________________ भासा 1546 - अभिधानराजेन्द्रः - भाग 5 भासा दोसो ता कीस पुढवादि नपुंसगत्ते वि पुरिसिस्थिनिद्देसो पयट्टइ, जहा पत्थरो मट्टिआ करओ उस्सा मुम्मुरो जाला वाओ वाउली अबओ अंबिलिआ किमिओ जलूया मक्कोडओ कीडिआ भमरओ मच्छिआ इच्चेवमादि? आयरिओ आह- जणवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति, ण एत्थ दोसो, पंचिंदिएसु पुण ण एयमंगीकीरइ, गोवालाऽऽदीण विण सुद्दिधम्म त्ति विपरिणामसंभवाओ, पुच्छिअसामायारिकहणे वा गुणसंभवादिति" इति सूत्राऽर्थः / / 21 / / किंच- 'तहेव त्ति' सूत्रं, 'तथैव यथोक्तं प्राक् 'मनुष्यम्' आर्याऽऽदिकम् पशुम्' अजाऽऽदिकम् 'पक्षिणं वापि' हंसाऽऽदिकम् 'सरीसृपम् अजगराऽऽदिकं स्थूलः' अत्यन्तमासलोऽयं मनुष्याऽऽदिः, तथा 'प्रमेदुरः' प्रकर्षण मेदः सम्पन्नः, तथा 'बध्यो व्यापादनीय पाक्य इति च नो वदेत्। 'पाक्यः पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत्' नब्रूयात्, तदप्रीतितद्व्यापत्त्याशङ्काऽ5दिदोषप्रसङ्गादिति सूत्राऽर्थः ।।२सा कारणे पुनरुत्पन्न एवं वदेदित्याह'परिवूढ त्ति' सूत्रं, परिवृद्धइत्येनंस्थूलं मनुष्याऽऽदिं ब्रूयात्, तथा ब्रूयादुपचित इति च, संयातः प्रीणितश्चापि महाकाय इति चाऽऽलपेत, परिवृद्ध, पलोपचितं परिहरेदित्यादाविति सूत्राऽर्थः / / 23 / / किं च– 'तहेव त्ति' सूत्र,तथैव गावो 'दोह्या' दोहार्हा दोहसमय आसां वर्तत इत्यर्थ, 'दम्या' दमनीयाः, गोरथका इति च, गोरथका:-कल्होडाः, तथा बाह्याः सामान्येन ये क्वचित्तानाश्रित्य रथयोग्याश्चैत इति नैवं भाषेत प्रज्ञावान् साधुः, अधिकरणलाघवाऽऽदिदोषादिति // 24 // प्रयोजने तु क्वचिदेव भाषेतेत्याह- 'जुव ति' सूत्रं, युवा गौरितिदम्यो गौर्युवेति ब्रूयात,धेनुगा रसदेति ब्रूयात्, रसदा गौरिति, तथा ह्रस्व महल्लकं वापि गोरथकं हस्वं बाह्य महल्लकं वदेत्, संवहनमिति रथयोग्य संवहनं वदेत्, कृचिद्दिगुपलक्षणाऽऽदौ प्रयोजन इति सूत्रार्थः / / 25 / / तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नवं // 26 // अलं पासायखंभाणं, तोरणाण गिहाण अ। फलिहऽगलनावाणं, अलं उदगदोणिणं // 27 // पीढए चंगवेरे (रा) अ, नंगले मइयं सिआ। जंतलट्ठी व नाभी वा, गंडिआ व अलं सिआ।।२८|| आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए। भूओवघाइणिं भासं, नेवं भासिज्ज पन्नवं / / 26 / / तहेव गंतुमुजाणं, पव्ययाणि वणाणि अ। रुक्खा महल पेहाए, एवं भासिज्ज पन्नवं / / 30 / / जाइमंता इमे रुक्खा, दीहवट्टा महालया। पयायसाला विडिमा, वए दरिसणि त्ति अ।३१।। तहा फलाइं पक्काइं, पायखजाइँ नो वए। वेलाइयाई टालाइं, वेहिमाइ त्ति नो वए॥३२॥ असंथडा इमे अंबा, बहुनिव्वडिमाफला। वइज्ज बहुसंभूआ, भूअरूव त्ति वा पुणो // 33 // तहेवोसहिओ पक्काओ, नीलिआओ छवीइ अ। लाइमा भज्जिमाउ त्ति, पिहुखज्ज त्ति नो वए / / 3 / / रूढा बहुसंभूआ, थिरा ओसढा वि अ। गम्भिआओ पसूआओ, संसाराउ त्ति आलवे // 35 / / 'तहेव त्ति' सूत्रं, तथैवेति पूर्ववत्, गत्वा 'उद्यानं' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान गत्वा, तथा वनानि च, तत्र वृक्षान् 'महतो' म्हाप्रमाणान् 'प्रेक्ष्य' दृष्ट्वा नैव भाषेत 'प्रज्ञावान्' साधुरितिसूत्रार्थः / / 26 / / किमित्याह'अल ति’ सूत्रम, 'अलं' पर्याप्ता एते वृक्षाः प्रासादस्तम्भयाः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तयोरलम्, तथा 'तोरणानां' नगरतोरणाऽऽदीनां 'गृहाणां च कुटीरकाऽऽदीनाम्. अलमिति योगः, तथा परिघाऽर्गलानावा वा तत्र नगरद्वारे परिधः, गोपुरकपाटाऽऽदिष्वर्गला, नौः प्रतीतेति, आसामलमेते, वृक्षाः, तथा उदकद्रोणीनाम् अलम, उदकद्रोण्योऽरहट्टजलधारिका इति सूत्रार्थः / / 27 // तथा पीढए त्ति सूत्रं, पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम्, 'सुपां सुपो भवन्तीति' चतुर्थ्यर्थ प्रथमा, एवं सर्वत्र योजनीय, तथा 'चङ्गवेरायेति' चङ्गवेराकाष्ठपात्री, तथा 'नंगले त्ति' लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम्- उप्तबीजाऽऽच्छादन,तथा यन्त्रयष्टये वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्गं, गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिंगरणी) स्थापनी भवतीति सूत्रार्थः // 28|| तथा 'आसणं ति' सूत्रम्, 'आसनम्' आसन्दकाऽऽदि 'शयन' पर्याऽऽदि 'यानं' युग्याऽऽदि भवेद्वा किश्चिदुपाश्रयेवसतावन्यद्-द्वारपात्राऽऽद्येतेषु वृक्षेष्विति 'भूतोपघातिनी' सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः / दोषाश्चात्र तद्वनस्वामी व्यन्तराऽऽदिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात, अनियमितभाषितो लाघवं चेत्येवमादयो योज्याः / / 26 / / अत्रैव विधिमाह-'तहेव त्ति' सूत्र, वस्तुतः पूर्व-वदेव, नवरमेव भाषेत |30|| 'जाइमंत त्ति' सूत्र, जातिमन्त' उत्तमजातयोऽशोकाऽऽदयः अनेकप्रकाराः 'एते' उपलभ्यमानस्वरूपा वृक्षा 'दीर्घवृत्ता' महालयाः दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः प्रजातशाखा उत्पन्नडाला' 'विटपिनः प्रशाखवन्तो वदेदृर्शनीय। इति च / एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः // 31 / / 'तहा फलाणि' ति सूत्र तथा 'फलानि' आम्रफलादीनि पक्कानि' पाकप्राप्तानि तथा, पाकखाद्यानि बद्धास्थीनीति गर्तप्रक्षेपकोद्र-वपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत् / तथा 'वेलो-चित्तानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अबद्धास्थीनि कोमलानीति तदुक्तं भवति, तथा 'द्वैधिकानी' ति पेशीसम्पादनेन द्वै