________________ पच्छित्त 168 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त संप्रति चाऽऽलोचकमुखात् प्रतिसेवितमासागं श्रुत्वा तत् मासगं स्थापनायामारोपणायां च स्थापयित्वाऽऽरोप्य च परस्मैविविक्तमुपदर्शयेदित्युपदेशमाहठवणाऽऽरोवणमांसे, नाऊणं तो भणाहि मासग्गं / जेण समं तं कसिणं,जेणऽहियं तं च झोसग्गं // 241 / / आलोचकमुखात् प्रतिसेवितामासपरिमाणमाकर्ण्य तदनन्तरमेतावन्तो मासा: स्थापनायामेतोवन्त आरोपणायामिति ज्ञात्वा तत: सञ्चयमासागं विविक्तमालोचकाय भण प्रतिपादय। यथा-अष्टापञ्चाशत् प्रतिसेवितामासा:, आलोचकमुखादुपलब्धे / तत आचार्येण स्थापनाऽऽरोपणादक्षेण विंशिका स्थापना, पञ्चाशशतिका चाऽऽरोपणा स्थापिता, तत्र स्थापनाऽऽरोपणादिवसानामेकत्र मीलने जातं सप्ततं शतम् 170 / तत: षण्मासदिवसेभ्योऽशीतशतसंख्येभ्य: शोधितं, स्थिता: पश्चात् दश, तेषामधिकृतया पञ्चाशशतिकया आरोपणा भागो हियते, तत्र भागोन लभ्यते इतिचत्वारिंशं शतं प्रक्षिप्तम् / ततो भागे हृते लब्ध एको मासः, इयमारोपणा अष्टाविंशतिमासनिष्पन्ना अष्टा विंशतितमा चेति एकोऽष्टाविंशत्या गुणितो, जाता अष्टविंशति: 28 / तत एवमालोचकाय कथयति यथा द्वौ स्थापनामासौ, अष्टाविंशतिरारोपणामासा / एते मिलितास्विंशत, अष्टविंशतिरन्ये मासा आरोपणाया भागे हृते लब्धाः / एवं सर्वत्र संचयमासाग्रमालोचकाय विविक्तं भणनीयमिति / येन पुनरारोपणाभागहारेण भागे ह्रियमाणे झोषविरहेण समं शुद्धयति तत् कृत्स्नमारोपणं द्रष्टव्यम्। येन यावत्प्रमाणेन तु दिवसमीलनचिन्तायां षण्मासपरिमाणमधिकं भवति तच्च तावत्प्रमाणं पुनझोषाग्रं झाोषपरिमाणमवसातव्यम् / यथा विशिकायां स्थापना: पक्षिक्या आरोपणाया पञ्चेति। एतेन झोषपरिमाणलक्षणमुक्तं द्रष्टव्यम्। जत्थ उ दुरूवहीणा, न हाँति तत्थ उ हवंति साभावी। एक्काईजा चोद्दस, एक्काती सेस दुगहीणा।।२४२।। इह सर्वासां स्थापनानामारोपणानां च दिवसेभ्यो मासानामुत्पादनाय पञ्चभिर्भागो हर्तव्यः / तत्र भागे हृते यल्लब्धं तन्नियामाद् द्विरूपहीन कर्त्तव्यम् / यत्र पुनरारोपणा शुद्धिहीना लब्धमासान भवति, एकाऽऽदिषु चतुर्दिनपर्यन्तासु पञ्चभिर्भागहारस्य एवायं- भवात् / पञ्चदिनाऽऽदिषु नवदिनपर्यन्तासु पञ्चभिगि हृतेलब्धस्यापि(?) द्वयो रूपयोरसंभवात्। दशदिनाऽऽदिषु चतुर्दशदिनपर्यन्तासु शुद्धिरूपापसरणे शून्यस्य भावत्। तथा एकाऽऽदय एकदिनाऽऽदयो यावच्चतुर्दशदिनपर्यन्ता: स्थापना आरोपणाश्च स्वाभाविक्य एकस्मान्मासाद्दष्टवयसः। किमुक्तं भवति? - स्वभावेनैव, न तुमासोत्पादननिमित्तकरणप्रयोगत एकरमान्मासान्निवृत्ता प्रतिपत्तय्या इति। (सेस दुगहीण ति ) शेषा: पुन: पञ्चदशदिनाऽऽदय: स्थापना आरोपणाश्च द्विकहीना ज्ञेयाः, पक्षभिर्भागे हृते लब्धस्य द्विरूपहीनत्वाभावत् उपचास्तो द्विकहीना उक्ताः / उवरिं तु पंचभइए, जइ सेसा तत्थ केह दिवसा उ। ते सव्वे एगातो, मासातो हुंति नायव्या / / 243 / / पञ्चदशदिनाया: स्थापनाया आरोपणायाश्च उपरि षोडशदिनाऽऽदिषु स्थापनाऽऽरोपणासु पशभिभीगे हृते, उपरिभगलब्धेभ्यः शेषा ये एकद्विकाऽऽदयो दृश्यन्ते, ते सर्वे लब्धानां परणभतत्यादेकस्माद मासाद्भवन्ति ज्ञातव्याः। किमुक्तं भवति ? तेषु झोषीभूतेष्वपि स एवैको मासो गृह्यते य: पञ्चदशदिनायां लब्ध इति। एवमेकविंशतिदिनाऽऽदिष्वपि भवनीयम। संप्रति हीनाहीने ग्रहणे लक्षणं प्रतिपिपादयिषुर्यथास्थापनाऽऽरोपणामासेभ्यः शेषसंचयमासेभ्यश्च दिवसग्रहण क्रिश्ते, तथा प्रतिपादयतिहोइ समे समगहणं, तह वि य पडिसेवणा उ नाऊणं / हीणं वा अहियं वा, सव्वत्थ समं च गेण्हेज्जा / / 244|| स्थापनाऽऽरोपणानां दिवसपरिमाणे समे तुल्ये, यासु स्थापनाऽऽरोपणासु मासेभ्यो दिवसग्रहणं समं भवति तावन्तः स्थापनामासेभ्यः प्रत्येक दिवसा गृहीताः, तावन्त आरोपणामासेभ्योऽपीति भावः / शेषमासेभ्यो दिवसग्रहणं समं विषमं वा / यथा सप्तदिनायां स्थापनाया सप्तदिनायां चाऽऽरोपणायाम् तथाह्यत्र पूर्वकरणप्रयोगत: षड्विशतिसंचयमासो लब्धः, तत्र स्थापनाऽऽरोपणामासाभ्यां सप्त सप्त दिनानि गृहीतानि, ये चाऽऽरोपणया भागे हृते लब्धाश्चतुर्विंशतिमासास्तेष्येकस्मात्पञ्च दिनानि गृहीतानि, द्वयोर्दिनयोोषे पातितत्वात् / शेषेभ्यः सप्त सप्त दिनानीति / एवमन्यास्यपि स्थापनाऽऽरोपणासु तुल्ये दिवसपरिमाणे स्थापनाऽऽरोपणामासेभ्यस्तुल्यं दिवसग्रहणम्। शेषमासेभ्यस्तुल्यं विषम वा भवनीयम्। कासु चित्पुन: स्थापनाऽऽरोपणासु यद्यपि दिवसपरिमाणं समं भवति, तथापि प्रतिसेवनां ज्ञात्वा कास्यापि मासस्य कीदृशी प्रतिसेवना-उत्कृष्टरागाऽऽद्यध्यवसाया, मन्दरागाऽऽद्यध्यवसाया वा इति ज्ञात्वा तदनुरोध्त: स्थापनाऽऽरोपणासु दिवसग्रहणं कदाचिद्वीनं कदाचिदतिरिक्तं वा।। किमुक्तं भवति?-कदाचिदारोपणाया हीनं, स्थापनायामधिकम्। यथा विशिकायां स्थापनायां विंशिकायामारोपणायाम्। अत्र हि द्वाभ्यामपि स्थापनामासाभ्यां प्रत्येकं दश दिवसा गृहीता / आरोपणामासयोस्त्वेकस्मात्पञ्चदश, एकस्मात्पञ्च / अथ स्थापनाया मासयोरेकस्मात्पञ्चदश दिवसा गृहीताः, अपरस्मात्पञ्च आरोपणामासाभ्यां तुद्वाभ्यां प्रत्येक दश दशेति प्रतिसेवनाविशेषमन्तरेण तुस्थापनामासाभ्यामारोपणामासाभ्यां च प्रत्येकं दश दश दिवसा गृहान्ते इति। (सव्वत्थ समं व गेण्हेजा)कदचित्पुन: सर्वत्र स्थापनायामारोपणायाम्, तथा आरोपणया भागे हृते ये लब्धमासास्तेषु च समं दिवसग्रहण भवति / यथा प्रथम स्थाने स्थापनायां पाक्षिक्यामारोपणायां, तृती स्थाने पञ्चदिनायां स्थापनायां विंशिकायामारोपणायां, द्वितीये स्थाने पाक्षिक्यां स्थापनायां पञ्चदिनायामारोपणाया, चतुर्थे स्थाने एकदिनायां स्थापनायामेकदिनायां वाऽऽरोपणायाम्। एवमन्यास्वपि द्विव्यादिदिनासु स्थापनाऽऽरोपणासु यथयोगं भवनीयम्। विसमा आरुवणाओ, विसमं गहणं तु होइ नायव्व। सरिसे वि सेवियम्मी, जह झोसो तह खलु विसुद्धो // 24 // इह आरोपणाग हणेन स्थापनाऽपि गृहीता द्रष्ट व्या / तत्र प्रतिसेवना कुर्वता यद्यपि सर्वेऽपि मासाः सदृशापराधप्रति सवनेन प्रतिसेविताः, तथाऽपि सदृशे से वितेऽपि सदृश्यामपि प्रतिसेवनायां या: स्थापनाऽऽरोपणा: परस्परं दिवसमानेन वि