________________ भासा 1544 - अभिधानराजेन्द्रः - भाग 5 भासा आत्मार्थमात्मप्रयोजनं, परार्थं वा परप्रयोजनम् (उभयस्स राि) आत्मनः परस्य च, प्रयोजनमिति गम्यते / (अंतरेण व त्ति) विना वा / प्रयोजनमित्युपस्कारः, भाषादोष परिहरेदित्यनेनैव गते पृष्टविषयत्वादस्याः पौनरुक्त्य, यद्वा-भाषादोषो जकारमकाराऽऽदिरेवतत्र गृह्यते इति न दोषः, सूत्रद्वयेन चानेन वाग्गुप्त्यभिधानतश्चारित्रविनय उक्त इति सूत्रार्थः / उत्त० पाई०१ अ०॥ (अन्यैर्भाषमाणोऽपि न कटुका भाषां वदेदिति 'धम्म' शब्द चतुर्थभागे 2704 पृष्ठे गतम्) चउण्हं खलु भासाणं, परिसंखाय पन्नवं / दुहं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो॥१॥ चतसृणां खलु भाषाणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति, भाषाणां सत्याऽऽदीनां परिसंख्याय सर्वः प्रकारैः ज्ञात्वा, स्वरूपमिति वाक्यशेषः / प्रज्ञावान् प्राज्ञो बुद्धिमान साधुः, किमित्याह- द्वाभ्यां सत्याऽसत्यामृषाभ्यां, तुरवधारणे, द्वाभ्यामे - वाभ्या, विनयं शुद्धप्रयोग, विनीयतेऽनेन कर्मेति कृत्वा, शिक्षेत् जानीयात्, द्वे असत्यासत्यामृषेन भाषेत, सर्वशः सर्वैः प्रकारैरिति सूत्रार्थः / / 1 / / विनयमेवाऽऽहजाय सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिँ णाइन्ना, न तं भासेज पन्नवं / / 2 / / या च सत्या पदार्थतत्त्वमङ्गीकृत्य अवक्तव्या अनुच्चारणीवा सावद्यत्वेन, अमुत्र स्थिता पल्लीति कौशिकभाषावत्, सत्यामृषा वा यथा-दश दारका जाता इत्येवलक्षणा, मृषा च संपूर्णव, चशब्दस्य व्यवहितः संबन्धः, याच बुद्धस्तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वराऽऽदिना प्रकारेण, नैना भाषेत नेत्थंभूतां वाचमुदाहरेत्, प्रज्ञावान् बुद्धिमान् साधुरिति सूत्रार्थः / / 2 / / यथाभूता अवाच्या भाषा तथा भूतोक्ता। साम्प्रतं यथाभूता वाच्या तथाभूतामाहअसचमोसं सच्चं च, अणवज्जमकक्कसं। समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं // 3 // असत्यामृषाम् उक्तलक्षणां, सत्यां चोक्तलक्षणामेव, इयं च सावद्याऽपि कर्कशाऽपि भवत्यत आह- असावद्यामपापाम्, अकर्कशामतिशयोक्त्या ह्यमत्सरपूर्वा संप्रेक्ष्य स्वपरोपकारिणीति बुद्धयाऽऽलोच्य असंदिरद्धां स्पृष्टामक्षेपेण प्रतिपत्तिहेतु गिरं वाचं भाषेत्ब्रूयात्, प्रज्ञावान बुद्धिमान् साधुरिति सूत्रार्थः // 3 // साम्प्रतं सत्यासत्यामृषाप्रतिषेधार्थमाहएअंच अट्ठमन्नं वा, जंतु नामेइ सासयं / स भासं सच्चमोसं पि, तं पि धीरो विवजए / / 4 / / 'एअं च त्ति' सूत्रम् / एतं चार्थम् अनन्तरप्रतिषिद्ध सावधकर्कशविषयम् 'अन्य वा' एवंजातीयं, प्राकृतशैल्या 'यस्तु नामयति शाश्वतं' य एव कश्चिदर्थो नामयति-अननुगुणं करोति-शाश्वतमोक्षं तमाश्रित्य 'सः' साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषा 'सत्यामृषामपि' | पूर्वोक्ताम, अपिशब्दात्सत्याऽपि या तथा भूता तामपि धीरो' बुद्धिमान् "विवर्जयेत्' न ब्रूयादिति भावः / आह-सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थ सूत्रमिति / उच्यतेमोक्षपीडाकर सूक्ष्ममप्यर्थमङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः / / 4 / / साम्प्रतं मृषाभाषासंरक्षणार्थमाहवितह पि तहामुत्तिं, जं गिरं भासए नरो। तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए?||५|| तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ। अहं वाणं करिस्सामि, एसो वा णं करिस्सइ॥६॥ एवमाइ उ जा भासा, एस कालम्मि संकिआ। संपयाइअमटे वा, तं पि धीरो विवज्जए|७|| 'वितहं पित्ति' सूत्र, 'वितथम्' अतथ्यं 'तथामूर्त्यपि' कथञ्चितत्स्वरूपमपि वस्तु, अपिशब्दस्यव्यवहितः संबन्धः--एतदुक्तं भवतिपुरुषनेपथ्यस्थितवनिताऽऽद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति वेत्यादिरूपा, 'तस्माद्' भाषणादेवभूतात्पूर्वभवासौ वक्ता भाषणाभिसंधिकाले 'स्पृष्टः पापेन' बद्धः कर्मणा, किं पुनर्यो मृषा वक्ति भूतोपघातिनीं वाचं?.स सुतरांबद्धयत इति सूत्रार्थः / / 5 / / तम्ह त्ति सूत्र, यस्माद्वितथं तथा मूर्त्यपि वस्त्वगीकृत्य भाषमाणो बद्ध्यते, तस्मादमिष्याम एयश्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदोषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं चेदं लोचाऽऽदि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणाऽऽदि करिष्यत्येवेति सूत्रार्थः / / 6 / / एवमाइ त्ति' सूत्रम्, एवमाद्या तुया भाषा आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्काले भविष्यकालविषया, बहुविघ्नत्वात् मुहूर्ताऽऽदीनां 'शङ्किता' किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपिया शङ्किता, साम्प्रतार्थ स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थे-- ऽप्येवमेव बलीवर्दतत्स्याद्यनिश्चयें तदाऽत्र गौरस्माभिर्दृष्ट इति / याऽप्येवंभूताभाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्वयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विघ्नतोऽगमनाऽऽदौ गृहस्थमध्ये लाघवाऽऽदिप्रसङ्गात्, सर्वभव सावसरं वक्तव्यम्, इति सूत्रार्थः / / 7 / / किंचअईअम्मि अ कालम्मि, पच्चुप्पण्णमणागए। भमटुं तु न जाणिज्जा, एवमेअंति नो वए|८|| अईअम्मि अकालम्मि, पच्चुप्पण्णमणागए। जत्थ संका भवे तंतु, एवमेअंतिनो वए||६ अईयम्मि अकालम्मि, पच्चुप्पण्णमणागए। निस्संकिअं भवे जंतु, एवमेअंतु निदिसे ||10|| 'अईयम्मित्ति' सूत्रम्, अतीतेच काले तथा 'प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थतुनजानीयात् सम्यगेवमयमिति,तमड़ीकृत्य एवमेतदितिनबूयादिति सूत्रार्थः / अयमज्ञातभाषणप्रतिषेधः॥८॥ तथा-'अईयम्मित्ति' सूत्रम्, अतीते