________________ पच्छित्त 135 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त किं पुन: सम्यक्चरितस्य प्रायश्चित्तस्य लिङ्गमित्याहचिण्णयस्स णवरि लिंग, इमस्स पाएणमकरणया तस्स। दोसस्स तहा अण्णे, नियम परिसुद्धए विंति||४|| चीर्णस्य राम्यकचरितस्य, (नवरि त्ति) केवल, लिङ्ग चिह्नम्, -अस्य प्रायश्चित्तस्य, प्रायेण बाहुल्येनः प्रायोणेतिकरणात्कारणमपि संभाव्यते। अवरणमनासेवन, तस्य यमाश्रित्य प्रायश्चित्तं प्रतिपन्नम्, दोषस्यापराधस्य प्रायश्चित्तहस्य, तथेति समुच्चये, अन्येऽपरे सूरयः, नियम दोषस्याकरणमेवेत्येवलक्षणम्, प्रायेणेति प्रागुक्तविशेषणस्यनिष्टः, परिशुद्धके विशुद्धेऽपगते, दोष इति प्रक्रमः / बुवतेऽभिदधति। अन्ये तु व्याख्यान्तिनियममकरणनियमस्, आसंसार तदोषाऽऽसेवनात्, परिशुद्धये दोषविशुद्धये / इति गाथाऽर्थः // 46 / / अथेदमपि मतान्तरं सङ्गतमेवेति दर्शयन्नाहणिच्छयणएण संजय-ठाणापातंम्मि जुज्जति इमं पि। तह चेव पयट्टाणं, भवविरहपराण साहूणं // 50 // निश्वयन्येन तत्वनयमतेन, परिणामत इत्यर्थः / संयमस्थानाऽऽपाते चरणशृद्धिविशेषाप्रतिपाते सति, युज्यते संगच्छते, इदमपि आचार्यान्तरमतमपि, आरतामस्मन्मतम् / केषामित्याह-संय-माप्रतिपातेनैव, प्रहलानां व्यापृलानां, भवविरहपराणां संसारछेदनप्रधानानाम्, साधूनां संयतानमिति गाथाऽर्थः // 50 // पञ्चा०१६ विव०। "पाच्छित्तं ओहियं निच्छइयं च।" पं० चू०४ कल्प० स्था०। प्रायश्चित्तसूत्रद्वयम् - बसविहे पायच्छित्ते पन्नते / तं जहा-णाणपायच्छित्ते, दसणपायच्छित्ते वियक्तकिच्चे / चउविहे पायच्छित्ते पण्णत्ते / तं जहा- पडि सेवणापायच्छित्ते, संजोयणापायच्छिते, आरोवणापायच्छित्ते, पलिउंचणापायच्छित्ते। तत्र ज्ञानभेय प्रायश्चित्तम्, यतस्तदेव पापं छिनत्ति, प्रायश्चित्तं वा | शोधयतीति निरूक्तिवशाद् ज्ञानं प्रायश्चित्तमिति / एवमन्यत्रापि, (वियतकिचेति) व्यक्तस्य भावतो गीताथस्य, कृत्यं करणीयं व्यक्तकृत्य प्रायश्चित्तमिति / गीतार्थो हि गुरुलाघवपर्यालोचनेन यत्किश्चन करोति तत्सर्वपापविशोधकमेव भवतीति। अथवा-ज्ञानाऽऽद्यतिचाराविशुद्धये यानि प्रायश्चित्तान्यालोचनाहॉऽऽदीनि विशेषतोऽभिहितानि तानि तथा व्यपदिश्यन्ते। “वियत्त त्ति "विशेषण अवस्थाऽऽद्यौचित्येन विशेषानमिहितमपि, दत्तं वितीर्णमभ्यनुज्ञातमित्यर्थः / यत्किञ्चिन्मध्यस्थगीतार्थन कृत्यमनुष्टानं तद् विदत्तकृस्य प्रायश्चित्तमेव / "वियतकिच्चेति' पाठान्तरम्। प्रीतिकृत्यं वैयावत्याऽऽदीति। प्रतिषेवणमासेवनमकृत्यस्येति प्रतिषेवणा। सा च द्विधापरिणामभेदात्, प्रतिषेवणीयभेदाद्वा। तत्र परिणामभेदात् - "पडिसेवणाउ भावो, सो पुण कुसलोव्व होजऽ कुसलो वा। कुसलेण होइ कप्पो, अकुसलपरिणामओ दप्पो // 1 / / '' प्रतिषेवणीयभेदातु- "मूलगुणउत्तरगुण, दुविहा पडिसेवणा समासेण / मूलगुणे पंचविहा, पिंडोविसहाइया इयरा ||1||" तस्यां प्रायश्चित्तमालोचनाऽऽदि। तच्चेदम्-'आलोयण पडिकमणे, मीसविवेगे, तहा विउस्सगे। तवळ्यमूलअणवठ्ठया य पारंचिए चेव // 1 // " इति प्रतिषेवणाप्रायश्चित्तम्। तथा संयोजनमेकजातीयातिचारमीलनं संयोजना यथा शय्यातरपिण्डो गृहीतः, सोऽप्युदकाऽऽर्द्रहस्ताऽऽदिना, सोऽप्यभ्याहतः, सोऽप्याधाकर्मिकः, तत्र यत्प्रायश्चित्तंतत् संयोजनाप्रायश्चित्तम् / तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा / यथा-पञ्चरात्रिन्दिवं प्रायश्चित्तमापन्नः, पुनस्तत्सेवने दशरात्रिन्दिवं, पुनः पञ्चदशरात्रिन्दिवम्। एवं यावत्षण्मासान्, ततस्तस्याधिकं तपो देयं न भवति।अपितु शेषतपांसि तु तत्रैवान्तर्भावनीयानि। इह तीर्थ षण्मासान्तत्वात्तपस इति। उक्तं च- "पंचाईय रोवणे, नेयव्वा जाव होंति छम्मासा। तेण परमासियाणं, छण्हुवर्रि झोसणं कुल्ला।।१।।" इति आरोपणायाः प्रायश्चित्तमारोपणाप्रायश्चित्तमिति / तथा परिकृञ्चनमपराधस्य क्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना, परिवञ्चना वा / उक्तंच- "दव्वे खेत्ते काले, भावे पलिउंचरण चउवियप्प ति"। तथाहि- "सचिते अच्चित्ते, जणवयपडिसेवियं च अद्धाणे / सुभिक्खे दुभिक्खे, हट्टेणं तह गिलाणेणं / / 1 / / " इति। तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तम् / विशेषोऽत्र व्यवहारपीठादवसेय इति / प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम् / तत्र प्रमीयतेपरिच्छिद्यते येन वर्षशतपल्योपमाऽऽदितत्प्रमाण, तदेव कालः प्रमाणकालः स च श्रद्धा कालविशेष एवं दिवसाऽऽदिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति। उक्तं च - "दुविहो पमाणकालो, दिवसपमाणं च होइ राई य। वउ पोरिसिओ दिवसो, राई चउपोरिसी चेव।।१।।" इति। स्था० 4 ठा० 1301 (4) अथ प्रायश्चित्तमिति कः शब्दार्थः 1, कतितिधं प्रायश्चित्तमिति प्रश्रसुपजीव्य प्रायश्चित्तनिरूक्ताऽऽदिद्वारकलाप प्रतिपादनाय द्वारगाथामाहपायच्छित्तनिरूत्तं, भेया जत्तो परूवणावहुलं। अज्झयणाण विसेसो, तदरिहपरिसाय सुत्तत्थे||३४|| प्रथमतः प्रायश्चित्तनिरूक्तं प्रायश्चित्तशब्दार्थो वक्तव्यः। ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनाऽऽदयो वक्तव्याः / तदनन्तरं यतो निमित्तात्प्ररूपणाबाहुल्यम् / किमुक्तं भवति ?-यतो निमित्तात्प्रतिषेवणातः संयोजनाप्रायश्चित्तम्, आरोपणाप्रायश्चित्तम्, परिकुश्चनाप्रायश्चित्तं च पृथगुपपद्यते, तद्वक्तव्यम् / ततोऽनयोः कल्पाध्ययनव्यवहाराध्ययनयोर्विशेषो नानात्वं वक्तव्यम्, तदनन्तरं तदर्हाऽपि प्रायश्चित्तार्हा परिषद् वाच्या, ततः सूत्रार्थः, एष द्वारगाथासंक्षेपार्थः / व्यासार्थ तु प्रतिद्वारं वक्षयति // 34 // तत्र निरूक्ताद्वारप्रतिपादनार्थमाहपावं छिंदइ जम्हा, पायच्छित्तं तु भण्णते तेणं। पाएण वा विचित्तं, विसोहए तेण पच्छित्तं // 35|| यस्मात् शोधिरूपो व्यवहारोऽपराध संचितं पापं छिनत्ति विनाशयति, तेन कारणेन प्रायश्चित्तं भण्यते / पृषोदराऽऽदित्वात् रूपसिद्धिः / अथ प्रायेण प्रायोऽपराधमलिनं चित्तं जीवमत्र चित्तशब्देन 'चित्तचित्तवतोरभेदोपचारात् "जीवोऽभिधीयते / तथा चाऽऽह चूर्णिकृत्-चित्तमिति जीवस्याऽऽख्येति, विशोधयत्ययराधमलरहितं करोति, तेन कारणेन, प्रा* कालनिरूपणा सूत्रं स्थानाङ्गमूलपाठतो ज्ञेयम्।