________________ पच्छित्त 167 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त ग्रहण नाम विषमग्रहणम्, अहीनग्रहणं समग्रहणम् / एतच यथा संचयमासेभ्यो भवति तथा लक्षणं वक्तव्यम्। तत्र मासपरिमाणविषय लक्षणमभिधित्सुरिदं पूर्वोक्तमेव तावदाहजइहिं भये आरुवणा, ततिभागं तं करे तिपंचगुणं / सेसं पंचहिँ गुणए, ठवणदिणजुया उछम्मासा / / 237 / / इथमर्थत: प्रागेव व्याख्याता, परमन्यथा कियान् शब्दसंदर्भ इति भूयोऽपि व्याख्यायते-संचयमासेभ्यः स्थापनामासेषु शुद्धेषु यच्छषमवतिष्ठते तत् (जइ त्ति) यति मासा भवत्यारोपणा / किमुक्त | भवति?-यतिनिर्सिनिष्पन्ना आरोपणा ततिभागं तावत्संख्याकं भागं करोति, कृत्वा चाऽऽघ (त्रिपञ्चगुणमिति) त्रिपञ्चगुणं पञ्चदशगुणं करोति। शेष समस्तमनेकभागाऽऽत्मकमपि संपिण्ड्य पञ्चभिर्गुणयेत् / ततः स्थापनादिनयुतः षण्मासा भवन्ति। एतत्कने पञ्चदशाऽऽदिव्वारोपणासु कतन्यम् एकाऽऽदिषु चतुर्दशदिनपर्यन्तासु पुनरारोपणासु यावन्त्यारोपणादिनानि तावद्भिर्गुणयितव्यम् / एवं संचयमासाना मध्ये यावतो मासात् यत् गृहीतं तहिनप्रमाणामिधानतो मासपरिमाणविषयलक्षणमभिहितम्। संप्रत्येतदेव पंकारान्तरेणाभिधित्सुराहजतिमि भवे आरुवणा, ततिभागं तस्य पन्नरसहिं गुणए। ठवणाऽऽरोवणसहिया,छम्मासा होंति नायव्वा / / 238||* ये सचयमासास्ते पूर्वं स्थापनाऽऽरोपणामासविशुद्धा: कर्तव्याः। ततो जइभि ति) यतितमा प्रथमा द्वितीया तृतीया इत्यादि आरोपणा, ततिभागस्थास्ते कर्त्तव्याः। तत्र यद्येकभागस्थास्तत: सर्वानपि पञ्चदशभिर्गुणयति, गुणने च कृते स्थापनारोपणाऽऽदिवससहिता: झोषविशुदास्ते षण्मासा भवन्ति। अथानेकभागस्था: तर्हि तस्य अनेकस्य भागस्य आद्यं नाग पञ्चदशभिर्गुणयेत् / शेषान् समस्तानपि, पञ्चगुणानिति वाक्यशेषः। तत: स्थापनाऽऽरोपणादिवससहिता: षण्मासा ज्ञातव्या भवन्ति। तद्यथा-विंशतिदिनायां स्थापनायां पञ्चदशदिनायां चाऽऽरोपणाया त्रयोदश संचयमासाः, तेभ्य एक आरोपणामासो, द्वौ स्थापना-मासौ / उभयमीलने त्रयो मासा: शोधिता जाता दश मासाः / इयमारोपणा प्रथम स्थाने प्रथमेति ते दश मासा एकभागस्था: क्रियन्ते, कृत्वा पञ्चदशाभिर्गुण्यन्ते, जातं पञ्चांश शतम् 150 / अत्र झोषपञ्चक इति पर ततो विशोधिता जातं पञ्चचत्वारिंशं शतम् 145 // तत्र स्थापनादिवसा विंशतिः, आरोपणादिवसा: पञ्चदशेति मीलिता: पञ्चत्रिंशत् ते प्रक्षिप्यन्ते, जातमशीत शतमिति / तथा विंशतिदिनाया स्थापनायां पशविंशतिदिनायां च आरोपणायां त्रयोविंशतिः सञ्चयमासा:, तेभ्यो द्वौ स्थापनामासौ, त्रय आरोपणामासा , उभयमीलने पञ्च मासा, शोधिता जाता अष्टादश / इयमारोपणा प्रथम स्थाने तृतीयेति विभागस्था क्रियते, जाता एकैकस्मिन् भागे षट् षट् / तत्राऽऽद्यो भाग: पञ्चदशभिर्गुण्यते, जाता नवतिः / अत्र पक्षो झोष इति तेभ्यः पञ्चदश शोधिता जाता पञ्चसप्तति: 75 // शेषौ द्वावपि भागौ चैकत्र मीलितौ, जाता द्वादश, ते पञ्चभिर्गुण्यन्ते, जाता षष्टिः, ते पुर्वराशौ प्रक्षिप्यन्ते, जातं * इयं गाथा मूले न दृश्यते। पशवत्रिंशतम् / तत्र स्थापनादिवसा: विंशतिररोपणादिवसा पञ्चविंशतिः। उभयमीलने पञ्चचत्वारिंशत् प्रक्षिप्ता, जातमशीतं शतम्। एवमन्यन्नापि भावनीयम् / नवरमेतत्कर्म क्वचिदेव प्रतिनियतेषु पदेषु कर्तव्यं, नावश्यं सर्वत्रति। संप्रति गुणकारवशेन यथा कृत्स्नाऽऽरोपणा परिज्ञानं भवति, तथा प्रतिपादयतिजेण उ पएण गुणिया, हि ऊगं सो ण होति गुणकारो। तस्सुवरि जेण गुणे, होति समं सो उ गुणकारो॥२३६।। (जेण उपएण गुणिया हि) विंशतिकाया स्थापनायां पाक्षिका आरोपणा दशभिर्गुणिता, जातं पञ्चाशं शतम् 150 / तत्र स्थापनादिवसा विंशति. प्रक्षिप्ता जातं सप्ततं शम् 170 // तदेवं दशभिर्गुणने ऊना: षण्मासा:, एकादशभिर्गुणने अधिका इति पाक्षिक्या-मारोपणायां समकरणं प्रतीत्यैतद्दशाऽऽदिको गुणकार इतीयमकृत्स्नाऽऽरोपणेति प्रतिपत्तव्यम्। (तस्सुवरि इत्यादि) तस्याधिकृतस्य विंशिकाऽऽदिरूपस्य पदस्योपरि त्रिंशत्प्रभृतिके स्थापनापदे येन गुणकारेण दशाऽऽदिलक्षणेन गुणेन षण्मास-दिवसपरिमाणं समं भवति स तत्र गुणकारः, तेन गुणकारेण सा आरोपणा तस्मिन् स्थापनापदे कृत्स्नेत्यवगन्तव्या। यथा पाक्षिक्येवाऽ-- ऽरोपणा त्रिंशत्स्थापनायाम् / तथाहि-पञ्चदशदिनाऽऽरोपणा दशभिर्गुणिता जातं पञ्चाशं शतं, त्रिंशत्स्थापनादिवसा: प्रक्षिप्ता जातमशीतं शतम् / एवं पञ्चचत्वारिंशदिने स्थापनापदे नवभिः षष्टिदिनेऽष्टाभिः, पञ्चसप्ततिदिने सप्तभिः, नवतिदिने षभिः , पञ्चोत्तरशतदिने पञ्चभिः, विंशत्युत्तरशतदिने चतुर्भि:, पञ्चत्रिंशदुत्तरशतदिने त्रिभिः, पञ्चाशशतदिने द्वाभ्यां, षष्टिशतदिने एकेन समं षण्मासदिवसपरिमाणं भवतीति पञ्चचत्वारिंशदादिषु स्थापनापदेषु पाक्षिक्यारोपणा कृत्स्ना प्रतिपतवया। तथा विशिकायामारोपणायां विंशतिदिने स्थापनापदेऽष्टभिः, चत्वारिंशदिने सप्तभिः, षष्टिदिने षड्भिरशीतिदिने पञ्चभिः, शतदिने चतुर्भिर्विशतिशतदिने त्रिभिश्चत्वारिशशतदिनेद्वाभ्यां, षष्टिशतदिने एकेन समं षण्मासदिवसपरिमाणं भवतीति विशिकाऽप्यारोपणा विंशिकाऽऽदिषु स्थापनापदेषु कृत्स्नेत्यक्सेया। एवं शेषा आरोपणा गुणकारैर्विचारयितव्या इति। एतदेव सुव्यक्ततरमाहजइहिं गुण आरोवण, ठवणाजुत्ता हवंति छम्मासा। तावइयाऽऽरुवणाओ, हवंति सरिसा भिलावाओ॥२४०।। यतिभिर्यावद्भिर्गुणकारैर्गुण्यते स्म गुणा गुणिता आरोपणा तदनन्तरं स्थापनायुक्ता स्थापनादिवसयुक्ता षण्मासा भवन्ति; तावत्यो गुणकारसंख्यातुल्यास्ता आरोपणा:, कृत्स्ना इतिगम्यते। प्रतिपत्तव्याः / कथंभूतास्तास्तावत्यः कृत्स्नाऽऽरोपणा इत्याह-सदृशामिलापाः, एकाभिलापा इति भावः / यथा पाक्षिकी आरोपणा त्रिंशदिनाऽऽदिषु दशाऽऽदिभिर्गुणकारैगुणिता: तदनन्तरं च स्थापनादिवसयुक्ताः षण्डमासान्पूरयतीति दश कृत्स्ना आरोपणा: सदृशामिलापा:, एवमन्या अपि तैस्तैर्गुणकारैस्ता-वत्संख्याकै स्तेषु तेषु स्थापनापदेषु गुणिताः, तदनन्तरं तत्तत्स्थापनादिवसयुक्ता: षण्मासपूरिकास्तावत्संख्याका: कृत्स्ना आरोपणा: सदृशामिलापा भावनीयाः।