________________ भासा 1548 - अभिधानराजेन्द्रः - भाग 5 भासा र्थः।। 41 / / उक्तानुक्तापवादविधिमाह- 'पयत्त त्ति सूत्र, 'प्रयत्नपक्च' मिति वा प्रयत्नपक्वमेतत् 'पक्व' सहस्रपाकाऽऽदिग्लानप्रयोजन एवमालपेत्, तथा प्रयत्नच्छिन्न' मिति वा प्रयत्नच्छिन्नमेतत् छिन्न वनाऽऽदि साधुनिवेदनाऽऽदौ एवमालपेत, तथा 'प्रयत्नलष्टे' ति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति कर्महतुक' मिति सर्वमेव वा कृताऽऽदि कर्मनिमित्तमालपेदिति योगः, तथा 'गाढप्रहार' मिति वा कञ्चन गाढमालपेत् गाढप्रहारं ब्रूयात् क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति सूत्रार्थः / / 4 / / (17) कचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याहसव्वुक्कसं परग्धं वा, अउलं नऽत्थि एरिसं। अविकिअमवत्तव्वं, अचिअत्तं चेव नो वए।।४३|| सव्वमेअं वइस्सामि, सव्वमेअंति नो वए। अणुवीइ सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं / / 44|| सुक्कीअंवा सुविक्कीअं, अकिजं किज्जमेव वा। इमं गिण्ह इमं मुंच, पणीअंनो विआगरे।।४।। अप्पग्धे वा महग्घे वा, कए वा विक्कए वि वा। पणिअढे समुप्पन्ने, अणवज्ज विआगरे // 46 / / 'सव्वुक्कसं तिसूत्रम्, एतन्मध्य इदं 'सर्वोत्कृष्ट' स्वभावेन सुन्दरमित्यर्थः, परार्घ वा उत्तमार्घ वा महाघ क्रीतमिति भावः / अतुलं नास्तीदृशमन्यत्रापि क्वचित, 'अविक्किअंति' असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अवक्तव्य' मित्यनन्तगुणमेतत् अविअत्तं वा- अप्रीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरायाऽऽदिदोषप्रसङ्गादिति सूत्रार्थः / / 43 / / किं च- 'सव्वमेअंति' सूत्र, सर्वमेतद्वक्ष्यामी ति केनचित् कस्यचित् सदिष्ट सर्वमतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति नो वदेत्. सर्वस्य तथास्वरव्यञ्जनाऽऽद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं प्रयच्छन् सर्वमेत दित्येव वक्तव्य इति नो वदेत्, सर्वस्य तथा स्वरव्यञ्जनाऽऽधुपेतस्य वक्तुमशक्यत्वात् असंभवाभिधाने मृषावादः, यतश्चैवमतः- 'अनुचिन्त्य' आलोच्य सर्व वाच्य 'सर्वत्र' कार्येषु यथा असंभवाऽऽद्यभिधानाऽऽदिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः।।। 44 / / किं च - 'सुक्कीअं व त्ति' सूत्रं, सुक्रीतं वेति किश्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात इति योगः, तथा सुविक्रीत' मिति किश्चिक्तेनचिद्विक्रीत दृष्ट्वा पृष्टः सन् सुविक्रीतमिति नव्यागृणीयात, तथा केनचित् क्रीते पृष्टः 'अक्रेय' क्रयाहमेव न भवतीति न व्यागृणीयात, तथैवमेव 'क्रेयमेव वा' क्रयाहमेवेति, तथा 'इदं' गुडाऽऽदि गृहाणाऽऽगामिनि काले महाघ भविष्यति, तथा 'इदं मुञ्चघृताऽऽद्यागामिनि काले समर्घ भविष्यतीतिकृत्वा 'पणितं पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणाऽऽदिदोषप्रसङ्गादिति सूत्रार्थः / / 45 / / अत्रैव विधिमाह-अप्पग्घे व त्ति सूत्रम्, अल्पार्प वा महार्ये वा, कस्मिन्नित्याह- क्रये वा विक्रयेऽपि वा 'पणितार्थे 'पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन् 'अनवद्यम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां व्यापाराभावादिति सूत्रार्थः / / 46 / / किंचतहेवासंजय धीरो, आस एहि करेहि वा। सय चिट्ठ वयाहि त्ति, नेवं भासिज्ज पन्नवं // 47 // बहवे इमे असाहू, लोए वुच्चंति साहुणो। न लवे असाहु साहु त्ति, साहुं साहुत्ति आलवे / / 48|| नाणदंसणसंपन्न, संजमे अतवे रयं / एवंगुणसमाउत्तं, संजय साहुमालवे // 46|| 'तहेव त्ति' सूत्रम्, तथैव असंयतं' गृहस्थम् धीर' संयतः आस्वेहैव, एहीतोऽत्र, कुरु वेदसञ्चयाऽऽदि, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन, व्रज ग्राममिति नैव भाषेत प्रज्ञावान् साधुरिति सूत्राऽर्थः / / 47|| किश'बहवे त्ति' सूत्रम्, बहवः एते' उपलभ्यमानस्वरूपा आजीवकाऽऽदयः असाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसधाते उच्यन्ते साधवः सामान्येन, तत्र नाऽऽलपेदसाधु साधु, मृषावादप्रसङ्गान्, अपि तु साधु साधुमित्यालपेत् न तु तमपि नाऽऽलपेत. उपबृहणातिचारदोषप्रसङ्गादिति सूत्राऽर्थः॥४८॥ किंविशिष्ट साधु साधुमित्यालपदित्यत आह- 'नाण त्ति सूत्रम, ज्ञानदर्शनसंपन्नं-समृद्ध संयमे तपसि च रत यथाशक्ति एवं-गुणसमायुक्त संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः // 46 किञ्चदेवाणं मणुआणं च, तिरिआणं च बुग्गहे। अमुगाणं जओ होउ, मा वा होउत्ति नो वए।।५।। वाओ वुटुं च सीउण्हं, खेमं धायं सिवं ति वा। कया णु हुन्ज एआणि,मा वा होउत्ति नो वए।॥५१।। तहेव मेहं व नहं व माणवं, न देवदेव त्ति गिरं वण्ज्जा। समुच्छिए उन्नए वापओए, वइज वा वुट्ठवलाहयति / / 5 / / अंतलिक्ख त्ति णंबूआ, गुज्झाणुचरिअ त्ति अ। रिद्धिमंतं नरं दिस्स, रिद्धिमंतं ति आलवे / / 53 / / तहेव सावजऽणुमोअणी गिरा ओहारिणी जाय परोवघाइणी। से कोह लोह भय हास माणवो, न हासमाणोऽवि गिरं वइज्जा / / 54|| 'देवाणं ति' सूत्रम्, 'देवानां देवासुराणां मनुजाना' नरेन्द्राऽऽदीना 'तिरश्वा' महिषाऽऽदीनां च 'विग्र हे' संग्रामे सति 'अमुकानां' देवाऽऽदीनां जयो भवतु मा वा भवत्विति नो वदेत्, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसङ्गादिति सूत्राऽर्थः / / 50 / / किञ्च- 'वाउ त्ति' सूत्रम्, 'वातो' मलयमारुताऽऽदिः, 'वृष्टं वा ' वर्षणं, शीतोष्णं प्रती