________________ पच्छित्त 158 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त या झोषाग्रं झोणपरिमाणम् / यथा केनापि पृष्टमर्विशिका स्थापता, पाक्षिकी चाऽऽरोपणा कतिभिर्मासै: प्रतिसेवितैनिष्पन्ना ? उच्यते?योदशभिर्मासैः / कथमेतदवयीयते इति चेत् ? उच्यतेइह षण्णां मासानामशीतं दिवसशतमित्यशीतं शतं ध्रियते १८०।ततो विशिकाया: स्थापनासा विंशतिदिनानि, पाक्षिक्याश्वाऽऽरोपणाया; पञ्चदश दिनानि शोध्यन्ते, "ठवणाऽऽरुवणदिवसे माणाउविसोहइत्तु इति वचनात्। शेषं जातं पञ्चचत्वारिंशशतम्, तत. "इच्छियरुवणाएँ भए'' इति वचनात् / अधिकृताया पशदशदिनया आरोपणाया भागो हियते। तत्र चोपरितनो राशि: शुद्ध भागंन प्रयच्छति, पञ्चसु च प्रक्षिप्तेषु प्रपच्छतीति पञ्चसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चपरिमाणोऽत्र झोष: प्रक्षिप्यते / ततो भागे हृते लब्धा: दश मासाः / तथा “दिवसा पंचहिँ भइया, दुरूवहीणा उ ते भवे मासा।" इति वक्ष्यमाणवचनात् स्थापनादिवसानां विंशते पञ्चभिर्भागो हियते, लब्धाश्चत्वारः, ते द्विरूपहीना: क्रियन्ते, स्थितौ द्वौ मासौ स्थापनायाः / तथा पञ्चदशदिनाया आरोपणाया: पञ्चभिर्भागी ह्रियते, लब्धास्त्रयस्ते द्विरूपहीना: कृता जाता एको, लब्ध आरोपणाया एको मासः, तेन, यदि वा प्रथमेयमारोपणेति लब्धमासा दश, एकेन गुण्यन्ते, जाता दशैव-" एकेन गुणितं तदेव भवति'' इति न्यायात्। ततो द्वौ स्थापनामासावेक आरोपणामासा दश प्रागुक्ता इति लब्धाः प्रतिसेविता मासास्त्रयोदश। पृच्छतिविशिकास्थापना पञ्चविंशतिदिना चाऽऽरोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना:? उच्यतेत्रयोविंशतिमासैः। तथाहि-स्थापनादिवसा विंशतिरारोपणादिवसा: पञ्चविंशतिरेते मिलिता: पञ्चचत्वारिंशत्, ते षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः शोध्यन्ते, जातं शेषं पञ्चविंशशतं, ततोऽधिकृतया पञ्चविंशतिदिनया आरोपणया तस्य भागो हियते / तत्रोपरितनो राशि: शुद्धं भागं न प्रयच्छति, पञ्चदशसुवप्रक्षिप्तेषु प्रयच्छतीति पञ्चदशपरिमाणोऽत्र झोष प्रक्षिप्यते, लब्धाः षण्मासाः / तथा अधिकृताऽऽरोपणायाः पञ्चभिर्भागो ह्रियते, लब्धाः पञ्च ते द्विरूपहीनाः क्रियन्ते जातात्रयः, एतावन्त आरोपणाया मासा:, यदि वेयं तृतीयाऽऽरोपणेति " दुण्हं पि गुणसुलब्द्ध इत्थियरुवणाइ जइ मासा / / " इति वक्षयमाणवचनात् ते षण्मासास्त्रिभिर्गुण्यन्ते, जाता अष्टादश, द्वौ स्थापनामासौ त्रयश्वाऽऽरोपणामासा इति सर्वसंख्यया त्रयोविंशतिमासाः। अथवा अन्यथा झोषपरिमाण कथयतिठवणादिवसे माणा, विसोहइत्ताण भयहरुवणाए। जो छेयंसक्सेिसो, अकसिणरुवणाएँ सो झोसो।।१८८|| मानान् षण्मासदिवसपरिमाणान् अशीतशतान स्थापनादिवसान अधिकृतस्थापनावासरान् विशोधय विशोध्य च यच्छेषमवतिष्ठते तत् आरोपणया अधिकृताऽऽरोपणादिवसैर्भज भागहीनं कुर्यात्, भागे च हृते य: छेदात् अंशानां विश्लेषः / इह विश्लेषे कृते सति यदवतिष्ठते तदपि विश्लेषतो जातत्वाद् विश्लेषः / स तावत्प्रमाणोऽकृत्स्नाऽऽरोपणायां झोषः / यथा षण्मासदिवसपरिमाण भूतात् अशीतशतात् विशिकाया: स्थापनाया. दिवसा विंशतिरिति, ततो विंशति: शोध्यते, जातं षष्ट्यधिकं | शतम् 160 / ततः पाक्षिक्यामारोपणायां संचयमासा ज्ञातुमिष्टा इति पञ्चदशभिर्भागो ह्रियते, स्थिता. शेषा दश, अधस्तात छेद: पञ्चदश, तेभ्यो दश विश्लिष्यन्ते, स्थिता: पञ्च, आगतं पाञ्चदशिक्यामकृत्स्नाऽऽरोपणायां पञ्चको झोषः। तथा अशीतशतात स्थापनादिवसा विंशति शोध्यन्ते, जातं षष्टशतम् 160 // ततः पञ्चविंशतिदिनाया आरोपणाया: संचयमास ज्ञातुमिष्टा इति पञ्चविंशत्या भागो ह्रियते, तथा शेषा दश छेदोऽधस्तात्पञ्चविंशतिः, तस्या दश विश्लिष्यन्ते स्थिताः पञ्चदश, आगतं पञ्चविंशतिदिनायामारोपणायां पक्षो झोषः। एवं सर्वत्र भावनीसम्। जत्थ पुण देइ सुद्ध, भागं आरोपणा उ सा कसिणा। दोण्हं पि गुणसु लद्धं, इच्छियरुवणाएँ जइ मासा ||186 / / यस्यां पुनरारोपणायामुपरितनो राशि: शुद्धं भार्ग प्रयच्छति, न किश्चित्पश्चाद्यस्यावतिष्ठते इति भावः / सा आरोपणा कृत्स्नभागहरणात् कृत्स्नेति प्रतिपत्तय्या, यथा विंशतिदिना। तथाहि केनापि पृष्ट विशिका चाऽऽरोपणा कतिभिर्मासै: प्रतिसेवितैर्निष्पन्ना? उच्यते-अष्टादशभिमसि। कथमेतदव-सेयमिति चेत? उच्यते षण्णां मासानामशीत दिवसशतं, तेभ्यो विंशतिर्दिनानि स्थापनाया विंशतिर्दिनान्यारोपणाया शोध्यन्ते, जातं शेष चत्वारिंशं शतम्। तत:-" इच्छियरुवणाइ भए" इति वचनात विंशिकया आरोपणाया भागो ह्रियते, भागे च हृते उपरितनो राशिर्निर्लेप: शुद्धः, एषा कृत्स्नाऽऽरोपणा, लब्धाः सप्त मासाः / ततः"दोण्हं पि गुणसु लद्ध, इच्छियरुवणाए जइ मासा। "इति वक्ष्यमाणवचनात् इयमारोपणा प्रागुक्तक्रमेणेद्वाभ्यां मासाभ्यां निष्पन्नेति सप्त मास द्वाभ्यां गुण्यन्ते जाताश्चतुर्देश मासा: / ततो द्वौ स्थापनामासौ द्वी चाऽऽरोपणामासाविति समुदिताश्चत्वारस्ते चतुर्दशसु प्रक्षिप्यन्ते आगतं विशिका स्थापना विशिका चाऽऽरोपणा अष्टादशभिर्मासैर्निष्पन्नेति। (दोण्हं तु इत्यादि) द्वयोरपि आरोपणायो: कृत्स्नाऽकृत्त्रयोर्लब्धमीप्सिताया आरोपणाया यति मासा यतिभिर्मासैरीप्सिताऽऽरोपण निष्पन्नेति यावत्, ततिर्मिगुणय, यद्येकेन मासेन निष्पन्ना तत एकेन गुणय इति, द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेनापि, अथ त्रिभिस्ततस्त्रिभिरित्यादि / अथवा-द्वयोरप्यारोपणयो: कृत्स्नाकृत्स्नयो लब्ध यतिमासास्तत इप्सितया आरोपणाया गुणय, यदि प्रथमा तत एकेन गुण्यते, अथ द्वितीया ततो द्वाभ्याम्, अथ तृतीया ततस्त्रिभिरित्यादि। एलच प्रागपि भावितम् / तदेवमशीतिशतात् स्थापनाऽऽरोपणादिवसेषु शोधितेषु यच्छेषं तद्वक्तव्यतोक्ता। संप्रति स्थापनाऽरोपणादिवसेभ्यो यथा मासा आगच्छन्ति, मासेभ्यो वा दिवसास्तथा प्रतिपादयतिदिवसा पंचहिँ भइया, दुरूवहीणा उ ते भवे मासा। मासा दुरूवसहिया, पंचगुणा ते भवे दिवसा / / 160 / / स्थापनाया आरोपणायाश्च दिवसा: पञ्चभिर्भज्यन्ते, पञ्चभिस्तेष भागो ह्रियते इति भावः / ततो भागे हृते ये लब्धास्ते द्विरूपहीनाः क्रियन्ते, ततो रूपद्वयं स्फेट्यते इति भावः / रूपद्विके वास्फेटितेयदवशिष्यते ते भवेयुर्मासाः, यथा विशिकाया: स्थापनाया दिवसा विंशति., तेषा पञ्चभिर्भागो ह्रियते, लब्धाश्चत्वारस्ते द्विरूपहीना: क्रियन्ते, स्थितौ द्वी, आगतं विशिकास्थापना द्वाभ्यां मासाभ्या निष्पन्ना / तथा पाक्षिक्या आरोपणाया दिनानि पञ्चदश, तेषां पञ्चभिर्भागहरण, लब्धास्त्र--