________________ पच्छित्त 165 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त नासु पञ्चदिनाऽऽदिषु नवदिनपर्यन्ता शुद्ध्यति,रूपद्विकेदशदिनाऽऽदिषु चर्तुदशदिनपर्यन्तासु रूपद्विकशुद्धौ जायमानेशून्ये मास एको ग्रहीतव्यः / एवं पञ्चदशदिनाऽऽदिष्वप्येकोनविंशति दिनपर्यन्तासु एकोनविंशतिदिनाऽऽदिषु चतुर्विशतिदिनपर्यन्ताशुद्धौ मासौ। एवं सर्वत्र यावत्पञ्चकन परिपूर्णले तावत् पूर्वसंख्याकान् मासान् दद्ता पञ्चके तु पूर्ण रूपमधिक प्रक्षिपता भावनीयम् / तदेवमुक्तं स्थापनासंचसद्वारम्। अधुना राशिद्वारमाहअसमाहिट्ठाणा खलु, सवला य परीसहा य मोहे ति। पलिओवमसागरोवम-परमाणु ततो असंखाजा।।२१।। एष प्राथमित्तराशि: कुत:? उच्यते-यानि खल्वसमाधिस्थानानि विंशति, खलुशब्द: संभावने / स चैतत्संभावयतिअसंख्यातानि देशकालपुरुषभेदतोऽसमाधिस्थानानि / एवमेकविंशतिः शवलानि, द्वाविंशति: परीषहा, तथा मोहे मोहनीये कर्मणि ये अष्टाविंशतिर्भेदाः / अथवा-मोहविषयाणि त्रिंशत्स्थानानि, एतेभ्योऽसंयमस्थानेभ्य एष प्रायश्चित्त राशिरुत्पद्यते / भूयः शिष्यः पृच्छति-कियन्ति खलु तान्यसंयभस्थानानि ? उच्यते-(पलितोवमेत्यादि) पल्योपमेसगरोपमे च यावन्ति बालाग्राणि तावन्ति न भवन्ति, किं तु व्यावहीरिकपरमाणुमात्राणि यानि बालाग्राणां खण्डानि तेभ्योऽसंख्येयानि / इयमत्र भावनायावन्ति खलु पल्योपमे बालाग्राणि तावन्त्यसंयमस्थानानि भवन्ति / नायमर्थः समर्थः / यावन्ति सागरोपमे बालाग्राणि तावन्ति। यद्येवं तर्हि सागरोपमेयानि बालाग्राणि प्रत्येकासंख्येयखण्डानि क्रियन्ते, तानि च खण्डानि सांव्यवहारिकपरमाणुमात्राणि तावन्ति भवन्ति / नायमप्यर्थ: / कियन्ति पुनस्तानि भवन्ति ? उच्यतेतेभ्योऽप्यसख्येयगुणानि / अन्ये तु ब्रुवते-परमाणुमात्रा णि खण्डानि सूक्ष्मपरमाणुमात्राणि द्वष्टटयानि / तदसम्यक् / सूक्ष्मपरमाणवो हि तत्रानन्ता:, असंयमस्थानानि चोर्कषतोऽप्य संख्येयलोकाऽऽकाशप्रदेशप्रमाणानि / इति गतं राशिद्वारम्। अथ मानद्वारमाहवारस अट्ठ य छक्कग, माणं भणियं जिणेहिँ सोहिकरं। तेण परं जे मासा, संहण्णंता परिसडंति // 220 // मीयते परिच्छिद्यते वस्त्वनेनेति मानम् / तद् द्विधा-द्रव्ये, भावे च तत्र द्रव्येषु प्रशस्काऽऽदिषु, भावतः पुनरिदं मानं प्रायश्चित्त मानं जिनैस्तीर्थकृद्भिस्त्रिविध शोधिकरं भणितम् / तद्यथा-प्रथमतीर्थकरस्य द्वादश मासा मध्यमतीर्थकृतामष्टौ मासा:, वर्द्धमानस्वामिन: षट्कं षण्मासा:। इतोऽधिक न दीयते, किन्तु बहुष्वपि प्रतिसेवितेषु मासेष्वेतावन्मात्रमेव / अत्र प्रस्थकदृष्टान्तो यथा-प्रस्थकेन मीयमानं धान्यं तावन्मीयते यावत् . प्रस्थकस्य शिखा परिपूणी भवति, ततः परमधिकमारोह्यमानमपि परिपतति / एव षण्णां मासानामधिकं यद्यपि प्रतिसेवितं तथापि तत् स्थापनाऽऽरोपणाप्रकारेण संहन्यमानं परिशटति। तथाचाऽऽह-(तेणपरमित्यादि)तत उक्तरूपात् परमित्यव्ययम्, परे ये मासास्ते स्थापनाऽऽरोपणाप्रकारेण संहन्यमाना: संघात्यामाना: पारशटन्ति। तावन्मात्रेणापि च प्रायश्चित्तप्रतिपत्तार : शुद्ध्यन्ति, शुद्धस्वभावत्वात् भगवतां तीर्थकृतामाझेषा सम्यगनुष्ठेया इति। संप्रति प्रभुद्वारमाह केवलमणपज्जवना-णिणो य तत्तोय ओहिनाणजिणा। चोदृसदसनवपुथ्वी, कप्पधार पकप्पधारी य॥२२१।। (केवलमणपज्जवनाणिणो त्ति) ज्ञानशब्द: प्रत्येकमभिसंबध्यते, केवलज्ञानिनो मन:पर्यायज्ञानिनश्च, ततस्तदनन्तरमवधिज्ञानेन जिना अवधिज्ञानजिना: / जिनशब्दो विशुद्धावधिप्रदर्शकः, विश्रुद्धावधिज्ञाना इत्यर्थः / ततश्चतर्दशपूर्विणो, दशपूर्विणो नवपूर्विणश्च / इहाऽसतां नवपूर्विण: न परिपूर्णनवपूर्वधरा:, किं नवमस्य पूर्वस्य यत् तृतीयमा - चारनामकं वस्तु तावन्मात्रधारिणोऽपि नवपूर्विण: / तथा कल्पधरा: कल्पव्यवहारधारिणः, प्रकल्पो निशीथाध्ययनं, तद्धारिणः / चशब्दोऽनुक्तसमुच्चयार्थः। ___ तदेवानुक्तं चशब्देन सूचितं दर्शयतिघेप्पति चसद्देणं, निजुत्तीसुत्तपेदियधराय। आणाधारण जीते, य होंति पहुणो उ पच्छित्ते // 222 / / चशब्देन गृह्यन्ते नियुक्तिसूत्रपीठिकाधराः / तत्र निर्युक्तयो भद्रबाहुस्वामिकृताः, सूत्रपीठिका निशीथकल्पव्यवहारप्रथमपीठिकागाथारूपाः / तथा आज्ञायां धारणे जीते च ये व्यवहारिण:-आज्ञाव्यवहारिणो, धारणाव्यवहारिणो, जीतव्यवहारिणश्च / एते प्रायश्चित्तदाने प्रभवः। तदेवं गतं प्रभुद्वारम्। इदानीं कियन्ति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः। तत्र शिष्यः पृच्छति-कियन्ति खलु प्रायश्चित्तनि ?आचार्य आहअर्थतो ऽपरिमितानि सूत्रत: पुनरिदं परिमाणम् - अणुधाइयमासाणं, दो चेव सया हवंति वावण्णा। तिन्नि सया बत्तीसा, हुंति अ उगघाइयाणं पि॥२२३।। पंचसया चुलसीया, सव्वेसिंमासियाण बोधवा। तेण परं वुच्छामी, चाउम्मासाण संखेवं / / 22 / / अनुद्धातिता नाम गुरवः, उद्धातिता लघव: / निशीथनाम्नि अध्ययने प्रथमोद्देशके अनुद्धातिता गुरवो मासा अभिहिता:, तेषामैकत्र संक्षिप्तानां द्वे शते द्वापञ्चाशदधिके भवत: / द्वितीयतृतीयचतुर्थपञ्चमोद्देशकेषु उद्धातिता मासा उक्ता:,तेषामुद्धातितानां मासानामेकत्र संक्षिप्तानां त्रीणि शतानि द्वात्रिंशानि भवन्ति / एतेषां सर्वेषामप्युद्धातितमासानामनुद्धातितमासानां चैकत्र मीलने मासिकानां प्रायश्चित्तनां योद्धवयानि पञ्चशतानि चतुरशतानि 584 / (तेण परमित्यादि) अत: परं चातुर्मासिकानां संक्षेपं वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिछच्च सया चोयाला, चाउम्मासाण होंतिऽणग्याया। सत्तसया चउवीसा, चाउम्मासाण उग्धाया॥२२॥ तेरससय अठसठ्ठा, चाउम्मासाण होंति सव्वेसिं। तेण परं वुच्छामी, सव्वसमासेण संखेवं / / 226 // षष्ठसप्तमाष्टमनवमदशमैकादशोद्देशकेषु अनुद्धातितानि चातुर्मासिकान्युक्तानि। एतेषामेकत्र संक्षिप्तानां भवन्ति षट्शतानिष्वारिंशानि६४४। गाथाय 'होतिऽणुग्धाया।' इत्यत्र षष्ठयर्थे प्रथमा, प्राकृतत्वात् / एवमुत्तराद्धेऽपि द्वादशचतुर्दशपञ्चदशषोडशसप्तदशशाष्टादशैकोनविंशतितमेष्ट्वष्टसूद्देशकेषु उद्धातिताश्चतुर्मासिका उक्ताः, तेषामेकत्र संक्षिप्तानां सप्तशतानानि चतुर्विंशति: 724 / उद्घातिनामनुद्धातितानां च सर्वेषां चतुर्मासानामेकत्र मीलितानां भवन्ति त्रयोदश शतानि अ