________________ पच्छित्त 156 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त थः, त द्विरूपहीना क्रियन्ते, स्थित एक, आगतं पाक्षिकी आरोपणा एकेन मासन निष्पन्ना, विशिकाऽऽरोपणा विशिकास्थापना च द्विमासनिष्पना नवनीया / तृतीयायाः पञ्चविंशतिदिनाया आरोपणाया दिवसा पञ्चविंशति तेषां पञ्चभिर्भगहारो, लब्धाः पञ्च, ते द्विरूपहीना: कता:, स्थितास्त्रयः आगतं पञ्चविंशतिदिना तृतीयाऽऽरोपणा त्रिभिर्मासैनिष्पला / एवं सर्वत्र भावनीयम्। (मासा दुरूवसहिया इत्यादि) यति मासः स्थापनायामा रोपणायां वाऽधिकृतकरणवशात् लब्धास्ते दिवसाऽऽनयनाय द्विरूप-हिता: क्रियन्ते, तत: पञ्चगुणास्ते भवयुर्यथोक्ता दिवसा. राथा शिकाया: स्थापनाया द्वौ मासौ. तौ द्विररूपसहितौ क्रियेते, जाताश्चत्वारः, तेपशभिर्गुण्यन्ते, आगतं विशिकाया: स्थापनाया विंशतिर्दिनानि, तथा पाक्षिक्या आरोपणाया एको मासाः, ते द्विरूपसहिताः क्रियन्ते, जातास्त्रयः, ते पञ्चभिर्गुण्यन्ते / आगतं पाक्षिक्या आरोपणायाः पशदश दिनानि, तथा पञ्चविंशतिदिनाया आरोपणायास्त्रयो मासास्ते द्विरुपयुता क्रियन्ते, जाता: पञ्च, ते पञ्च पञ्चभिर्गुण्यन्ते. आगतं पञ्चविशतिदिनानि / एवं सर्वत्र भवनीयम्। तदेवं करणान्यभिधायोपसंहारमाहठवणाऽऽरोवणसहिया, संचयमासा हंवति एवइया। कत्तो किं गहियंति य, ठवणामासे ततो सोह / / 161 / / पूर्वम "टवणाऽऽरोवणदिवसे माणा ए विसोहइत्तु'' इत्यादि करणवशात्ये लब्धा नासास्तेऽनन्तरोक्तकरणवशादानीता:. ये स्थापनाऽऽरोप्रणामासास्तत्सहिताः क्रियन्ते, तत: शिष्येभ्य एवं प्ररूपय अस्यां स्थापनायामस्या चाऽऽरोपणायामेतावन्त: संचयामासा: सर्वप्रायश्चित्तसंकलनमासा भवन्ति, तदवं यतिभिर्मासै: प्रतिसेवि तैर्या स्थापना आरोपणा चनिष्पन्ना, तदेतत्प्रतिपदितम्। अधुना तस्यां तस्यां स्थापनायामारोपणायां च संचयमासाना मध्ये कुतो मासारिक गृहीतमिति प्रतिपादनार्थमाह-(कत्तो इत्यादि) शिष्य पृच्छतितस्यां तस्यां स्थापनायामारोपणायां च रुचयमासानां मध्ये कुतो मासात्किं गृहीतम्? अत्र सूरिराह(ठवणा मासे ततो सोहे) ततः संचयमासासंख्यात: स्थापनामासान् शोधयेत,शोधिते च सतिदिवसेहिँ जइहिं मासो, निप्फन्नो हवइ सव्वरुवणाणं / तइहिँ गुणिया उ मासा, ठवणदिणजुया उ छम्मासा / / 162 / / सर्वासामारोपणानां यतिभिर्दिवसैर्मासो भवति निष्पन्नस्तति-भिर्गुणितास्ते मारता; कर्त्तव्याः पुन: स्थापनादिनयुक्तास्ततस्तेषण्मासा भवन्ति, यथा प्रथमायागारोपणायां त्रयोदश संचयमासा:, तेभ्य: स्थापनामासौ द्वी शोधितौ, स्थिताः पश्चादेकादश / अत्राऽऽरोपणयामेको मास:, स पञ्चदशभिर्दिननिष्पन्न इति, ते एकादश पञ्चदशभिर्गुण्यन्ते, जातं पञ्चषष्ट शतम्, ततो विशतिदिवसाः स्थापनासत्काः प्रक्षिप्यन्ते, जातं पञ्चाशीत शत, पञ्च झोष इति। तदयुक्ता जाता: षण्मासाः, आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशभ्य: पञ्चदश दिनानि, केवलं तन्मध्यात् पञ्चानां झोषः कृतः, पञ्च दिनानि इत्युक्तानीति भावः / झोषशब्दस्य तत्त्वतस्त्यागवाचित्वात्। अत एव च यान्यमूनि पशदिनानि त्यक्तानि, तान्येव प्राक राशिसमकरणार्थे प्रक्षिप्तानीति समकरण: प्रक्षेपणीयो राशिझोषशब्देनोक्तः / एवं सर्वत्र झोषभावना भवनीया / तथा विशिकाया चाऽऽरोपणायामष्टादश किल संचया मासा: तेभ्यो द्वौ स्थापनामासौ शोधितौ, जाता: षोडश / अत्र विशतिदिनाऽऽरोपणा द्विमासेत्येकैकोमासो दशभिर्दिनैर्निष्पन्नः, ततस्ते षोभश दशभिर्गुण्यन्ते, जातं षष्ट शतम् 160 / तत: स्थापनादिवसा विंशतिः प्रक्षिन्यन्ते, जातमशीतं शतम्, आगतमत्र द्वाभ्यां स्थापनामासाभ्या दश दश वासरा गृहिताः, शेषेभ्योऽपि षोडशेभ्यो गाात्रतो दश दशेति। तथा विशिकायां स्थापनायां पञ्च, विशिकायां चाऽऽरोपणायां त्रयोविंशति: संचयमासाः, तेभ्यो द्वौ स्थापनामासौ शोधितौ, जाता पश्चादेकविंशतिः पञ्चविंशतिदिना चाऽऽरोपणा त्रिभिर्मासैर्निष्पन्नेत्येकैको मासः, स त्रिभागैरष्टभिर्दिने निष्पन्नः, तत एकविंशतिरष्टभिर्गुणिता जातमष्टषष्ट शतं, त्रिभागगुणने च लब्धाः सप्त, तेऽपि तत्र प्रक्षिप्यन्ते, जातं पञ्चसप्ततं शतं, तत्र विंशति: स्थापनादिवसा: प्रक्षिप्यन्ते, जातं पञ्चनवतं शतम् 165 / अत्र पञ्चदश दिनानि झोष इति, तान्यपनीयन्ते, जातमशीतं शतम्, आगतमत्र द्वाभ्यां स्थापनाकृताभ्यां मासाभ्सां दश दश रात्रिंदिवानि गृहीतानि, शेषेभ्यस्त्वेकविंशतिमासेभ्यो गात्रतः सविभागान्यष्टावष्टौ रात्रिन्दिवानि, केवलं तत्रापि पञ्चदश दिनानि झोषीकृतानि / तदेवं स्थापनातः शेषमासेभ्यो गात्रतो यद् गृहीतं तत्प्रतिपादितम्। अधुना शेषमासेभ्यो यद् येभ्यो विशेषतो गृहीतं तत्प्रतिपादनार्थ करण्माहरुवणाई जइमासा, तइभागं तं करे तिपंचगुणं / सेसंच पंचगुणियं, ठवणादिवसाजुया दिवसा / / 163 / / स्थापनामासेषुशोधितेषु यच्छेषमवतिष्ठतेतत् आरोपणायां यतिमासास्ततिभागं तावत्संख्याकभाग करोति, कृत्वाचाऽऽद्यं भागं त्रिपञ्चगुणं करोति, शेष तु समस्तमपि पञ्च गुणम् / एतचैवं द्रष्टव्यपाक्षिक्यादिष्वारोपणासु यदि पुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा, तदा य तिदिना आरोपणा, ततिगुणं कुर्यात्, ततस्ते दिवसा स्थापनादिवसयुता क्रियन्ते, ततो दिवसा: षण्मासदिवसा भवन्ति / तद्यथा-प्रथमायां स्थापनाया प्रथमायां चाऽऽरोपणायां त्रयोदश संचयमासाः, तेभ्यो द्वौ स्थापनामासौ शेोधितौ, जाता एकादश, अन्ये तु बुबते-अत्रायं वृद्धसंप्रदाय:- यद्येकस्मात् मासाद् निष्पन्ना आरोपणा, तत: प्रतिसेवितमासेभ्य: स्थापनाया: आरोपणायाश्च मासा: शोधयितव्याः / अथ द्वयादिमासैनिष्पन्नाऽऽरोपणा, ततः प्रतिसेवितमासेभ्य: स्थापनामासा एव शाध्यन्ते, नाऽऽरोपणामासा इति। ततस्तन्मतेन द्वौ स्थापनामासावेकश्चाऽऽरोपणामास दति त्रयः संचयमासेभ्य:शोध्यन्ते, जाता दशेति / तत्र स्वमते अधिकृताऽऽरोपणा एकमासनिष्पन्नेति एकादश एकभागेन क्रियन्ते, एकभागकृतं च तत्तथारूपमेव भवतीति जाता: समुदिता एव ते एकादश, तत: त्रिपञ्चगुणमिति वचनात् पञ्चदशभिर्गुण्यन्ते, जातं पञ्चषष्टं शतम् 165 / तत्र स्थापनादिवसा: विंशतिः प्रक्षिप्ताः, जातं पक्षाशीत शतम् / तत: पञ्चरात्रिन्दिवान्यत्र झोषीकृतानीति,