________________ पच्छित्त 163 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त नुपूर्व्या क्रमेण भवन्त्यन्या अपि ज्ञातव्याः / कियत्संख्याकास्ता एतेन क्रमेण ज्ञातव्या: ? इत्याह-एतेन क्रमेण भवन्ति पक्षशतान्येकषष्टीनि गाथानामिति / इयमत्र भावनापाक्षिकी स्थापनाममुञ्चता आरोपेणायां चपञ्चपञ्च प्रक्षिपता तावन्नेतव्यं यावत् त्रयस्त्रिंशत्मासाः, पञ्चषष्टदिनशतभाना आरोपणा। ततो विंशतिदिनां स्थापनाममुञ्चता पश्चादिकायामारोपणायां पञ्च पञ्च प्रज्ञिपता तावद्गन्तव्यं यावत्द्वात्रिंशत्तमा षष्टिदिनशतमाना आरोपणा / एवं स्थापनासु पञ्च पञ्च प्रक्षिपता आरोपणासु चैक के स्थानमुपरितनभागात्परिहरता तावन्नेतव्यं यावद्गाथानां पाशलेनैकषष्टानि भवन्ति। द्वितीय स्थापनाऽऽरोपणं स्थानं समाप्तम्। संप्रति तृतीय स्थापनाऽऽरोपणास्थानं प्रतिपादयन्निदमाह - पणतीसं ठवणपया, पणतीसाऽऽरोवणाई ठाणाई। उदणाणं संवेहे, छच्चेव सया भवेतीसा॥२०६।। तृतीय स्थाने पञ्चत्रिंशत्स्थापनापदानि, पञ्चत्रिंशचाऽऽरोपणया स्थानानि पदानि / एतदपि पूर्वमेव भावितम् / संप्रति संवेधप-- रिमाणमाह-(ठवणाणमित्यादि) स्थापनानामारोपणाभिः सह संवेधा: सर्वसंख्यया भवन्ति षट्शतानि त्रिंशानि 630 / एतानि च ''गच्छुत्तरसं विग्गे" इत्यादिकरणवशादाने तव्यानि / तत्र गच्छ: पञ्चत्रिशत् / कथमिति चेत् ? उच्यते-"ठवणारोवणयिजुया।" इत्यादिकरणवशात् / तथाहि- अशीतात् शतात् पश्चदिनानि प्रथमस्थापनाया., पञ्चदिनानि प्रथमाऽऽरोपणाया उभयमीलने दश शोध्यन्ते, जातं सप्तशतम् 170 / तस्य पञ्चभिर्भागो हियते, लब्धं चतुस्त्रिंशत्। सा रूपयता क्रियते, आगत: पञ्चत्रिंशत् गच्छः / उत्तरमेक आदिरप्येक / ततः पञ्चत्रिंशत् एकेन गुण्यते। एकेन गुणितंतदेव भवतीति जाता पचत्रिंशदेव, सा उत्तरेणैकेन हीना क्रियते, जाताश्चतुस्त्रिंशत् तत्राऽऽदिममेकं प्रक्षिपेत्। भूयोऽभवत् पञ्चविंशत्। एतत् अन्तिमधनमन्तिमेऽङ्क स्थाने परिमाणम् / एतदादियुतं क्रियते, जाता षट्त्रिंशत्, सा गच्छार्द्धन गुणयितव्या। तत्र गच्छराशिर्विषमत्वात्परिपूर्णमर्द्धन ददातीति षट्त्रिंशदर्तीक्रियते , जाता अष्टादश, ते गच्छेन परिपूर्णेन गुण्यन्ते, जातानि षट्शतानि त्रिंशदधिकानि। सप्रत्यास्मिन् तृतीये स्थाने कियदिना प्रथमा स्थापना, प्रथमाऽऽरोपणाच, साचस्थापनाऽऽरोपणा च कियद्भिः संचयमासै: प्रतिसेवितैनिष्पन्नेत्यादभिधित्सुराहपढमा ठवणा पंच उ, पढमा आरोवणा भवे पंच। छत्तीसा मासेहि, एसा पढमा भवे कसिणा।।२१०॥ तृतीय स्थाने प्रथमा स्थापना पञ्च पञ्चदिनप्रमाणा, प्रथमा आरोपणा भवति पञ्चपञ्चदिना / एषा स्थापना आरोपणा च निष्पन्ना षत्रिंशता मासौः प्रतिसेवितः। कथमिति चेत्? उच्यते अशीतात् शतात् पञ्च स्थापनादिवसा: पच आरोपणादिवसाः, उभयमीलेन दश शोधिता:, जातं सप्ततं शतम् 170 / एतस्य पञ्चदिनया आरोपणया भागो हियते, लब्धाश्चतुर्विंशन्मासा., एक: स्थापनायां पूर्वप्रकारेण मास:, एक आरोपणायामिति द्वौ मासौ तत्र प्रक्षिप्तौ, जाता: षट्त्रिंशत् मासाः / अथ कुतो मासात्किं गृहीतम् ? उच्यते-प्रतिसेवितमासेभ्य: षट्त्रिंशत् एकः / स्थापनामास: शोधिता, जाता: पञ्चत्रिंशत्, ते यद्येकद्विव्यादिदिना आरोपणा पञ्च दिना दशादिना वा, ततस्यैवाऽऽरोपणया संचयमासा गुण्यन्ते इति वचनादत्र पञ्चदिनाऽऽरोपणेति पञ्चभिगुण्यन्ते, जातं पञ्च सप्ततं शतम् 175 / स्थापनादिवसाश्च पञ्च तत्रैव प्रक्षिपता जातमशीतं शतमागतमेकैकस्मान्मासात् पञ्च पञ्च रात्रिन्दिवानि गृहीतानि / अत्र भाग: शुद्ध पतित दति कृत्स्नैषाऽऽरोपणा सर्वासां च कृत्स्त्राऽऽरोपणानामाद्येति प्रथमा। तथा चाऽऽह-"एसा पढमा भवे कसिणा।" पढमा ठवणा पंच उ, विइया आरोवणा भवे दस उ। एगुणवीसमासेहि, पंवहिँ राइंदिया झोसो // 211 / / तृतीय स्थाने प्रथमा स्थापना पञ्चपञ्चदिना, द्वितीया आरोपणा भवति दश दशदिना। एषा स्थापना द्वितीया चाऽऽरोपणा निष्पन्ना एकोनविंशत्या मासै: प्रतिसेवितैः / तथाहि-अशीतात् शतात् पञ्च स्थापनादिवसाः / उभयमीलने पञ्चदश शाध्यन्ते, जातं पञ्चषष्ठं शतम् 165 / अस्य दशभिर्भागो ह्रियते। तत्र परिपूर्णो भागो न पततीति पञ्चरात्रिन्दिवानि झोष: प्रक्षिप्यते। तथा चाऽऽह-"पंचहिँ राइंदिया झोसा' झोषे च प्रक्षिप्ते लब्धा: सप्तदश मासा: एकः स्थापनाया मासः, एक आरोपणाया इति द्वौ मासौतत्र प्रक्षिप्तौ। जाताएकोनविंशतिरागतमेकोनविंशत्या प्रतिसेवितैमसैिनिष्पन्नति। अथ कुतो मासात्किं गृहीतम्? उच्यते। प्रतिसवितमासेभ्य एकोनविंशतेरेकस्थापनामासा: शोधितो, जाता अष्टादश मासा: / अत्र दशदिनाऽऽरोपणेति ते दशभिर्गुण्यन्ते, जातमशीतं शतं, पञ्चवासरा झोष इति पञ्च ततोऽपसारिता जातं पञ्चसप्ततं शतम् / तत्र स्थापनादिवसा: पञ्च प्रक्षिप्ता:, जातमशीतं शतम् / आगतं स्थापनीकृतान्मासात्पञ्चरात्रिन्दिवानि गृहीतानि / पञ्चझोषीकृत्य झोषेभ्यो दश दशरात्रिन्दिवानीति। पढमा ठवणा पंच उ, तइया आरोवणा भवे पक्खो। तेरसहिं मासेहि, पंच य राइंदिया झोसो॥२१२।। तृतीये स्थाने प्रथमा स्थापना पञ्चपञ्चदिना, तृतीया चाऽऽरोपणा भवति पज्ञ: पक्षप्रमाणा, एषा प्रथमा स्थापना तृतीया चाऽऽरोपणा त्रयोदशभिः प्रतिसेवितैर्मासैनिष्पन्ना। तथाहि-अशीतात् दिवसशतात् पञ्चस्थापना दिवसा:, पञ्चदश आरोपणा दिवसा:। उभयमीलने विंशति: शोध्यन्ते, जातं षष्टि शतम् 160 / तस्याधिकृतया पञ्चदिनया आरोपणाया भागो हियते, तत्र सिद्धो भागो न पततीति पञ्च झोष: प्रक्षिप्यते। तथा चाऽऽह"पंच उराइदिया झोसो।" झोषे च प्रक्षिप्ते लब्धा एकादश एकस्थापनाया मास एक आरोपणाया इति द्वौ मासौ तत्र प्रक्षिप्तावागतं त्रयोदशभिर्मासै: प्रतिसेवितैर्निष्पन्ना। अथ कुतो मासात् किं गृहीतम् ? उच्यतेप्रतिसेवितमासेभ्यस्त्रयोदशभ्य एकस्थापनामासा: शेधित:, स्थिताः पश्चात् द्वादश आरोपणा एकमासनिष्पन्नेत्येकभागीक्रियन्ते, आद्यश्च भाग: पञ्चदशभिः किल गुणयितव्य इति पञ्चदशभिस्ते द्वादशापि गुण्यन्ते, जातमशीतं शतं शतं, पञ्च झोष-इति ततोऽपनीयन्ते जातं पञ्चसप्ततं शतं, तत्र पञ्चस्थापनादिवसा: प्रक्षिप्यन्ते जातमशीतं शतमागतमत्र स्थापनाकृतान्मासात्पञ्च दिवसा गृहीताः, शेषेभ्यस्तु द्वादशमा सेभ्य: पञ्चझोषीकृत्य पञ्चदश पञ्चदशेति॥