________________ भासा 1545 - अभिधानराजेन्द्रः - भाग 5 भासा च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः // 6 // तथा- 'अईयम्मि त्ति' सूत्रम्, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवा, तदेवमेतदिति निर्दिशेत्। अन्ये पठन्ति- 'स्तोकस्तोकमिति,' तत्र परिमितया वाचा निर्दिशेदिति सूत्रार्थः // 10 // दश०७अ०२ उ०। (परुषवचनविषयकम्-'तहेव फरुसा भासा' (11) इत्यादिसूत्रम्- ‘फरुसवयण' शब्देऽस्मिन्नेव भागे 1143 पृष्ठे गतम्) (16) अवाच्याभाषामाहतहेव काणं काण त्ति, पंडगं पंडग त्ति वा। वाहिवाविरोगि त्ति, तेणं चोर त्ति नो वए॥१२॥ एएणऽन्नेण अटेणं, परो जेणुवहम्मइ। आयारभावदोसन्न, न तं भासिज्ज पन्नवं / / 13 / / तहेव होले गोलि त्ति, साणे वा वसुलि त्ति अ। दमए दुहए वावि, नेवं भासिज्ज पन्नवं // 14|| अजिए पजिए वावि, अम्मो माउसिअत्ति अ। पिउस्सिए भायणिज त्ति, धूए णत्तुणिअत्ति ||15|| हले हलि त्ति अनि, ति, भट्टे सामिणि गोमिणि। होले गोले वसुलि त्ति, इत्थिनेवमालवे // 16 // नामधिजेण णं बूआ, इत्थीगुत्तेण वा पुणो। जहारिहमभिगिज्झ, आलविज लविज्ज वा / / 17 / / अज्जए पज्जए वावि, वप्पो चुल्लपिउत्ति अ। माउलो भाइणिज्ज त्ति, पुत्ते णत्तुणिअत्ति अ॥१८॥ हे भो हलि त्ति अन्नि त्ति, भट्टे सामिअ गोमिअ। होल गोल वसुलि त्ति, पुरिसं नेवमालवे ||16|| नामधि ण णं बूआ, पुरिसगुत्तेण वा पुणो। जहारिहमभिगिज्झ, आलविज्जलविज्ज वा / / 20 / / 'तहेव त्ति' सूत्रं, तथैवेति पूर्ववत्, ‘काणं ति' भिन्नाक्षं काण इति, तथा 'पण्डकं नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत, अप्रीतिलजानाशस्थिररोगबुद्धिविराधनाऽऽदिदोषप्रसङ्गादितिगाथासर्थः // 12 // 'एएण त्ति' सूत्रम्, एतेनान्येन वाऽर्थेनोक्तेन सता परोयेनोपहन्यते, येन केनचित्प्रकारेण। आचारभावदोषज्ञो यतिर्न तं भाषते प्रज्ञावांस्तर्थमिति सूत्रार्थः / / 13 / / 'तहेव त्ति' सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा या वसुल इति वा द्रमको वा दुर्भगश्चापि नैव भाषेत प्रज्ञावान् / इह होलाऽऽदिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्याऽऽदिवाचका अतस्तत्प्रतिषेध इति सूत्रार्थः॥१४॥ एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याऽऽह- 'अज्जिए त्ति' सूत्रम्, आर्जिके प्रार्जिके वाऽपि अम्ब, मातृष्वसः इति च, पितृष्वसः, भागिने यीति, दुहितः, नष्त्रीति च / एतान्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माताऽऽर्यिका, तस्या अपियाऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः / / 15 / / किं च-'हले हले त्ति' सूत्रम्, हले हले इत्येवमन्ने इत्येवं तथा भट्ट, स्वामिनि, गोमिनि / तथा होले, गोले, वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्साऽऽदिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलाऽऽदिशब्दैरालंपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगतित्प्रद्वेषप्रवचनलाघवाऽऽदय इति सूत्रार्थः 16 / यदि नैवमालपेत्, कथं तालपेदित्याह-'नामधिजेणं ति’ सूत्रं, 'नामधेयेनेति' नाम्नैव एनां ब्रूयात्स्वियं कचित्कारणे यथा देवदत्ते ! इत्येवमादि।नामास्मरणाऽऽदौ गोत्रेण वा पुनर्ब्रयात् स्त्रियं यथा काश्यपगोत्रे ! इत्येवमादि, 'यथार्ह' यथायथं वयोदेशैश्वर्याऽऽद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वा' ईषत्सकृद्धा लपनमालपनमतोऽन्यथा लपनं,तत्र वयोवृद्धा मध्यदेशे ईश्वराधर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यदिना, अन्यथा च यथा न लोकोपघात इति सूत्रार्थः / / 17 / / उक्तः स्त्रियमधिकृत्याऽऽलपनप्रतिषेधो विधिश्च। साम्प्रतं पुरुषमाश्रित्याऽऽह- 'अज्जए त्ति' सूत्रम् / "आर्यकः प्रार्यकञ्चापि, वप्पश्चुल्लपितेति च। तथा मातुल भागिनेयेति पुत्र नप्त इतिच, इह भावार्थः स्त्रियामिव द्रष्टव्यः,नवरं चुल्लवप्पः पितृव्योऽभिधीयत इति सूत्रार्थः // 18 // किं च 'हे भो त्ति' सूत्रं, हे भो हले ति। 'अन्ने त्ति' भर्तः ! स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति। अत्रापि भावार्थः पूर्ववदेवेति सूत्रार्थः / / 16 / यदि नैवमालपेत्, कथं तालपेदित्याह- 'नामधिज्जेण ति' सूत्र, व्याख्या पूर्ववदेव,नवरं पुरुषाभिलापेन योजना कार्येति॥२०॥ पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं। जावणं न विजाणिज्जा, ताव जाइ त्ति आलवे // 21 // तहेव माणुसं पसुं, पक्खि वावि सरीसवं। थूले पमेइले वज्झे, पायमि त्ति अनो वए।।२२।। परिवूढ त्तिणं बूआ, बूआ उवचिअत्ति अ। संजाए पीणिए वावि, महकाय त्ति आलवे // 23|| तहेव गाओ दुज्झाओ, दम्मा गोरहग त्ति अ। वाहिमा रहजोगि त्ति, नेवं भासिज्ज पन्नवं // 24 // जुवं गवि त्तिणं बूआ, धेणुं रसदय त्ति अ। रहस्से महलए वावि, वए संवहाणि त्ति अ॥२५॥ 'उक्तः पुरुषमप्याश्रित्याऽऽलपनप्रतिषेधो विधिश्च / अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह- 'पंचिंदिआण त्ति' सूत्रं, 'पञ्चेन्द्रियाणां' गवादीनां प्राणिनां 'क्वचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नाऽऽदौ प्रयोजने उत्पन्ने सति जातिमिति जातिमाश्रित्याऽऽलपेत्, अस्मानोरूपजातात्कियदूरणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसंभवान्मृषावादाऽऽपत्तिः, गोपालाऽऽदीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौतुवृद्धविवरणादवसेयौ। तच्चेदम्-"जइलिंगवचए