________________ पच्छित्त १६२-अभिधानराजेन्द्रः - भाग 5 पच्छित्त रूवजुया ठवणपया, तिसु चरमाऽऽदेस भागेको / / 204 / / / षण्णां मासानां समाहार: षड् मासं, तस्मान् सण्मासात् स्थापनाऽऽरोपणादिवसैर्विरहितात् तदनन्तरं पञ्चभागरक्तात्यंलब्धास्ते रूपयुता: सन्तो यावन्तो भवन्ति, तावन्ति स्थापनापदानि एतावान् तत्र गच्छ दति भावः / एतच्च त्रिष्वाद्येषु स्थानेषु द्रष्टव्यम्, चरमेऽपि स्थाने एष एवाऽऽदेश: केवलमेकेन भागो हर्त्तव्य / एष गाथाऽक्षरार्थ: / भावार्थस्त्वयम्प्रथमस्थाने प्रथमा स्थापना विंशतिदिना प्रथमा चाऽऽरोपणापञ्चदशदिनाउभयमीलने दिनानि पञ्चत्रिंशत्। तानि षण्मासदिवसेभ्योऽशीतशतप्रमाणेभ्य: शाध्यन्ते, जातं पञ्चचत्वारिशं शतम्, तस्या पञ्चभिर्मागो हियते, लब्धा एकोनत्रिंशत्, सा रूपयुता क्रियते, जाता त्रिंशत्। आगतः प्रथमे स्थाने त्रिंशत् गच्छाः। तथा द्वितीय स्थाने प्रथमा स्थापना पञ्चदशदिना, प्रथमा चाऽऽरोपणा पञ्चदिना उभयमीलने जातानि दिनानि विंशतिः, षण्मासदिवसेभ्योऽशीतशतप्रमाणेभ्य:शाध्यते, जातं षष्टि शतम्-१६० / तस्य पञ्चभिर्भागो हियते / लब्धा द्वात्रिंशत्, सा रूपयुता क्रियते, जातास्त्रयस्त्रिशत्। आगतं द्वितीय स्थाने त्रयस्त्रिंशगच्छ:। उत्तरमेक आदिरप्येक: / अत्र भावना प्रागुक्ताऽनुसतव्या / तत्र गच्छस्त्रयस्त्रिंशत् एकेन युक्ताऽनुसतव्या / तत्र गच्छस्त्रयस्त्रिंशत् एकेन गुण्यते, एकेन गुणितं तदेव भवतीति जातात्रयस्त्रिंशदेव मासा: उत्तरेणैकेन हीना क्रियन्ते, जाता द्वात्रिंशत्, तत्राऽऽदिममेककलक्षण प्रक्षिपेत, जाता भूयस्त्रयस्त्रिंशत्, एतत् अन्तिमं धनम् / एतच्चान्तिम धनमादिना एककेन युतं क्रियते, जाता चतुस्त्रिशत् सा गच्छार्द्धन गुणवितव्यः। तत्रगच्छमशेर्विषमत्वात्परिपूर्णमर्द्धन लभ्यते इति चतुस्त्रिशदी क्रियते, जाता: सप्तदश, ते गच्छेन परिपूर्णेन गुण्यन्ते, जातानि पञ्चशतान्येकषष्टानि 561 // संप्रत्यस्मिन् द्वितीय स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमाऽऽरोपणा सा च प्रथमा स्थापनाऽऽरोपणा च कतिभिः संचयमानैः प्रतिसेवितैर्निष्पन्ना तत्प्रतिपादयतिपढमा ठवणा पक्खे, पढमा आरोवणा भवे पंच। चोतीसा मासेहि, एसा पढमा भवे कसिणा / / 20 / / द्वितीये स्थाने प्रथमा स्थापना पक्ष: पक्षप्रमाणा, प्रथमा चाऽऽरोपणा भवति पच्चपञ्चदिना। एषा स्थापना आरोपणा च निष्पन्ना चतुस्त्रिंशता मासै: प्रतिसेवितैः। कथमिति चेत् / उच्यतेषण्मासानांदिवसा अशीतं शतं, तस्मात्' ठवणाऽऽरोवणदिवसे माणा उ विसोहइत्तु'' इति वचनात् स्थापनादिवसा: पञ्चदश, आरोपणादिवसा: पञ्च उभयमीलने विंशति: शोध्यन्ते, जातं षष्ट शतम् 160 / ततोऽधिकृतया पञ्चकलक्षणया आरोपणया भागो ह्रियते, लब्धा द्वात्रिशत् मासाः / राशिश्चात्र निर्लप: शुद्ध इत्येषा आरोपणा कृत्स्ना / तथा चाऽऽह-एषा आरोपणा भवति कृत्स्ना, कृत्स्नाभागहरणात्। सा चान्यस्यां कृत्स्नाऽऽरोपणानां प्रथमा स्थापनादिवसा (?), तां च मासाऽऽनयनाय पञ्चभिर्भागो ह्रियते, लब्धास्त्रयः, ते द्विरूपहीना: क्रियन्ते, जात एकक आगत एको मास :, आरोप-णायामप्येको मासो लब्धः, "जत्थ उ दुरूवहीणं न होज्छ / ' इत्यादि-वचनात्।तत एकस्थापनातास एक आरोपणामास इति द्वौ मासौ पूर्वराशौ प्रक्षिप्येते, आगतं चतुरित्रंशन्मासा: प्रतिसेविताः। अथ कुतो | मासात् किं गृहीतम् ? उच्यते-चतुस्त्रिशत: प्रतिसेवितमासेभ्य एक: स्थापनामासा: शोध्यते, जातास्त्रयस्त्रिंशत्, ते आरोपणया पञ्चदिनमानया भागे हृते लब्ध इति पञ्चभिर्गुण्यन्ते, जातं पञ्चषष्टिशतम् 165 | तत्र स्थापनादिवसाः पञ्चदिवसप्रक्षिप्ताः, जात (?) मागतमेकस्मात् स्थापनीकृतान्मासात् पञ्चदश दिनानि गृहीतानि शेषेभ्यस्तु पञ्च पश्चेति। अधुना द्वितीये स्थाने प्रथमायां स्थापनायां यावद्दिना द्वितीया आरोपणा, यतिभिश्च संचयमासैः प्रतिसेवितै: सा प्रथमा स्थापना, द्वितीया चाऽऽरोपणा निष्पन्ना, तदेतत्प्रतिपादयतिपढमा ठवणा पक्खो, वितिया आरोवणा भवे दसओ। अट्ठारस मासेहिं, पंच उराइंदिया झोसो // 206|| द्वितीय स्थाने प्रथमा स्थापना पक्षो, द्वितीया चाऽऽरोपणा दश दश दिनानि भवन्ति / एषा च स्थापना, आरोपणा च अष्टादशमासै: प्रतिसेवितै निष्पन्ना / तथाहि-अशीतात् स्थापनादिवसा पञ्चदश, आरोपणादिवसा दश, उभयमीलने पञ्चविंशति: शोध्यते, जातं पक्ष पञ्चाशं शतम् 155 / ततोऽधिकृतया दशदिनया आरोपणाया भागो हियते, अत्र शुद्धो भागोनशुद्ध्यति, पञ्चसुप्रक्षिप्तेषु शुद्ध्यतीति पशकोऽत्र झोषः। तथा चाऽऽह पञ्चरात्रिन्दिवानि झोष इति लब्धा: षोडश मासाः, स्थापनायां च प्रागुक्तप्रकारेणैको मास आरोपणायास्तु दशाऽऽत्मिकाया: पञ्चभिर्भागो हियते, लब्धौ द्वौ तौ द्विरूपहीनौ कृतौ,जातं शून्यम, लब्ध एको मास: "जइ वा दुरूवहीणे, कयम्मि हुज्जा जहिं तु आगासं / तत्थ दि एगो मासोः" इति वचनात्, तौ द्वावपि मासौ पूर्वराशौ प्रक्षिप्येते, आगतमष्टादश मासा: प्रतिसेविता: / अथ कुतो मासात् किंगृहीतम् ? उच्यते-षोडशमासेभ्यो दश दश रात्रिन्दिवानि पञ्चझोषीकृतानि, स्थापनामासात्पञ्चदश, आरोपणामासाद्दशक: प्रत्यय इति? उच्यतेषोडश दशभिर्गुणिता जात षष्टं शतम् / 160 / पञ्चझोषीकृतास्ततः शोध्यन्ते, जातं पञ्चाशं शतम् / तत: स्थापनादिवसा: पञ्चदश, आरोपणादिवसा दश, उभयमीलने पञ्चविंशति प्रक्षिप्यन्ते, जातमशील शतम्। पढमा ठवणा पक्खा, तइया आरोपणा भवे पक्खो। वारसहिं मासेहिं, एसा विइया भवे कसिणा ||207 / / द्वितीये स्थाने प्रथमा स्थापना पक्षस्तृतीया चाऽऽरोपणा भवति पक्षः! एषा स्थापना आरोपणा च द्वादशभिर्मासैनिष्पन्ना। कथमवसीयते इति चेत् ? उच्यते-अशीतात् दिवसशतात् स्थापनादिवसा: पञ्चदश, आरेपणादिवसाश्च पञ्चदश, उभ्यमीलने त्रिंशत् शोधिता, जातं पञ्चाश शतम् 150 / ततोऽधिकृतया पञ्चदशदिनया आरोपणया भागो हियत, लब्धा दश मासाः, प्रागुक्तप्रकारेण चैको मास: स्थापनायामेको मास आरोपणायामिति द्वौ मासौ तत्र प्रक्षिप्तौ, आगतं द्वादश मास प्रतिसे वितैर्निष्पन्ना / अथ कुतो मासात् किं गृहीतम् ? उच्यतेएकैकरपात्पञ्चदश वासरा: / तथाहि द्वादश मासा: पञ्चदशभिर्गुणिता जातमशीतं दिवसशतमिति। एवं एयागामिया, गाहाओ हुंति आणुपुटवीए। एएण कमेण भवे, पंचेव सया उ एगट्ठा / / 20 / / एवमुक्तप्रकारेण एतत्गमिका अनन्तरोक्तप्रकारा, गाथा आ