________________ पच्छित्त 133 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त सकाशात्, न नैव, दोषो दूषणम्, समयसिद्ध आगमोक्तः स्त्रीत्वलक्षणोऽभविष्यद्, इति न शुभभावमात्रं शुद्धिनिमित्तमिति / / 31 / / (अत्र ब्राह्मी- | वृत्तान्तः 'बभी' शब्दे वक्षयते) अथोपसंहरन्नाहता एयम्मि पयत्तो, कायव्वो अप्पमत्तयाए उ। सतिबलजोगेण तहा, संवेगविसेसजोगेण // 32 // यस्माद्विशिष्ट एव शुभभावः शुद्धिनिमित्तं भवति / तस्मादेतस्मिन् विशिष्टशुभभावे, प्रयत्रः समुद्यमः, कर्तव्यो बिधेयः, अप्रमत्ततया त्वप्रमादेनैव, स्मृतिबलयोगेन स्थूलेतराऽऽद्यतिचारस्मरणसामर्थ्ययुक्ततया, तथेति समुचये / संवेगविशेषयोगेन भवभयातिशयसंबन्धेन / इति माथाऽर्थः // 32 // अथ कस्माद्विशिष्टशुभभावे अप्रमत्तत्वाऽऽदिना यत्नो विधेय इत्याहएतेण पगारेणं, संवेगााइसयजोगतो चेव। अहिगयविसिट्ठभावो, तहा तहा होति णियमेणं // 33 // एतेनोक्तेन प्रकारेणाऽप्रमत्तातास्मृतिबलयोगलक्षणेन। संवेगातिशययोगतश्चैव संवेगप्रकर्षसंबन्धत एव च, इह चैतेन प्रकारेणत्यनेनैव संवेगसंयोगस्य ग्रहणे यत्पुनः साक्षात्तद्ग्रहणं, तत्तस्य विशिष्टशुभभावजनने मुख्यकारणताप्रतिपादनार्थम्। अधिकृतविशिष्टभावो विशुद्धिहेतुप्रस्तुत प्रकृष्टशुभाध्यवसायः / तथा तथा जीववीर्यातिशधेन, भवति स्यात्, नियमेनावश्यंभावेन / इति गाथाऽर्थः // 33 // ततश्चतत्तो तव्विगमो खलु, अणुबंधावणयणं व होजाहि। जं इय अपुव्वकरणं, जायति सेढी य विहियफला।३४|| ततो विशिष्टशुभभावात्, तद्विगमः खलु अशुभाध्यवसायजातकर्मविनाश एव, अनुबन्धापनयन वाऽशुभभावजातकर्मानुबन्धव्यवच्छेदोवा, वेति विकल्पार्थः / भवेत्स्यात्, सर्वथा तद्विगमा भावे। अथ कथं तद्विगमो भवतीत्याह-यत् यस्माद्धेतोः, इत्यमुना प्रकारेण विशिष्टशुभभावलक्षणेन, अपूर्वकरणमष्टमगुणस्थानकमपूर्वेषामध्ययवसायविशेषाणां स्थितिघाताऽऽदीनामधि करणभूतम, जायते भवति, श्रेणिश्चोपशमकक्षपकश्रेणिरूपा, विहितफला सिद्धान्तनिरूपितप्रयोजनानुत्तरसौख्यनिर्वाणफला। इति गाथाऽर्थः // 34 // ___अथ प्रायश्चित्तरूपशुभभावस्य पुनरपि महार्थतां दर्शयन्नाहएवं निकाइयाण वि, कम्माणं भणियमेत्थ खवणं ति। तं पि य जुञ्जइ एवं, तु भावियव्वं अओ एयं // 35 // एवमित्यनेनैव न्यायेनापूर्वकरणश्रेणिजननरूपेण, निकाचितानमपि उपशमनाऽादिकरणान्तराविषयत्वेन नितरांबद्धानामपि, आस्तामनिकाचितानां कर्मणां ज्ञानाऽऽवरणाऽऽदीनाम्, भणितमुक्तमागमे"तवसा उ निकाइयाण पि' इति वचनात्। अत्र प्रायश्चित्तरूपशुभभावे, क्षपण सर्वथा क्षयो भवतीति यत्तदपिच, अनिकाचितक्षपणं तुनिर्विचारमित्यपि चशब्दार्थः / युज्यते संगच्छते, ततश्चैवं तु एवमेव कर्मविगमकर्मानुबन्धापनयन-हेतुत्वेनैवं, भावयितव्यं पर्यालोचनीयमतो | निकाचितकर्मक्षपणउ-हेतुत्वात्, एतत् शुभभावरूपं प्रायश्चित्तमिति गाथाऽर्थः // 35 // अथाऽविहितानुष्ठानेषु युक्तं प्रायश्चित्तं, न तु विहितेषु भिक्षाचर्याऽऽदिष्विति परमतमादर्शयन्नाहविहियाणुट्ठाणम्मी, एत्थं आलोयणाऽऽदि जं भणियं / तं कह पायच्छित्तं, दोसाभावेण तस्स त्ति / / 36|| अह पं पि सदोसा चिय, तस्स विहाणं तु कह णु समयम्मि। न य णो पायच्छित्तं, इमं पि तह कित्तणाओ उ॥३७।। विहितानुष्ठाने आगमोक्तक्रियायां भिक्षाचर्याऽऽदिरूपायाम, अत्र प्रायश्चित्ताधिकारे, आलोचनाऽऽदि आलोचनाकायोत्सर्गप्रभूति, यत्प्रायश्चित्तं, भणितमुक्तमागमे- "भत्ते पाणे सयणासणे य अरहतसमणसेज्जासु / उच्चारे पासवणे, पणवीसं होति ऊसासा // 1 // " इति वचनात् / तत्वथं प्रायश्वित्तम् ? / न कथञ्चित् घटत इत्यर्थः / दोषाभावेन निर्दोषत्वेन हेतुना, तस्य भिक्षाऽटनाऽऽदि-विहितानुष्ठानस्य, इति : वाक्यसमाप्तौ // 36 // अथ ब्रूषे, तदपि विहितानुष्ठानमपि, आस्तांतदन्यत्। सदोषमेवसातिचारमेव, तस्य भिक्षाऽटनाऽऽदेर्विधानमुपदेशः, कथ केन प्रकारेण? नुइति वितर्के। समये सिद्धान्तेन तद्विधिः प्राप्नोतीत्यर्थः / नन्वालोचनाऽऽदिप्रायश्चित्तमेव न भवतीत्याशङ्ख्याऽऽहन च नो, प्रायश्चित्तमपि तु प्रायश्चित्तमेव, इदमप्यालोचनाऽऽद्यपि, आस्तां तप आदि, कुत इत्याह-तथा कीर्तनात् तु प्रायश्चित्तत्वेन संशब्दना देव। तथाहि- "आलोयणपडिक्कमणे मीसषिवेगे।" इत्यादि। इति गाथाद्वयार्थः // 37 // सूरिराहभण्णइ पायच्छित्तं, विहियाणुट्टाणगोयरं चेयं / तत्थ वि य किं तु सुहूगा, विराहणा अस्थि तीऍ इमं // 38|| भण्यतेऽभिधीयते अत्रोत्तरम् प्रायश्चित्तम्, न तु न प्रायश्चित्तम् तथा विहितानुष्ठानगोचरं चविधेयक्रियाविषयम्, चशब्दो विशेषणसमुच्चये। तत्र प्रथमविशेषणेन- "तं कहपायच्छित्तं' इत्यादिप्रायश्चित्तदूषणं वक्षयमाणयुक्तिबलान्निराकृतम् / द्वितीयेन तु "अह तं पि'' इत्यादि विहितानुष्ठानदूषणमिति / एतदालोचनाऽऽदिप्रायश्चित्तं, किं तु केवलं तत्रापि च विहितानुष्ठानेऽपि च, आस्तामितरत्र, सूक्षयाऽल्पा, विराधना खण्डना, अस्ति विद्यते, अतस्तस्या विराधनायाः, शुद्धयर्थमिदमेतदालोचनाऽऽदीति गाथाऽर्थः // 38 // अथ कथमुपयुक्तस्यापि सूक्षमा विराधना _स्यादित्याशक्याऽऽहसव्वावत्थासु जओ, पायं बंधो भवत्यजीवाणं। भणितो विचित्तभेदो,पुवायरिया तहा चाहु॥३६॥ सर्वावस्थासु सरागवीतरागाऽऽदिसमस्तपर्यायेषु, यतो यस्माद्धेतोः, प्रायो बाहुल्येनायोग्यावस्थायां बन्धो न स्यादपीति सूचनार्थ प्रायोग्रहणम् / बन्धः कर्मबन्धो, भवस्थजीवानां संसारिजन्तूना, न तु सिद्धानां, भणित उक्तः सिद्धान्ते। किंविध इत्याह-विचित्रभेदो बहुप्रकारः, कुत एतत्सिद्धमित्याह-पूर्वाऽऽचार्या अतीतसूरयः, तथा च कर्मबन्धविचित्रतार्थत्वेन आहुर्बुवते / इति गाथाऽर्थः // 36 //