________________ पच्छित्त 141 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तत्रैव प्रकारान्तमाहअहवा कज्जाकजे, जयाजयंते य कोविदो गीतो। दप्पाजतो निसेवे, अणुरूवं पावए दोसं // 17 // अथवेति प्रकारान्तरे, गीतोगीतार्थः, स कारणमपिजानाति, अकारणमपि जानाति, यतनामपि जानाति, अयतनामपि जानाति एवं कार्य यतायते कोविदो गीतार्थो यदि दप्पेण प्रतिसेवते, कारणेऽप्ययतनया, तदा स दप्पायतनाहो निषेवमाणोऽनुरूपं दोषं प्रायश्चित्तं प्राप्नोति; दपायतनानिष्पन्नं तस्मै प्रायश्चित्त दीयते इति भावः। कप्पे य अकप्पम्मि य, जो पुण अविणिच्छितो अकजं पि। कजामिति सेवमाणे, अदोसवंतो असढभावो // 175|| अः पुनः कल्पे अविनिश्चितःकिं कल्प्यं किमकल्प्यमिति विनिश्चयरहितः सोऽकार्यमपि, अकल्प्यमिति भावः / कार्यमिति कल्पिकमिति युट्या सेवमानोऽशठभावः / अत्र हेतौ प्रथमा। अशठभावत्याददोमवान् न प्रयश्चित्तभाग्गभवतीति भावः।। जं च दोसमवाणतो, देहभूओ निसेवई। निदोसवं केण हुजा, वियाणतो तमायारं / / 176 / / देहभूतो नाम गुणदोषपरिज्ञानविकलोऽशठभावः / सयं दोषमजानानां निषेवत तमेव दोषं विजागानः कोविदो गीतार्थ आचरन् समाचरन् केन हेतुना निर्दोषवान्, दोषस्याभावो निर्दोषं, तदस्यास्तीति निर्दोषवान्, भवेत्, नैव भवतीति भावः। तीव्रदुष्टाध्यवसायभावात्। न खलु जानानस्तीव्रदुष्टाध्यवसायमन्तरेण तथा प्रवर्तत। तदेवं दृष्टान्तमभिधाय पुनर्रान्कियोजनामाहएमेव य तुल्लम्मि वि, अवराहपयम्मि वट्टिया दो वि। तत्थ वि जहाणुरूवं, दलंति दंडं दुवेण्हं पि॥१७७|| एवमेवा नेनैव प्रकारेण, अनेनैव दृष्टान्तेनेति भावः / द्वावपि जनौ आस्तामेक इत्यपिशब्दार्थः / तुल्येऽपि समानेऽप्यपराधपदे वर्तितौ, तत्रापि तुल्येऽप्यपराधपदे द्वयोरपि, ततो यथाऽनुरूपं गीतार्थागीतार्थयतनासहननविशेषानुरूपं दण्ड, दलयन्ति प्रयच्छन्ति। तस्मात्प्रायश्चित्तभेदतःप्रायश्चित्तदानभेदतश्चाचार्याऽऽदिकस्त्रिविधी भेदः कृतः, तदेवमाचार्याऽऽदित्रिविधभेदसमर्थनायोक्ता-रूपदृष्टान्तवशतो गीताथाऽऽदिभेदत आभवत्प्रायश्चित्तनानात्वं चोपदर्शितम् / इदानीमत एव दृष्टान्तादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयतिएमेव तु दिट्ठतो, तिविहे गीयम्मि सोहिनाणत्तं ! वत्थुसरिसो उदंडो, दिज्जइ लोए वि पुवुत्तं / / 178|| गीते गीतार्थे त्रिविधे त्रिप्रकारे बालतरूणवृद्धलक्षणे यत् शोधिनानात्वं / तद्विषयाप एवानन्तरोदिठस्वरूपो दृष्टान्तः। तथाहि-यथा कल्प्याकल्प्यविधिपरिज्ञानविकलोऽकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानो न दोषवान् भवति। कोविदस्तु कल्प्याकल्प्यौ जानानोऽकल्पनीय प्रतिसेवभानो दोषवान्। एवमिहापितुल्ये प्रतिसेव्यमाने वस्तुनि तरूणे प्रभूत प्रायश्चित्तं, समर्थत्वात् / बालवृद्धयोः स्तोकम्, असमथत्वात्। न चैतदन्याय्यं, यता लोकेऽपि वस्तुसदृशः पुरूषानुरूपो दण्डो दीयते। तथाहि-बाले वृद्ध च महत्यपि अपराध करूणाऽऽस्पदत्वत् स्तोको दण्डः, तरूणे महान् / एतच्च (पुव्वुत्तमिति) प्रागेवोक्तम्"दोसविहवाणुरूवो।' इत्यादिना, ततो न्याय्यमनन्तरोदितमिति / सम्प्रत्याचार्योपाध्यायभिक्षूणामेव चिकित्साविषये विधिना नात्वं दर्शयतितिविहे तेगिच्छम्मी, उज्जुयवाउलण साहूणा चेव। पण्णवणमणिच्छंते ,दिटुंतो भंडिपोएहिं / / 176 / / त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे, विचिकित्स्यमाने, गीतार्थे इति गम्यते / (उज्जुय त्ति) ऋजु संस्फुटमेव व्यापृतसाधुना व्यापृतक्रियाकथनं कर्तव्यम् / इयमत्र भावना आचार्याणामुपाध्यायानां गीतार्यानां च भिक्षूणां चिकित्स्यमानानां यदि शुद्ध प्राशुकमेषणीयं लभ्यते, तदा समीचीनमेव, न तत्र विचारः / अथ प्राशुकमेषणीयं न लभ्यते, अवश्यं च चिकित्सा कर्तव्या, तदाऽशुद्धमप्यानीय दीयते, तथाभूते दीयमाने स्फुटमेव निवेद्यतेइदमेवंभूतमिति, तेषां गीतार्थत्वेनापरिणामदोषस्य चासंभवात् / अगीतार्थभिक्षोः पुनः शुद्धालाभे चिकित्सामशुद्धेन कुर्वन्तो मुनिवृषभा यतनां कुर्वन्ति, न चाशुद्धं कथयन्ति / यदि पुनः कथयन्त्ययतनया कुर्वन्ति, तदा सोऽपि परिणामत्वादनिच्छन् यत् आगाढाऽऽदिपरितापनमनुभवति, तन्निमित्तं प्रायश्चितमापद्यते तेषां मुनिवृषभाणाम् / यद्वाऽतिपरिणामतया सोऽतिप्रसङ्गं कुर्यात्तस्मान्न कथनीयं, नाप्ययतना कर्त्तव्या। अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवेत्, यथा अकल्पिकमानीय मां दीयते इति तदा तदनिच्छन् प्रज्ञाप्यते / तथा चाऽऽह- (पण्णवण-मणिच्छते इति) अकल्पिकमनिच्छत्यगीतार्थे भिक्षी प्रज्ञापना कर्त्तत्यायथा ग्लानार्थं यदकल्पिकमपि यतनया सेव्यते तत्र शुद्धो, ग्लाने यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्धग्रहणात्, सोऽपि च पश्चात् प्रायश्चित्तेन शोधयिष्यते, न चाऽसावल्पीयान् दोषो नाङ्गीकर्तव्यः, उत्तरकालं प्रभूतसंयमलाभात। तथाहि- चिकित्साकरणतः प्रगुणीभूतः सन् परिपालयिष्यसि। चिरकालं संयमम् / सयमप्रभावतश्च कदाचिद्गम्यते तद्भव एव मोक्षो यदि पुनः चिकित्सां न कारयिष्यसि ततस्तकरणतो मृतः सन्नसंयतो भविष्यसि, असंयतस्य भूयान्कर्मवन्धस्तरमादल्पेन बहन्वे-ष्यतामेतद्विद्वत्ताया लक्षणम् / उक्तं च- "अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणमिति।" एवं प्रज्ञापना तरूणे क्रियात् / यः पुनर्बालः स बलत्वात् यथाभणित करोत्येव / यस्तु बृद्धस्तरूणो वाऽतिरोगग्रस्तोऽचिकित्सनीयः स प्रोत्साह्यते-महानुभाव ! कुरू भक्तप्रत्याख्यानं, साधय त्वं पूर्वमहर्षिरिवोत्तमार्थे तज्जिनवचनाधिगमफलमिति। यदि पुनरेवमुत्साह्यमानोऽपि न भक्तप्रत्याख्यान कतुमिच्छति, तदा भण्डीपाताभ्यां दृष्टान्तः करणीयः / भण्डी गन्त्री, पोतः प्रवहण, दृष्टान्तकरणं चाग्रे ग्रन्थकारः स्वयमेव दर्शयिष्यति। एष गाथासमासार्थः / साम्प्रतमेनामेव गाथां विवृणोतिसुद्धालाभेऽगीते, अजयणक परणकब हणे भवे गुरूगा। कुज्जा व अतिपसंगं, असेवमाणे व असमाही।।१८०|| अगीते अगीतार्थे भिक्षा शुद्धालाभे प्रासु कै षणीयाला, अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियते, कथ्यते वा तदा