________________ पच्छित्त 144 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त विशेषं निर्दिशन्तो "जे'' इति निर्देशे कृते भिक्षोभवति निर्देशो, यो | भिक्षुर्मर्त्य इति तस्य च भिक्षोस्तथा निर्दिष्टस्य प्ररूपणा नामाऽऽदिनिक्षेपरूपा कर्त्तव्या। व्य०१ उ०२ प्रक०। नि०चू०। (भिक्षुमासस्थानप्रतिसेवनाऽऽलोचनानां व्याख्या स्वस्वस्थाने) (6) अथ कस्य समीपे आलोचना दातव्या / उच्यते-आगमव्यवहारिणः, श्रुतव्यहारिणो वा? तथा चाऽऽह आगमसुयववहारी, आगमतो छव्विहो उ ववहारी। केवलिमणोहिचोद्दस-दसनवपुव्वीउ नायव्वा / / 135 // "आगमसुयववहारि त्ति' व्यहारियशब्दः प्रत्येकमभिसबध्यते / आलोचना) द्विविधः / तद्यथा-आगमव्यवहारी, श्रुतव्यवहारी च / तत्राऽऽगमतो व्यवहारी षनिधः / तद्यथा-केवली, केवलज्ञानी। (मणोहि त्ति) पदैकदेशे पदसमुदायोपचारात् मनःपर्यायज्ञानी, अबधिज्ञानी / (चोद्दसदसनवपुटवी इति ) पूर्विशब्दः प्रत्येकम-भिसंबध्यते। चतुर्दशपूर्वी, दशपूर्वी, नवपूर्वी च। ज्ञातव्याः एते चाऽऽगमव्यवहारिणः प्रत्यक्ष ज्ञानिन उच्यन्ते, चतुर्दशाऽऽदिपूर्वबलसमुत्थस्याऽपि ज्ञानस्य प्रत्यक्षतुल्यत्वात्। तथाहि-येन यथा योऽतिचारः कृतस्तं तथा सर्वमेते ज्ञानन्तीति। पम्हुतु पडिसारण, अप्पडिवजंतयं न खलु सारे। जइ पडिवजइ सारे, दुविहऽतियारं पि पचक्खी // 136| प्रत्यक्षी प्रत्यक्षज्ञानी, आगमव्यवहारीत्यर्थः / द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं वाऽतिचारमालोचनीयम्। (पम्हु, टे ति) विस्मृतं भवति। ततस्तस्मिन्चिस्मृते प्रतिसारण करोति। यथाऽमुकं तवाऽऽलोचनीय विस्मृतमितितदप्यालोचयति। केवलं यदि केवलज्ञानाऽऽदिवलेनैतत् जानाति तदैष भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते। "वर्तमानसामीप्ये वर्तमानवद्वा / " इति वचनतो भविष्यति वर्तमान- | विधानात प्रतिपत्स्यते इति तदा स्मारयति / यदि पुनरेतदवगच्छतियथैष भणितोऽपि सन्न सम्यग प्रतिपत्स्यते इति, तदा तमप्रतिपत्स्यमानं न खलु नैव स्मारयति, निष्फलत्वात्। अमूढलक्षयो हि भगवानागमव्यवहारी / अत एव दत्तायाभप्यालोचनाया यद्यालोचकः सम्यगावृतो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति / अथ न प्रत्यावृतस्ततो न प्रयच्छतीति श्रुतव्यवहारिणः। प्राऽऽहंकप्पपकप्पी उसुए, आलोय ति ते उ निक्खुत्तो। सरिसत्थमपलिउंची, विसरसिपरिणामतो कुंची।१३७। कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः / प्रकल्पग्रहणेन निशीथः। कल्पश्च प्रकल्पश्च कल्पप्रकल्पम्। तदेषामस्तीति कल्पप्रकल्पिनः।दशाकल्पव्यवहाराऽऽदिसूत्रार्थधराः।तुशब्दत्वाद् महाकल्पश्रुतमहाकल्पनिशीथ नियुक्तिपीठिकाधराश्च / श्रुतव्यवहारिणः प्रोच्यन्ते। तथाऽऽलोचकं त्रिःकृत्वस्त्रीन् वारान् आलोचयन्ति / ते ह्येकं द्वौ वारान्नाऽऽलोचित-अनेन प्रतिकुशनयाऽऽलोचितमप्रतिकुचनया वेति विशेष च बुध्यन्ते। ततस्त्रीन वारान आलोचापयन्ति। कथमितिचेत् ? उच्यते-प्रथमवेलायां निद्रायमाण इव श्रृणोति / तनो ब्रूतेनिद्राप्रमादं गतवानहमिति न किमप्यश्रोषमतो भूयोऽप्यालोचय। द्वितीयवारमालो- | चिते भणित-न सुष्टुमयाऽवधारितमनुपयोगभावाद्, अतः पुनरप्यालोचय। एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिक शाऽमायावी। अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुञ्ची कुटिलो मायावी। अथैकं दो वा वारानालोचनादापनेन मायावी अभायावी वा किं नोपलभ्यते, येन त्रीन्वारानित्युक्तम् ? उच्यते उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते / तस्याऽपि च प्रत्ययो भवतियथाऽहं विस-दृशभणनेन मायावी लक्षितः, ततो मायानिष्पन्नं मासंगुरु प्रायश्चित्तं पूर्व दातव्यम्, तदनन्तरमपाराधनिमित्तं प्रायश्चित्तमिति। अत्रैवार्थे दृष्टान्तमाहतिन्नि उ वारा जह दं-डियस्स पलिउंचियम्मि अस्सुवमा। सुद्धस्स होइ मासो, पलिउँ चिइतं चिमं वऽण्णं / / 13 / / दण्डिको नाम करणपतिः, तस्य यथा अपन्यायपीडितं करणमुपस्थितम्-किं मायाव्येषोऽमायावी चेति परिज्ञानाय त्रीन्वारानपन्यायमुचारयितुमंभियोगः / एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडित प्रायश्चित्व्यवहारार्थमुपस्थितमेष प्रतिकुचनापरो, न वेति परिज्ञानार्थ त्रीन्वारानुचारयितुं संरम्भः / ततो यदा श्रुतव्यवहारिभिस्त्रिाकृत्व आलोचनाप्रदापनेनाऽऽगमव्यव-हारिभिः प्रथमवेलायामप्यागमबलेन तस्य प्रतिकृश्चितं कौटिल्यज्ञानं भवति, तदा तस्मिन् प्रतिकुचिते ज्ञातोऽश्वोपसा अश्वदृष्टान्तःक्रियते / यथा आचार्य ! (?) शृणु तावदिदमुदाहरणम्- "जहा कस्सइ रन्नो एगो अस्सो सव्वलक्खणसंजुतो धावणपवण-समत्थो, तस्स आसस्स गुणेणं अजेयो सो राया सव्वे सामंतराइणो आज्ञापयति। ताहे सामंतराइणो अप्पप्पणो सभासु भणंतिनऽस्थि कोइ परिसे पुरिसो, जो तं हरित्ता आणेइ। सव्येहिं भणियं सो पुरिसपंजरल्थो चिट्ठइ। तत्थ नो पवनो सक्को हरिउं। एगस्स रण्णो एगेणं पुरिसेण भणियं-जइ सो मारेयव्वो तो मारेभि / ताहे रन्ना भणिय-मा अम्हं तस्स वा भवउ वाहएत्ति। ततो सो तत्थगओ। पच्छन्नपदेसहिए। श्लक्ष्णाया इषीकाया अग्रभागे क्षुद्रकण्टकं प्रोतं कृत्वा दिकरूयधणुएण मिल्लेइ, तेण आसो विद्धो, इषीका अश्वमाहत्य पतिता रिङ्गिणिकाकण्टकोऽश्वशरीरेऽनुप्रविष्टः / ततोऽसौ आसौ तेण अव्वत्तसल्लेण परिहायइ पभूयगण-जोरभासणमपि चरंतो / ततो विजस्स अक्खातो / वेजेण परिचिंतिऊण भणियं-नत्थि अण्णो कांइ रोगो, अवस्समव्वत्तो कोई सल्लो / ताहे वेजेणं सो आसो जमगसमगपुरिसे हिं चिक्खल्लेख आलिंपावितो। ततो जत्थ पढमं सुक्क दिटुं, तत्थ फालेत्ता अवणीतो सो क्षुद्रकण्टकीसल्लो / जहा सो अस्सो ससलो न सक्केइ सामंतरायाको निजिणि उ पुव्वं सम्मपि तस्य प्रतिकुंञ्चितं ज्ञातं भवति तदानासावश्वदृष्टान्तः क्रियते, स्वभावत एवास्य सम्यगालोचकत्वात् / तस्य तु शुद्धम्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मासः / इतरस्य तु कृतप्रतिकुञ्चितस्य तचापन्नं मासिकं प्रायश्चित्तमिदं चान्यद मायानिष्पन्नमासगुरुा इतिगाथार्थः। संप्रति यदुक्तम्- "जह दंडियस्स" इति तद्विभावयतिअत्थुप्पत्ती असरिस-निवेयणे दंडापच्छ ववहारो। इय लोउत्तरियम्मि वि, कुंचियभावं तु वंडेति / / 136 / /