________________ पच्छित्त 143 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त वण्णोलो भिक्षुः। 'सनभिक्षाऽऽशंसेरूः" ||2 / 33 / इति उप्रत्ययः। यदि वा-नरूक्ता च शब्दव्युत्पत्ति:-क्षुध बुभुक्षायाम् / क्षुध्यति पुभूक्षते भोतुमिच्छति चतुर्गतिकमपि संसारमस्मादिति संपदादित्वात् क्षुत्, अष्टप्रकार कर्म, तंज्ञानदर्शपचारित्रतपोभिनित्तीति भिक्षुः। "पृषोद२ऽऽदयः // 3 / 2 / 15 / इतीष्टरूपनिष्पत्तिः। मासेन निर्वृत्तं मासिकम्। "तेन निवृत्ते च'' ||6||71 // इतीकण् / परि ह्रियते परित्यज्यते, गुरूनूलं गत्वा यत् तत् परिहारविषयः / "अकर्तरि च कार." ।।३।३।१६॥(पा ) इति कर्मणि घञ्। तिष्ठन्ति जन्तवः। कर्मकलुषिता अस्मिन्निति स्थानम् / 'करणाऽऽधारे' // 5 / 3 / 126 / / इत्यनट् / परिहारः न्यानं परिहारस्थानम् विशेषणसमासः / (पडिसेवित्तेति) प्रतिशब्दो भृशाथे, प्रकर्षे वा। सेवित्वा प्रतिसेव्य। 'गतिक्वन्यस्तत्पुरुषः / / 3.142 / / " इति समासः। "अनञत्रत् क्त्वोयम् / / 3 / 2 / 154 / / इतिय क्त्वोय बबादेशः / सूत्रे यवः प्राकृतत्वात्। आलोचयेत् / लोच दर्शने। चुराऽऽदित्वात् णिच् / आइमर्यादायाम् / आ मर्यादया "जह बालो जथंतो'' इत्यादिरूपया आलोचयेत् / यथाऽऽत्मनस्तथा गुरोः / प्रकटीकुर्यात् यच्छब्दस्तच्छब्दापेक्षोऽतोऽत्रतस्येति सामर्थ्यांदसवीयते / तस्य (पलिउंचिय त्ति) कुचु कुञ्चु कौटिल्याल्पीभावयोः / परि सर्वतो भावे। परि समन्तात् कुञ्चित्वा क्रौटिल्यमाचर्य परिकृञ्च्य। सूत्रे "डश्च ऋपिडादीनाम् / / " इति विकल्पवचनतो रेफस्य लकारभावः / न परिकुञ्य अपरिकुञ्च्य, अपरिकुञ्च्य आलोचयमानस्य मासिक लघुकं गुरुकं वा प्रतिसेवनानुसारतः प्रायश्चित्तं दद्यादिति शेषः / परिकुञ्च्य कौटिल्यमाचर्य आलोचयमानस्य द्वैमासिकं दद्यात्, मायाकरणतोऽधिकस्य गुरुमासस्य भावात्। तथाहियः प्रतिकृञ्चयन्नालोचयति तस्य यटापन्न तद्दीयते। अन्यश्च मायाप्रत्ययो गुरुको मास इति। उक्तः पदार्थः / अधुना पदविग्रहः - स च समासोभाष्यपदेषु भवतीति परिहारस्थानमित्यत्रपरिकुळ्येत्यत्र च द्रष्टव्यः / स च यथा भवति तथा दर्शित एव। संप्रति चालनाऽवसरः। तत्र चोदक आह- यदिपरिहार एव स्थानं ततो द्वयोरप्येकार्थत्वात् परिहारशब्दस्यैव ग्रहणमुचितम्। परस्योक्तार्थत्वादप्रयोगः। "उक्तार्थानामप्रयोगः'' इति न्यायात् / अत्राऽऽचार्यः प्रत्यवस्थान करोतिरथानशब्दो नाम शब्दशक्तिस्वाभाव्यादनेकविशेषाऽऽधारसामान्याभिधायी। तेनैतध्वनयति-अनेकप्रकाराणि नाम मासिकप्रायश्चितेनोपन्यस्तेन प्रयोजनं कल्पाध्ययनोक्तस कलमासिकप्रायश्चित्तविषयदानाऽऽलाचनयोरभिधातुमुपक्रमात्, अतोऽव स्थानग्रहणम / पुनरप्याह-किं कारणं मासिकं प्रायश्चित्तमधिकृत्याऽऽदिसूत्रोपनिबन्धः कृतः। अथ मतंजघन्यमिदं प्रायश्चित्तमत एतदधिकृत्य कृतो, जधन्य मध्यमोत्कृष्टेषु प्रश्चमतो जघन्यम्याभिधातुमुचितत्वात् / तदसम्यक् / रात्रिन्दिवपञ्चकस्य जघन्यत्वात् अत्र भाष्यकृत् प्रत्यवस्थानार्थमिदमाहदुहतो मिन्नपलंबे, मासियसोही उ वणिया कप्पे। तस्स पुण इमं दाणं, भणियं आलोयणविही य / / 1 / / कल्पाध्ययने आदिसूत्रे- "आमे तालपलबे' इत्यादिरूपे प्रलम्बते प्रकर्षेण वृद्धिं याति वृक्षोऽसमादिति प्रलम्ब मूलम् - "अकर्तरि " // 3 // 3 / / 16 / / इति (पा.) घञ्प्रत्ययः / तस्मिन्, उपलक्षणमेतत्तालो वृक्षरतत्र भवं तालम्-तालवृक्षफलम् / तस्मिन्नपि प्रायश्चित्तस्य दानविधिरालोचनाविधिश्च वक्तुमुपक्रान्तः, ततो यदादौ कल्पाध्ययने मासिक प्रायश्चित्तमुक्तं, तस्य पुनः इत्यादि। पुनःशब्दो विशेषणे। स चेम विशेष द्योतयति-तत्र हि सामान्यत एव मासिकं प्रायश्चित्तमुक्तम्, न दानविधिरालोचनाविधिर्वेति / इह पुनर्व्यवहारे तस्य मासिकस्य प्रायश्चित्तस्येदं दानं भणितमालोचनाविधिश्च / न केवलमस्यैव मासिकरय प्रायश्चित्तस्य, किं त्वन्येषामपि मासिकप्रायश्चित्ताना तत्रोक्तानां सामान्येन सूत्रस्य प्रवृत्तत्वात्। एमेव सेसएसु वि, सुत्तेसुं कप्पे नाम अज्झयणे। जहिं मासियआवित्ती, तीसे दाणं इहं भणियं // 2 // एवमेव अनेनैव प्रकारेण, कल्पे नाम्नि अध्ययने यानि शेषाणि सूत्राणि "सपरिक्खेवे आवाहिरिए कप्पेइ हेमंतगिम्हासुमासं वत्थए जइमासकप्पं भिंदइ मासलहुं / एवं निग्गंथीण वि तहा।'' अत्र (सपरिक्खेवे इति) सपरिक्षेपेऽपि वृत्तिवरण्डकाऽऽदिसमन्विते अवाह्ये ग्रामस्यात्यन्तमबहिभूत, उपाश्रये इति गम्यते / (वत्थए इति) वस्तुम। शेषं सुगमम् / तथा अभिनिव्वगडाए तइए भंगे मासलहुँ।' अत्र "अभिनिव्वगडाए'' इति / अभिनिर्व्या-कृतायां पृथिग्विविक्तद्वारायां वसता वित्यर्थः / एवं शेषाण्यपि सूत्राण्युचारणीयानि। तेषु शेषेष्वपि सूत्रेषु (जहिं ति) अगृहीतवीप्सोऽप्येषशब्दः सामर्थ्यात् वीप्सांगमयति, शेषसूत्राणामतिप्रभूत्वात्। ततोऽयमर्थः- यत्र यत्र मासिकी आपत्तिरूत्ता (तीसे इति) अवाऽपि वीप्सार्थो द्रष्टव्यः, तच्छब्दस्य यच्छब्दापेक्षत्वात् / तस्यास्तस्या इह आदिसूत्रे दानं भणितमुपलक्षणमेतत् आलोचनाविधिश्च / छट्टे अपच्छिमसुत्ते, जिणथेराणं ठिई समक्खाया। तहियं पि होइ मासो, अमेरतो सो उ निप्फन्ने / / 3 / / षष्टे षष्ठोद्देशके, अपश्चिमसुत्रे जिनानां जिनकल्पिकानां, स्थविराणां च स्थितिः समाख्याता। तत्राऽपि यदि जिनानां स्थविराणां च स्वकल्पस्थित्यनुरूपसामाचार्यक्रमः, ततो भवति मासो मासलघु प्रायश्चित्तम्। तथा चाऽऽह- (अमेरओ सो उनिप्फन्नो) स पुनर्मासो मर्यादाऽतिक्रमतः स्वस्वकल्पस्थित्यनुरूपा सामाचार्यतिक्रमत इत्यर्थः / निष्पन्नस्तस्याऽप्यस्मिन्नादिसूत्रे दानमालाचनाविधिश्चोक्तः / अतोऽर्थ मासिकं प्रायश्वित्तममधिकृत्याऽऽदिसूत्रोपनिबन्धः कृतः। एष सूत्रार्थः / / 1 / / अधुना निर्यक्तिकृत प्तर वक्तुकाम आहजेत्ति व सेत्ति व केत्ति व, निहंसा होंति एवमादीया। भिक्खुस्स परूवणया, जे त्ति कए होइ निद्देमो // 4 // 'जे इति वा 'से इति वा' कियन्तो नामग्राहं दर्शयितुं शक्यन्ते। तत आह- एवमादिकाः / आदिशब्दाद् 'एगे' इत्यादिपरिग्रहाद् निर्देशा भवन्ति, सामान्यार्थे इति गम्यते। तत्र ये:ति निर्देशो यथा अत्रैव सूत्रे। अत्रैव "जे ण भंते ! परं असंतएणं अभक्खाणेणं अब्भक्खाइजा।" इत्यादि "से' इति निर्देशो यथा- "से गामंसि वा नगरंसि वा।" इत्यादि। 'के इति यथ- "के आगच्छइ दिन्नरूवेय "इत्यादि। सामान्य च