________________ पच्छित्त 140 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त वार्द्धम् / पञ्चमे पूर्वार्द्धम् / षष्ठे निर्विकृतिकम्। चतुर्विशतितमप-तौ प्रथमे गृहके एकाशनम् / द्वितीये पूर्वार्द्धम् / तृतीये पूर्वार्द्धम् / चतुर्थे निर्विकृतिकम् / पञ्चविंशतितमपक्तौ प्रथमगग्रहके पूर्वार्द्धम् / द्वितीय निर्विकृतिकम् / षड्विंशतितमायां पड़तौ निर्विकृतिकमिति / तदेवम्"कयकरणा इयरे वा।'' इत्यादिना ये पुरूषभेदाः प्रागुक्तास्तेषां प्रायश्चित्तदानविधिरूक्तः। संप्रति "जं सेवेइ अहिगतो'' इत्यादि यद् गाथोत्तरार्द्धमुक्तं तद्व्याख्यानार्थमाहअकयकरणा उ गीया, जे य अगीया य अकय अथिराया। तेसा वत्ति अणंतर, बहुयंतरियं ब झोसो वा / / 166 / / ये गीतार्थाः / अधिगता इत्यर्थः / अकृतकरणाः / ये च अगीतार्थाः, अनिधिगता इति भावः। (अकय त्ति) अकृतकरणाः। चशब्दात् कृतकरणाक्ष / अस्थिराश्च अकृतकरणाश्च, तेषां कदाचित् आप-त्तिप्रायश्चित्तं दीयते। यत् यत् प्रायश्चित्तमापन्नं तदेव दीयते। इति यावत्कदाचित्तथाविधायां समर्थतायां यत्प्रायश्चित्तमापन्नं तस्याक्तिनमनन्तरं दीयते / कदाचित्प्रभूतायामसर्थतायां बहन्तरितं बहुभिः प्रायश्चित्तैरन्तरितमक्तिनं दीयते। अत्यन्तासमर्थतायां 'झोषो' वा, सर्वस्य प्रायश्चित्तस्य परित्यागः / आलोचनामात्रेणैव तस्यामवस्थायां तस्य शुद्धिभावनात् यथा कृतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूल दीयते। अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदः, तथाप्यसमर्थतायां षड्गुरु / तत्राप्यशक्ती षट्लघु। एवं तावत् नेय यावन्निर्विकृतिकम्। तत्र, प्यशक्तौ पौरूषी / तत्राप्यसमर्थतायां नमस्कारसहितम् / तस्यापि गाढग्लानत्वभावतोऽसंभव एवमेवाऽऽलोचनामात्रतः शुद्धिरिति। तदेवम्"कयकरणा इयरे वा।" इत्यादिगाथाद्वयं सकलमपि भावितम्। अधुना "सावेक्खा आयरियमादी।" इति यदुक्तं तत्र परस्याऽऽक्षेपमाहआयरियादी तिविहो, सावेक्खाणं तु किं कयो भेदो?। एएसिंपचिछत्तं, दाणं चऽण्णं अतो तिविहो // 17 // नन्वाचार्योपाध्याययोरपि भिक्षुत्वस्यावस्थितत्वात्तद्ग्रहणे तयोरपि ग्रहणमिति। किं किमर्थं सापेक्षाणां त्रिविध आचार्याऽऽदिक आचार्योयाध्यायभिक्षुलक्षणः कृतो भेदः / एवमुक्ते सूरिराह-(एएसि इत्यादि) एतेषामाचार्याऽऽदीनां यत् आभवति प्रायश्चित्तं, यच्च तस्य प्रायश्चित्तस्य समसिमर्थपुरूषाऽऽद्यपेक्षं दानं तत् पृथक् पृथक् अन्यत्, अतः सापेक्षाणामाचार्याऽऽदिकस्त्रिविधो भेदः कृतः। एतदेव सविशेषमाहकारणमकारणं वा, जयणाऽजयणा व नत्थि अगियत्थो। एएण कारणेणं, आयरियादी भवे तिविहा ||171 / / इदं कारणं प्रतिसेवनाया इदमकारणं, तथा इयं यतना, इयभयतना इत्येतन्नास्ति अगीतार्थे अगीतार्थस्य तु, अर्थात् गीतार्थस्यास्तीति प्रतीयते। तत्राऽऽचार्योपाध्यायौ गीतार्थी, भिक्षुर्गीतार्थोऽगीतार्थश्चा कारणे | यतनया कारणे अयतनया पृथक् पृथक् अन्यत्प्रायश्चित्तं सहासहपुरूषाऽऽद्यपेक्षानुतुल्यऽपि प्रायश्चित्ते आभद्यमाने पृथगन्यो दानिविधिरत | एतेनाऽऽचार्या स्त्रिविधा भवति सूत्रे इति। बहुत्वेऽप्येकवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययः कचिगतीति। एनामेव गाथां व्याख्यानयतिकज्जाकज जयाजय-अविजाणतो अगीउ जे सेवे। मो होइ तस्स दप्पो, गीओ दप्पो जए दोसा / / 172 / / कार्य नाम प्रयोजनं, तत् अधिकृतवृत्तेः प्रयोजकत्वात् कारणम् / अत एवान्यत्रोक्तम् - "कारणंति वा, कजं ति वा एगट्ठा।" ततोऽ-यमर्थःअगीतोऽगीतार्थः कारणं न जानाति यस्मिन् प्राप्ते प्रतिसेयना न क्रियते, तथा कारणे अकारणे वा प्रतिसेवनांकुर्वन् यतनामयतानां वा नजानाति, एतान्यजानानो यः सेवते तस्य दर्पो भवति / सा तस्य दपिका प्रति सेवाना भवतीति भावः / गीतार्थः पुनः सर्वाण्यप्येतानि जानाति, ततः कारणे प्रतिसेवते नाकारणे। कारणेऽपि यतनया न पुनरयतनया। ततः स शुद्ध एव न प्रायश्चित्तविषयः / अगीतार्थस्य त्वज्ञानतया दर्पण प्रतिसेवमानस्य प्रायश्चित्तं, यदि पुनर्गीतार्थोऽपि दर्पण प्रतिसेवते कारणेऽप्ययतनया वा, तदा तुल्यमगीतार्थेन समं तस्य प्रायश्चित्तम् / तथा चाऽऽह- "गीए दप्पा जए दोसा।" गीते गीतार्थे, दर्पण प्रवर्तमाने प्रतिसेवनायामिति गम्यते। कारणेऽपि प्रतिसेवनामयतमाने अगीतार्थन तुल्यं तस्य प्रायश्चित्तमिति भावः / प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणापि क्रियमायाणां प्रतिसेवनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चित्तम्। कारण पुनर्यतनया प्रवर्त्तमानः शुद्ध एव न प्रायश्चित्तविषयः / तत्राऽऽचार्य उपाध्यायाश्च नियमात् गीतार्था इति गीतार्थत्वापेक्षया समाः, केवल प्रतिसेव्यमानं वस्तु प्रतीत्य विषमाः भिक्षयो गीतार्थाऽगीताश्चि भवन्ति / प्रतिसेव्यमपि वस्त्वधिकृत्य भेद इति / वस्तुभेदत' गीतार्थत्वतश्च पृथक् विभिन्नं विभिन्न प्रायश्चित्तं सहासहपुरूषाऽऽद्यपेक्षया तुल्येऽप्याभावति प्राययश्चित्त पृथग विभिन्न प्रायश्चित्तदानम् दोसो विहवाणुरूवो, लोए दंडो वि किमुत उत्तरिए। तत्युच्छेदो इहरा, निराणुकंपा न य विसोही॥१७३|| दण्डोऽपि इति, अपिशब्दस्य भिन्नक्रमत्वात् लोकेऽपीत्येवंद्रष्टव्यः लोकेऽपि दण्डो दोषः विभवानुरुपः / तथाहि-महत्य-पराधे महान दण्डोऽल्पेऽल्पीयान्, तथा समानेऽपि दोषे अल्पधनस्याल्पो महान धनस्य महान् / लोकेऽपि तावदेवं किमुत किं पुनरौत्तरिके लोकोतरसंबन्धिनि व्यवहारे, तत्र सुतरां दोष सामर्थ्यानुरूपो दण्डः, तस्य सकलजनानुकम्पायाः प्रधानत्वात्। यदि पुनरल्पेऽपि दोषे महान्दण्डडे, महत्यलपीयान्, तथा यदि समानेऽप्यपराधे कृतकरणत्वमकृतकरण वाऽऽचार्योपाध्याययोर्भिक्षोरपि कृतकरणत्वमधिगतत्वमनधिगतत स्थिरत्वमस्थित्वं वाऽनपेक्ष्य तदनुरूपो दण्डः स्यात् , किं तु तुल्य एव, तदा व्यवस्थाया अभावतः सन्तानप्रवृत्त्यसंभवे तार्थेच्छेदः स्यात्। तथा निरनुकम्पाया अभावः प्रायश्चित्तदायकस्य असमर्थ भिक्षुप्रभृतीनामनुग्रहात् / न च तरय प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य, प्रायश्चित्तेऽप्यतिमात्रप्रायश्चित्तस्य दानतो महाशातनासंभवात् / "अप्पच्छित्ते य देइ पच्छित्तं पच्छित्तं, अइमत्तं आसायणा तस्स महती उ।" इतिवचनात् / ततः सापेक्षा आचार्याऽऽदयस्त्रिविधाः उक्ताः