________________ पच्छित्त 142 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त मुनिवृषभाणामयतनाकारिणां कथयतां प्रायश्चित्तं भवति गुरुकाश्चत्वारो मासगुरवः। इयमत्र भावना-यदि अयतनाकरणतोऽकरणतो वा ज्ञातं भवति-यथा ममाऽशुद्धन चिकित्सा क्रियते तदा तेषां निवृषभाणां चत्वारो गुरूकाः / एतच्चासमाचाराप्रवृत्तिनिषेधार्थं प्रायश्चित्तम् / वा पुनरनिच्छतोऽसमाधिप्रवृत्तेरनागाढाऽऽदिपरितापनानिष्पन्नमन्यदेव पृथगिति। यदि वा सोऽतिपरिणामकत्वादतिप्रसङ्ग कुर्यात्। अथवाचिकित्सायाः प्रतिषेधतोऽकपनीयमसेवमाने रोगवृद्धिवशादसमाधिस्तस्य स्यात्, असमाहितस्य च कुगतिप्रपातः, तस्मात्तसिन् यतनया कर्त्तव्यम, न च कथनीयमिति। साम्प्रतं यदुक्तं भण्डपोताभ्यां दृष्टान्तः कर्त्तव्य इति, तत्र भण्डीदृष्टान्त भावयतिजा एगदोसे अदढा उ भंडी, सीलप्पए सा उ करेइ कजं / जा दुब्बला संठविया वि संती, न तं तु सीलंति विसण्णदारूं ||181|| या भण्डी गन्त्री, एकदेशे क्वचित् अदृढा, सा शीलाप्यते तस्याः परिशीलनं कार्यते, तुशब्दो यस्मादर्थे , यतः सा तथा शीलता सती करोति कार्यम्। या पुनः संस्थापिता सती दुर्बलान कार्यकरणक्षमा, ता विषण्णदारू नैव, तुशब्द एवकारार्थो भिन्नक्रमत्वादत्र संबध्यते / शीलयन्ति, कार्यकरणाक्षमत्वात् / एष भण्डीदृष्टान्तः / एतदनुसारेण पोतदृष्टान्तोऽपि भावनीयः। तद्यथाजो एगदोसे अदढो उपोतो, सीलप्पए सो उ करेइ कजं / जो दुब्बलो संठविओ वि संतो, न तं तु सीलंति विसण्णदारूं // 182|| दान्तिकयोजना त्वेवम्-यदि प्रभूतमायुः संभाव्यते, प्रगुणीकृतश्च देहः संयमव्यापारेषु समर्थ इति ज्ञायते, तदा चिरकालसंयमपरिज्ञापालनाय युक्ता चिकित्सा, अल्येन प्रभूतमन्वेषयोदिति वचनात्। यदा त्वायुः संदिग्धं, न च प्रगुणीकृतोऽपि देहः संयमव्यापारक्षमस्तदैव प्रज्ञापना निष्फला चिकित्सेति, न चिकित्सा कारयितुमुचितेति। अन्यच्चसंदेहियमारोग्गं, पउणो वि न पचलो उ जोगाणं / इइ सेवंतो दप्पे, वट्टइ न य सो तहा कज्जे / / 183 / / संदिग्धमारोग्यम्, अतिरोगग्रस्तत्वात्।नच प्रगुणोऽपि प्रगुणीकृताऽपि योगानां संयमव्यापाराणां करणे प्रत्यलः समर्थ इति जानानो यदि यतनयाऽप्यकल्प्यं प्रतिसंवते, तदा स द वर्तते / न च स तथारूपो दो गीतार्थेन करणीयः, दपिकप्रतिसेवनाया दीर्घसंसारमूलत्वादिति प्रज्ञाप्यते। यदि पुनरेवमपि प्रज्ञाप्यमानो नावबुध्यते, तदा यतनया समाधिमुत्पादयद्भिरूपेक्षितव्यम्। यः पुनस्तरूणो मनाक् वृद्धो वा प्रगुणीकृतः सन् तपःसंयमाऽऽदिषु प्रत्यलो भवितेति ज्ञायते तदा तं चिकित्सामप्रतिपद्यमानं प्रत्येवं ज्ञापना - काहं अत्थितिं अदुवा अहीहं, तवोविहाणेसु य उज्जमिस्सं / गणं व नीईइ य सारविस्सं, सालंबसेवी समुवेइ मुक्खं / / 184 // यो ग्लानः सन्नवमवबुध्यत समर्थो भूतः सन्नस्थितिं प्रभूतलोकप्रव्रजनाऽऽदिना तीर्थाव्यवच्छेदं करिष्यामि (अदुवेति) अथवा-अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशाङ्ग, दर्शनप्रभावकाणि वा शास्त्राणि, यदि वा तपोलब्धिसमन्वितत्वात् तपोविधानेषु नानाप्रकारेषु (उज्जामिस्म ति) उद्यमिष्यामि उद्यम करिष्यामि। गणं वा गच्छं वा नीत्या सूत्रोक्तया सारियिष्यामि गुणैः प्रवृद्धं करिष्यामि। स एवं सालम्बसेवी एतैरनन्तरोदितैरालम्बनैर्यतनया चिकित्सार्थमकल्प्यमपि प्रतिसेवमानः समुपैति प्राप्नोति मोक्ष सिद्धिमिति॥१८४|| गतो नमनिष्पन्नो निक्षेपः / व्य०१ उ०१प्रका सम्प्रति सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति! सूत्रं चाऽनुगमे / स चानुगमो द्विधा-सूत्रानुगमो, निर्युक्त्यनुगमश्च / तत्र नियुक्त्यनुगमस्त्रिविधः / तद्यथा-निक्षेपनियुक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमः, उपोद्धतनियुक्त्यनुगमस्त्वाभ्यांद्वारगाथाभ्यां सभवगन्तव्यः। तद्यथाउद्देसे निवेसे, य निग्गमे खेत्तकालपुरिसे य। कारणपचयलक्खण-नए समोयारणाऽणुमए।।१।। किं कइविहं कस्स कहिं, केस कहिँ केचिरं हवइ कालं कइसंतरणमविरहियं,वागरिसफासणनिरूत्ती।।२।। अनयोरर्थ आवश्यकटीकातोऽवसेयः, महार्थत्वात्। सूत्रस्पर्शिकनियुक्त्यनुगमसूत्रप्रवृत्तौ भवसूत्रं भवसूत्रानुगमे, स चावसरप्राप्त एव,युगपक सूत्राऽऽदयो व्रजन्ति। तथा चोक्तम- "सुत्तं सुत्ताणुगमो, सुत्तालावगकतो य निक्खेवो। सुत्तप्फासियनिज्जुत्तितया य समगं तु वचंति / / 1 / / विषयविभागः पुनरयममीषामवसातव्यःहोइ कयत्थो वोत्तु, सपयच्छेयं भवे सुयाणुगमो। सुत्तालावगनासो, नामादिन्नासविणिओगं 111 / / सुत्तप्फासियनिज्जु-त्तिनिओगो सेसओ पयत्थादी। पाय सो चिय नेगम-नयादिनयगोयरो होइ / / 2 / / अत्राऽऽक्षेपपरिहारौ सामायिकाध्ययने निरूपिताविति नेह वितायेते। सूत्रानुगमे वाऽस्खलिताऽऽदिगुणोपेतं सूत्रमुच्चारणीयम्। तच्चेदं सूत्रम्जे भिक्खू मासियं परिहारहाणं पाडे से वित्ता आलोएज्जा अपलिउंचियं आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्सदोमासियं // 1 // अस्य व्याख्या-तल्लक्षणं चेदम्-"संहिता चपदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य षड्विधा / / 1 / / " तत्राऽस्खलितपदोचारण संहिता। सा चैवम्- "जेभिक्खू मासियं।" इत्यादि पाठः / अधुना पदानियः भिक्षुर्मासिकं परिहारस्थानं प्रतिसंख्य आलोचयेत् / अपरिकुञ्च्य आलोचयमानस्य मासिकं, यपरिकुल आलोधयमानस्य द्वैमासिकमिति (1) / अधुना पदार्थः- अरिमन्मस्तावे यत्पीठिकायामुक्तम्- "सुत्तत्थो" इति द्वारन्, तदापतितम्। य इति सर्वनाम, अनिर्दिष्ट नाम्रा निर्देशः / भिक्षायां याञ्चायाम्, यमनियम-व्यवस्थितः कृतकारितानुमोदितपरिहारेण भिक्षते इत्ये