदी। बहुएहिं छिज्जती, बहुए एक्केक्कतो वा वि॥२६०॥ एकेनौषधेन तथाविधेन केचित् वाताऽऽदयस्त्रयोऽपि कुपिताश्छिधन्ते, उपशभं नीयन्ते इति भावः। एष द्वितीयो भङ्ग। तथा बहुभिरोषधैर्बहयो वाताऽऽदयो रोगाश्छिद्यन्ते। एष चतुर्थो भङ्गा तथा-(एकेकतो वावि ति ) एकेनौषधेनैको वाताऽऽदिको रोग: छेदमुपयाति / एष प्रथमो भड़ भङ्गत्रयग्रहणाचतुर्थोऽपि भङ्गः सूचितो द्रष्टव्यः / स चायम्अनेकैरोषधैरेको वाताऽऽदिको रोगोऽत्यन्तमवगाश्छिद्यते / एष तृतीयो भगः / इयमत्र भावना-यथा विभङ्गज्ञानिन: सर्वरोगाणां निदानमेकानेकोषधसानथ्य चावबुध्यमाना उपसंपन्नानां रोगिणांघृताऽऽद्यौषधगणं प्रयुञ्जते, तेन च प्रयुज्यमानेन घृतकुटेन औषधेन वा केवलेन कदाचिदेकेनैको रोग उपशमं नीयते, कदाचिदेकेन अनेके, कदाचिदनेकैरेक:, कदाचिदनेके। एवं भगवन्तोपि जिना: केवलिनो मासाहै : रागाऽऽदिभिरासेवितो मास इत्ययमवश्यं मासेन शुद्ध्यतीति जानानास्तस्मै मासं प्रयच्छन्ति, एष प्रथमो भङ्गः / तथा यद्यपि बहवो मासा: प्रतिसेवितास्तथाऽपि ते मन्दानुभावतः प्रतिसेविता:, यदि वा पश्चात् हा दुष्टु कृतमित्यादिनिन्दनै: