________________ पच्छित्त 155 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त ट्यपधिकदिनशतमाना सर्वोत्कृष्टा एकोनत्रिंशत्तमा स्थापना। पूर्वाऽऽरोपणात हास्यामारोणायां पञ्चदिनान्यधिकानि चोपरि त्रुटितानीत्येकोनत्रिंशदेगस्यामारोपणायां स्थापनास्थानानि / तथा पञ्चविंशतिदिनायामारोपणायां जघन्या विंशिका स्थापना, ततोऽन्या पञ्चविंशतिदिना मध्यमा, ततोऽप्यन्या त्रिंशदिना / एवं पञ्च पञ्च परिवर्द्धयता तावन्नेय यावत्पश्चपथाशद्विपशतमाना सर्वोत्कृष्टाऽष्टाविंशतितमा स्थापना / अस्य हि प्रागुक्तयुक्याऽष्टाविंशतिः स्थापनास्थानानि। एवमुत्तरोत्तराऽऽगेपणासंक्रान्तावन्तिममन्तिम स्थापनास्थानं परिहरता तावद्गन्तव्य यावत्यष्टिदिनशतमानायामारोपणायां जघन्या विंशिका स्थापनेति। यथा च प्रथम स्थापन स्थाने, आरोपणास्थाने च प्रत्येक संवेधतश्च भावना कृता, तथा द्वितीय, तृतीये च कर्तव्या। तद्यथा-द्वितीये स्थापनास्थाने जधन्या स्थापना पाक्षिका, तत: पञ्चकप्रक्षेपेऽन्या विंशतिदिना, तत्राऽपि पशव प्रक्षेपेन्या पञ्चविंशतिदिना / एवं पञ्च पञ्च प्रक्षिपता तावद्गन्तव्यं यावत्पशसएरात्रिन्दिवशतप्रमाणा त्रयस्त्रिंशत्तमा स्थापनेति। तथा द्वितीये स्थाने जघन्या आरोपणा पञ्चाहिका, ततः पञ्चकप्रक्षेपे दशाहिका, हतोऽपि पञ्चकप्रक्षेपे पाक्षिकी / एवं पञ्च पञ्च परिवर्द्धयता तावन्नेय यावत्पशाष्ठदिनशतमाना त्रयस्त्रिंशत्तमा सर्वोत्कृष्टा आरोपणेति। इदानीं संवेभावनापाक्षिक्या स्थापनाया जघन्या पश्चाहिका आरोपणा, ततोऽन्या दशदिना मध्यमा, ततोऽप्यन्या पाक्षिकी, ततोऽप्यन्या विशतिदिना। एवं पञ्च पञ्च परिवर्द्धयता तावद् गन्तव्यं यावत्त्रयस्त्रिंशत्तमा पञ्चषष्टिदिनशतनाना सर्वोत्कृष्टा आरोपणा। अस्यां त्रयस्त्रिशदारोपणास्थाननि। तथा विशिकायां स्थापनायां जघन्या पञ्चाहिका आरोपणा, ततोऽन्या दशदिना, ततोऽप्यन्या पाक्षिकी / एवं विशिकां स्थापनाममुस्ता पञ्च पर परिवर्द्धयता तावद्गन्तव्यं यावत्षष्टिशतदिनमाना सर्वात्कृष्टा द्वात्रिंशत्तमा आरोपणा; अस्यां द्वात्रिंशदारोपणास्थानानि, पूर्वस्थापनातोऽस्यां पञ्चकपरिवृद्धेरन्ते पञ्चानां त्रुटितत्वात् पञ्चविंशतिदिनाया स्थापनायां जघन्या पञ्चाहिका आरोपणा, ततोऽन्या मध्यमा दशदिन ततोऽप्यन्या पाक्षिकी। पञ्चपञ्चविंशतिदिनानां स्थापनाममुञ्चता पञ्च पर पारेवर्द्धयता तावन्नेयं यावत् पञ्चपञ्चशद्दिनशतमाना सर्वोत्कृष्टा एकत्रिंशतमा आरोपण / एवमुत्तरोत्तरस्थापनासंक्रान्तावन्तिममन्तिम स्थान परिहरता तावन्नेनं यावत्पश्चासप्ततिरात्रिन्दिवशतमानायां स्थापनादा कैव जघन्या एकाहिका आरोपणेति। तथा पञ्चहिकायामारोपणायां जघन्या पाक्षिकी स्थापना, ततोऽन्या मध्यमा विंशतिदिना, ततोऽप्यन्या पञ्चविंशतिदिना। एवं पञ्चाहिकामारोपणामपरित्यजता पञ्च पञ्च परिवर्द्धयता तावद् गन्तव्यं यावत् पञ्चसप्ततिदिनाना सर्वोत्कृष्टा प्रयस्त्रिंशत्तमा स्थापना, तथा दशाहिकायामारापणायां जघन्या पाक्षिकी स्थापना। ततोऽन्या मध्यमा विंशतिदिना, ततोप्यन्या पञ्चविंशतिदिना। एवं दशाहिकामारोपणाममुञ्चता पश्च पञ्च परिवर्द्धयता तावद् गन्तव्यं यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा द्वात्रिंशत्तमा स्थापना / अस्यां द्वात्रिंशदेव स्थापनास्थानानि, पूर्वारोपणातोऽस्यामारोपणायां पञ्चकवृहेरन्ते पञ्चवानं त्रुटितत्वात् / एवमुत्तरोत्तराऽऽरोपणास्थनसंक्रान्तावन्तिममन्तिमं स्थानं परिहरता तावद्गन्तव्यं यावत्पञ्चषष्टिदिनशतमानायां त्रयस्त्रिंशत्तमायामारोपणायामेकैकजघन्या पाक्षिकी स्थापनेति। तथा तृतीये स्थापनास्थाने जघन्या पञ्चाहिका स्थापना / तत: पञ्चानां प्रक्षेपेऽन्या मध्यमा दशदिना, ततोऽपि पञ्चकप्रक्षेपेऽन्या पाक्षिकी। एवं पञ्च पञ्च प्रक्षिपता तावद् गन्तव्यं यावत्पञ्चसप्ततिरात्रिन्दिवशतप्रमाणा पञ्चत्रिंशत्तमा स्थापनेति। तथा तृतीय स्थाने जघन्याऽऽरोपणा पञ्चदिना, तत: पञ्चकप्रक्षेपेऽन्या मध्यमा दशदिना / ततोऽपि पञ्चकप्रक्षेपेऽन्या पाक्षिका / एवं पञ्चप्रक्षिपता तावद्गन्तव्यं यावपञ्चसप्ततिदिनशतमाना सर्वोत्कृष्टा पञ्चत्रिंशत्तमा आरोपणेति। संप्रति संबंधभावनापञ्चदिनायां स्थापनाया जघन्या आरोपणा पञ्चदिना, ततोऽन्या मध्यमा दिनदशकमाना, ततोऽपि अन्या पाक्षिकी। एवं पञ्चदिनां स्थापनाममुञ्चता पश्च पञ्च परिवर्द्धयता तावन्नेयं यावत्पञ्चत्रिंशत्तमः पञ्चसप्ततिदिनशतमाना सर्वोत्कृष्टा आरोपणा / अस्यां पञ्चत्रिंशतदारोपणास्थानानि / तथा दशदिनायां स्थापनाया जघन्या पञ्चहिका आरोपणा, ततोऽन्या दशदिना, ततोऽप्यन्या पाक्षिकी। एवं दशदिना स्थापनाममुञ्चता पञ्च पञ्च परिवर्द्धयता तावद्गन्तव्य यावदुत्कृष्टा चतुस्त्रिंशत्तमा सप्ततिदिन शतमाना आरोपणेति / अस्यां चतुस्त्रिशदारोपणा स्थानानि / एवमुत्तरोत्तरस्थपनास्थानसंक्रान्तीअन्तिममन्तिमं स्थानं परिहरता तावज्ज्ञातव्यं यावत्पञ्चसप्ततिदिनशतमानायां स्थापनायामेकैव जघन्या पञ्चदिना आरोपणेति। तथा पञ्चदिनायामारोपणायां जघन्या पञ्चदिना स्थापना, ततोऽन्या मध्यमा दशदिना, ततोऽप्यन्या पञ्चदशदिनामारोपणामप रित्यजता पञ्च परिवर्द्धयता तावद् गन्तव्यं यावत्पञ्चसप्ततिदिनशतमाना सर्वोत्कृष्टा पञ्चत्रिंशत्तमा स्थापना। तथा दशदिनायामारोपणायां जघन्या पञ्चदिना स्थापना, ततोऽन्या मध्यमा दशदिना स्थापना / ततोऽन्या पञ्चदशदिना। एवं दशदिनामारोपणाममुञ्चता पञ्च परिवर्द्धयमानेन तावद् गन्तव्यं यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा चतुस्विंशत्तमास्थापना। एवमुत्तरोत्तराऽऽरोपणास्थानसंक्रान्तावन्तिममन्तिम स्थानं परिहरता तावन्नेयं यावत्पञ्चसप्ततिदिनशतमानायां पञ्चत्रिंशत्तमायामारोपणायामकैव जघन्या पञ्चदिना स्थापनेति / चतुर्थे स्थापनास्थाने आरोपणास्थाने चनपञ्चकवृद्धि पिपञ्चकापकृष्टिः, कि तु वृद्वि निर्वा एकोत्तरा / ततो यद्यपि तद्भावना अधिकृतगाथाक्षराननुयायिनी तथाऽपि विनेयजनानुग्रहाय क्रियते / तद्यभा-चतुर्थे स्थापनास्थाने जघन्या स्थापना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना / एवमेकैकं प्रक्षिपता तावद्गन्तव्यं यावदेकोनाशीत्यधिकशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा स्थापनेति। तथा चतुर्थस्थाने जघन्याssरोपणा एकदिना, ततोऽन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना / एवमेकैकं परिवर्द्धयता तावद्गन्तव्यं यावदेकोनाशीत्यधिकविनशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा आरोपणेति / संप्रति संवेधभावनाएकदिनायां स्थापनायां जघन्याऽऽरोपणा एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना। एवमेकदिना स्थापनाममुश्शता एकैकं परिवर्द्धयता तावद्गन्तव्यं यावदेकोनाशील्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिशततमा आरोपणा। अस्यामेकोनाशीत्यधिक शतप्रमाणान्यारोपणास्थानानि / तथाहि-द्विदिनायां स्थापनायां जघन्याऽऽरोपणा एकदिना, ततोऽन्या द्विदिना मध्यमा,