________________ पच्छित्त 134 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त यदाहुस्तदेव दर्शयन् गाथापञ्चकमाहसत्तविहबंधगा हों -ति पाणिणो आउवजियाणं तु। तह सुहुमसंपराया, छव्विहबंधा विणिहिट्ठा / / 40|| सप्तविधबन्धकाः सप्तप्रकारकर्मोपर्जिकाः, भवन्ति स्युः, प्राणिनो जीवाः, आयुर्वर्जितानां त्वायुःकर्मविरहितानामेव, शेषाणां ज्ञानाऽऽवरणाऽऽदीना, तद्धि एकत्र भवे सकृदेव बध्यते / तथेति समुच्चये। सूक्ष्मसंपराया दशमगुणस्थानवर्तिनः षड्डिधो बन्धो येषां ते तथा / विनिर्दिष्टा उक्ता आगमे // 40 // कथं षड्डिधबन्धा इत्याहमोहाऽऽनुयवज्जाणं, पगडीणं ते उ बंधगा भणिता। उवसंतखीणमोहा, केवलिणो एगविहबंधा / / 41|| मोहाऽऽयुर्षर्जाना मोहनीयाऽऽयुष्कवर्जितानाम्, प्रकृतीनां कर्म भेदाना, ते तु सूक्ष्मसंपरायाः पुनः, बन्धका आवर्जकाः, भणिता उक्ताः, तथा उपशान्तः सर्वथाऽनुदयावस्थःक्षीणश्च निर्जीणो मोहो मोहनीयं कर्म येषां ते तथा। केवलिनश्च सयोगिकेवलिनः, एकविधबन्धा व्यक्तमिति।।१।। ते पुण दुसमयठितिय-स्स बंधमाण पुण संथरायस्स। सेलेसीपडिवण्णा, अबंधया होति विण्णेया॥४२॥ / ते पुनस्त्रयोऽपि द्वौ समयौ बन्धोदयविशिष्टौ स्थितिरवस्थानं यस्य तत् द्विसमयस्थितिकं योगप्रत्ययं सातवेदनीयमित्यर्थः, तस्य, बन्धका अर्जकाः, न तु न पुनः, संपरायस्य कषायप्रत्ययस्य, उपशान्तक्षीणकषायत्वात्तेषाम्, तथा शैलेश्ययोव्यवस्थासंभवः करणविशेषस्ता प्रतिपन्ना आश्रिता येते तथा ते , अबन्धकाः कर्मबन्धरहिताः, भवन्ति स्युः, विज्ञेया ज्ञातव्या इति॥४२॥ एवं प्रकृतिबन्धापेक्षया सर्वावस्थासु बन्ध उक्तोऽथ स्थित्यपेक्षया तमाहअपमत्तसंजयाणं, बंधठिती होति अट्ठ उ मुहूत्ता। उक्कोसेण जहण्णा, भिण्णमुहूत्तं तु विण्णेया / / 43|| अप्रमत्तसंयतानां सप्तमगुणस्थानकवठाम्, बन्धातः स्थितिर्बदस्य कर्मणोऽवस्थानम्। भवति स्याद्, अष्ट तु अष्टावेव, मुहुर्तान् नाडिकाद्वयमानान, उत्कर्षणोत्कर्षतः,जघन्या तु सर्वाऽल्पा पुनः, भिन्नमुहूर्तमन्तर्मुहूर्त यावत् / तुशब्दः पुनरर्थो योजित एव, विज्ञेया अवसेया, कषायाणां स्थिति बन्धहेतूनां विद्यमानत्वादिति // 43 // जे उपमत्ताऽगाउ-ट्टियाए बंधंति तेसि बंधठिती। संवच्छराणि अट्ट उ, उक्कोसियरा मुहत्तंतो॥४४॥ येतुये पुनः, प्रमत्ताः प्रमत्तसंयताः षष्ठगुणस्थानकवर्तिनः अनाकुट्टिक्या अनुपेत्यकरणेन प्राणातिपाताऽऽदौ वर्तमाना बध्नन्त्यावर्जयन्ति कर्म, तेषां बन्धस्थितिः कर्मबन्धावस्थानं संवत्सरान वर्षाणि, अष्ट तु अष्टावेव, उत्कर्षा उत्कृष्टा भवन्ति, इतरा जघन्या पुनः / मुहूर्तान्तरमन्तर्मुहूर्त यावदिति / गाथापञ्चकार्थः / / 44 // प्रस्तुतयोजनामाहता एवं चिय एयं, विहियाणुट्टाणमेत्थ हवइ त्ति। कम्माणुबंधछेयण-मणइं आलोयणाऽऽदिजुयं // 45|| यस्मात् सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धोनुमेया च विराधना, | इष्यत चासौ द्रव्यतो वीतरागस्यापि छभस्थस्य चतुर्णामपि मनोयोगाऽऽदीनामभिधानात्, तस्मात् / (एवं चिय त्ति) एवमेव विराधनायाः शोधनीयत्वेन एतद्भिक्षाऽटनाऽऽदिकम्, विहितानुष्ठान विधेयक्रिया। अत्र कर्मापनयनप्रक्रमे, भवति सयाद्, इतिशब्दः समाप्त्यर्थो गाथाऽन्ते योज्यः। किंविधं भवतीत्याह-कर्मनुबन्धच्छेदनं कर्मसत्ताऽवच्छेदकम, अनघमदाष, परोक्त-दूषणाभावात् / किं भूतं सदित्याहआलोचनाऽऽदियुतमालोचनाप्रतिक्रमणाऽऽदिप्रायश्चित्तसमन्वितमिति गाथाऽर्थः / / 4 / / इटैयार्थे परमतमाशक्य परिहरन्नाहविहिताणुट्ठाणत्तं, तस्स वि एवं ति ता कहं एयं / पच्छित्तं णणु भण्णति, समयम्मि तहा विहाणाओ।४६। विहितानुष्ठनत्वं विधेयक्रियात्वम्, तस्याप्यालोचनाऽऽदिप्रायश्चित्तस्याऽपि प्राप्नोति, आस्तां भिक्षाऽटनाऽऽदेः / एवमुक्तन्यायेन, विहितानुष्ठानमालोचनाऽऽदियुतं सत्कर्मानुबन्धच्छेदनं भवतीत्येवंलक्षणेन, इतिशब्दो वाक्यसमाप्तौ / यत एवं तत्तस्मात्, कथम्? न कथञ्चिदित्यर्थः / एतदालोचनाऽऽदिप्रायश्चित्तमुच्यत इति परः / सूरिराह नन्विति परमताक्षमायाम, भण्यते उच्यते, उत्तरमत्र समये सिद्धान्ते, तथा तेन प्रकारेण प्रायश्चित्तत्वेन, विधानाद्विहितत्वादिति गाथाऽर्थः / / 46 / / अथवा प्रायश्चित्तमपि मिहितानुष्ठानमेवेति दर्शयन्नाहविहियाणुट्ठाणं चिय, पायच्छित्तं तदण्णहाण भवे / समए अभिहाणाओ, इट्ठत्थपसाहगं णियमा॥४७|| विहितानुष्ठानमेव विहितक्रियैव, प्रायश्चित्तमालोचनाऽऽदिकमिति प्रतिज्ञा, समये सिद्धान्तेऽमिधानादुक्तत्वादिति हेतुः, भिक्षाऽटनाऽऽदिवदिति दृष्टान्तोऽभ्यूहाः / विपर्यये बाधकमाह-तत्प्रायश्चित्तम्, अन्यथाऽविहितानुष्ठाने सति, न भवेन्नजागते, इष्टार्थप्रसाधकं कर्मविशोधकमित्यर्थः / नियमादवश्यंतयेति / यांदेष्टार्थसाधकं न भवति तद्विहितानुष्ठानमपि न भवति, यथा हिंसाऽऽदि, इष्टार्थसाधकं च प्रायश्चित्तम, अतो विहितानुष्ठानमिति। अथवा पूर्वोक्तार्थमेव भावयन्नाहविहितानुष्ठानमेव प्रायश्चित्तम्, तत्प्रायश्चित्तमन्यथा विहितानुष्ठानत्वा भावे न भवेद् अविहितानुष्ठानत्वादेवेति। नन्वेवं विहितानुष्ठानत्वे प्रायश्चित्तस्य भिक्षाऽटनाऽऽदिवच्छोध्यतैव स्यान्न शोधकतेत्याशड्क्याऽऽह-समये अभिधानाच्क्रोधकतया प्रायश्चित्तस्याऽऽगमेऽभिहितत्वादिष्टार्थप्रसाधक नियमाद्विशोधकमेव तदिति गाथाऽर्थः // 47 // अथ प्रायश्चित्तस्य विहितानुष्ठानत्वसमर्थनार्यवाहसव्वा वि य पव्वज्जा, पायच्छित्तं भवंतरकडाणं। पावाणं कम्माणं, ता एत्थं णस्थि दोसो ति॥४८|| सर्वाऽपि च समस्ताऽपि च, न केवलं तदेकदेशः / प्रव्रज्या महाव्रतप्रतिपत्तिः, प्रायश्चित्त विशुद्धिहेतुर्भवति, केषामित्याह-भवान्तरकृतानां जन्मान्तरोपात्तानाम्, पापानां भवनिबन्धनत्वेन दुष्टानाम्, कर्मणां प्रतीतानाम्, यत एवं तत्तस्माद्, अत्र प्रायश्चित्तस्य विहितानुष्ठानत्वे, नास्ति दोषो न विद्यते दूषणं, प्रव्रज्यालक्षणप्राययश्चित्तस्य विहितानुष्ठानत्वाभ्युपगमात् इतिशब्दः समाप्तौ / इति गाथाऽर्थः // 48||