________________ भासा १५४७-अभिधानराजेन्द्रः - भाग 5 भासा धीभावकरणयोग्यानीति नो वदेत्। दोषाः पुनरत्रात ऊर्ध्वनाश एवामीषां नशोभनानि वा प्रकारान्तरभोगेनेत्यवधाय गृहिप्रवृत्तावधिकरणादय इति सूत्राऽर्थः // 32 // प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-'असंथड' ते सूत्रम्, असमर्था ‘एते' आम्राः अतिभारेण न शक्नुवन्ति फलन्ति धारयितुमित्यर्थः, आम्रगहण प्रधानवृक्षोपलक्षणम्, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि निर्वर्तितानिबद्धास्थीनि फलानि येषु ले तथा, अनेन पाकखाद्यार्थउक्तः, वदेद् 'बहुसम्भूताः, बहूनि सम्भूतानिपाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन लोविता (द्य) र्थ उक्तः , (दश०टी०) तथा भूतरूपा इति वा पुनर्वदत्, भूतानि रूपाणि-अबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति सूत्राऽर्थः / / 33 / / (दश० दी०) तहेव' त्ति सूत्र, तथा ओषधयः' शाल्यादिलक्षणाः, पक्वा इति, तथा नीलाश्छवय इति वा वल्लचवलकादि फललक्षणाः तथा 'लवनवत्यो ' लवनयोग्याः 'भर्जनवस्य' इति भर्जनयोग्याः तथा पृथुकभक्ष्या' इति पृथुकभक्षणयोग्याः नो वदेदिति सर्वत्राभिसम्बध्यते, पृथुका अर्धपक्क शाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्राऽर्थः / / 34 // प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह- 'रूढ' त्ति सूत्रं, 'रूढाः' प्रादुर्भूताः ‘बहुसम्भूता' निष्पन्नप्रायाः 'स्थिरा' निष्पन्नाः 'उत्सृता' इति उपघातेभ्यो निर्गता इति वा, तथा गर्भिता' अनिर्गतशीर्षकाः 'प्रसूता' निर्गतशीर्षकाः संसाराः सञ्जाततन्दुलादिसारा इत्येवमालपेत्,पक्वाद्यर्थयोजना स्वधिया कार्येति सूत्राऽर्थः / / 3 / / वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाहतहेव संखहिं नच्चा, किच्चं कज्जंति नो वए। तेणगं वाविवज्झि त्ति, सुतित्थि त्ति अ आवगा / / 36|| संखडिं संखडिं बूआ, पणिअहि त्ति तेणगं / बहुसमाणि तित्थाणि, आवगाणं विआगरे।।३७।। 'तहेट' त्ति सूत्र, तथैव 'संखडि ज्ञात्वा' सखण्ड्यन्ते, प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सखड़ी ता ज्ञात्वा, करणीये' ति पित्रादिनिमित्तं कृत्यैवैषेति नो वेदत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनक वापिबध्य इति नो वदेत् तदनुमतत्वेन निश्चयाऽऽदिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाद् दुस्तीर्था इति वा 'आपगा' नद्यः केनचित्पृष्टः सन्नो वदेत्, अधिकरणविघाताऽऽदिदोषप्रसङ्गादिति सूत्राऽर्थः // 36|| प्रयोजने पुनरेव वदेदित्याह- 'संखडि ति' सूत्रम्, सखडिं सस्खडिं ब्रूयात्, साधुकथनाऽऽदी सङ्कीर्णा सङ्खडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत, शैक्षकाऽऽदिकर्मविपाकदर्शनाऽऽदौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि आपगाना' नदीनां व्यागृणीयात् साध्वादिविषय इति सूत्राऽर्थः / / 37 / / वाग्विधिप्रतिषेधाधिकार एवेदमाह तहा नईओ पुण्णाओ, कायतिज त्ति नो वए। नावाहिं तारिमाउ त्ति, पाणिपिज्ज त्ति नो वए॥३८|| बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा। बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं / / 3 / / तहेव सावज्जं जोगं, परस्सट्ठा अनिट्टि। कीरमाणं ति वा नच्चा, सावज्जं न लवे मुणी / / 4 / / 'तहा नईउ ति' सूत्र, तथा नद्यः ‘पूर्णा भृता इति नो वदेत् प्रवृत्तः श्रवणनिवर्तनाऽऽदिदोषात्, 'तथा कायतरणीयाः' शरीरतरणयोग्या इति नो वदेत, साधुवचनतोऽविघ्नमिति प्रवर्तनाऽऽदिप्रसङ्गात् तथा नौभिः द्रोणीभिस्तरणीयाः तरणयोग्याइत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेयाः तटस्थप्राणिपेया नो वदेदिति, तथैव प्रर्वत्तनाऽऽदिदोषादिति सूत्रार्थः / / 384aa प्रयोजनेतु साधुमार्गकथनाऽऽदावेवं भाषेतत्याह-बहु-वाहड त्ति' सूत्र, बहुभृताप्रायशो भृता इत्यर्थः, तथा 'अगाधा इति' बहगाधाः प्रायोगम्भीराः, तथा 'बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा विस्तीर्णोदकाश्च' स्वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, नतुतदाऽऽगतपृष्टो न वेदम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषाऽऽदिदोषप्रसङ्गादिति सूत्रार्थः // 3 // वाग्विधिप्रतिषेधाधिकार एवेदमाह-'तहेव त्ति' सूत्र, तथैव 'सावध' सपापं 'योग' व्यापारमधिकरणं सभाऽऽदिविषय 'परस्यार्थाय' परनिमित्त निष्ठित निष्पन्नं तथा 'क्रियमाणं वा वर्तमानं, वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सावधं नाऽऽलपेत्,' सपापं न ब्रूयात् 'मुनिः साधुरिति सूत्रार्थः // 40 // तत्र निष्ठितं नैवं ब्रूयादित्याहसुकडि त्ति सुपक्कि त्ति, सुच्छिन्ने सुहडे मडे / सुनिट्ठिए सुलहित्ति, सावजं वजए मुणी॥४१।। पयत्तपक्क त्ति व पक्कमालवे, पयत्तछिन्न त्ति व छिन्नमालवे। पयत्तलट्ठित्ति व कम्महेउअं, पहारगाढ त्ति व गाढमालवे // 42 / / 'सुकडि त्ति' सूत्रं, 'सुकृत' मिति सुष्टु कृतं सभाऽऽदि 'सुपच मिति सुष्ठ पकं सहस्रपाकाऽऽदि, 'सुच्छिन्न' मिति सुष्ठ छिन्नं तद्नाऽऽदि' 'सुहृत' मिति सुष्छ हृतं क्षुद्रस्य वित्तं 'सुमृत' इति सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित' मिति सुष्ठु निष्ठित वित्ताभिमानिनो वित्त 'सुलहि त्ति' सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, अनुमत्यादिदोषप्रसङ्गात्, निरवातुन वर्जयेत्. यथा- 'सुकृत' मिति सुष्टु कृतं वैयावृत्यमनेन 'सुपक्व' मिति सुष्टु पक्वं ब्रह्मचर्य साधोः 'सुच्छिन्न' मिति सुष्टु छिन्नं स्नेहबन्धनमनेन, 'सुहृत' मिति सुष्टु हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्ठमृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित' मिति सुष्टु निष्ठितं कर्माप्रमत्तसयतस्य 'सुलट्ठित्ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीतिसूत्रा