________________ भासा 1543 - अभिधानराजेन्द्रः - भाग 5 भासा काभेदः स्तुत्याघर्षवत्। एतानेव भेदान् व्याख्यातुकामः प्रश्न निर्वचनसूत्राण्याह- 'से कि त खंडभेदे?' इत्यादि पाठसिद्ध,नवरमनुतटि-काभेदे अवटाः कूपाः, तडागानिप्रतीतानि, हृदा अपि प्रतीताः, नद्योगिरिनद्यादयः, वाप्यः- चतुरखाऽऽकाराः, ता एव वृत्ताऽऽकाराः पुष्करिण्यःदीर्घिकाः-ऋज्व्यो नद्यः वक्रा नद्यो गुञ्जालिकाः बहूनि केवलकेवलानि पुष्पप्रकरवत् विप्रकीर्णानि सरांसि तान्येव एकैक पड्क्त्या व्यवस्थितानि सरः पड्क्तयः येषु सरस्सु पड्क्त्या व्यवस्थितेषु कूपोदकं प्रणालिकया सञ्चरति सा सरः सरः पड्क्तिः , अप्रतीता भेदा लोकतः प्रत्येतव्याः, अल्पबहुत्वं सूत्रप्रामाण्यात् तथेति प्रतिपत्तव्यं, युक्तेविषयत्वात्, शेषं सूत्रं,सर्वमपि पाठसिद्धं, 'जाव कतिविहे ण भंते ! वयणे पण्णत्ते' इति। तत्रैकवचनं पुरुष इति, द्विवचनं पुरुषाविति, बहुवचन पुरुषा इति, स्त्रीवचनमिय स्त्री, पुरुषवचनमयं पुमान्, नपुंसकवचनमिदं कुण्डम्, अध्यात्मवचनं यदन्यच्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यद् विभणिषुरपि सहसा यचेतसि तदेव ब्रूते / उपनीतवचनंप्रशंसावचनं यथा रूपवतीय स्त्री, अपनीतवचनंनिन्दावचनं यथेयं कुरूपा स्त्री, उपनीतापनीतवचनयत्प्रशस्य निन्दति, यथा रूपवतीयं स्त्री परं दुःशीला, अपनीतोपनीतवचनंयन्निन्दित्वा प्रशंसति यथेयं कुरूया परं सुशीलेति, अतीतवचनमकरोदित्यादि, प्रत्युत्पन्नवचनंवर्तमानकालवचनं करोतीत्यादि, अनागतकालवचनंकरिष्यतीत्यादि, प्रत्यक्षवचनम्- अयमित्यादि, परोक्षवचन- स इत्यादि / एतानि च षोडशापि वचनानि यथावस्थितवस्तुविषयाणि, न काल्पनिकानि ततो यदैतानि सम्यगुपयुज्य वदति तदा सा भाषा प्रज्ञापनी द्रष्टव्या। तथा चाऽऽह- 'इच्चेयं भंते ! एगवयण दुवयणं' इत्यादि भावितार्थम्, अक्षरार्थः प्रतीत एव। सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थ भूयः पठतिकति णं भंते ! भासजाया पण्णत्ता ? गोयमा ! चत्तारि भासजाया पण्णत्ता / तं जहा-सच्चमेगं भासज्जायं बितियं मोसं भासज्जातं तइयं सच्चामोसं भासज्जातं चउत्थं असच्चामोसं भासज्जातं, इच्चेइयाई भंते ! चत्तारि भासजायाइ भासमाणे किं आराहते विराहते ? गोयमा ! इच्चेइयाइं चत्तारि भासजायाई आउत्तं भासमाणे आराहते, नो विराहते, तेण परं असंजतअविरयअपडिहतअपच्चक्खायपावकम्मे सच्चं भासं भासंतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे नो आराहते, विराहते। (सूत्रम्-१७४)। 'कइ णं भंते ! भासजाया पण्णत्ता' इत्यादि सुगम, नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्याऽऽदिरक्षणपरतया भाषमाणः / तथाहि-प्रवचनोडाहरक्षणाऽऽदिनिमित्तं गुरुलाघवपर्यालोचनेन मृषाऽपि भाषमाणः साधुराराधक एवेति / तेण परं' इत्यादि, तत आयुक्तं भाषमाणात्परोऽसंयतो-मनोवाक्कायसंयमविकलोऽविरतो विरमति स्म विरतो न विरतोऽविरतः सायद्यव्यापारादनिवृत्तमना इत्यर्थः, अत एव न प्रतिहतंमिथ्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिनान नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकम येनासायप्रतिहताप्रत्याख्यातपापकर्मा, शेष पाठसिद्धम्। प्रज्ञा० 11 पद। गओ वा ठिओ वा केणइ पुट्ठो निउणं महुरं थोवं कावडियं अगब्वियमतुच्छं निहोस सयलजणमणाणंदकारयं इहपरलो--- गसुहावहं वयणं ण भासेज्जा, अवंदे जइ णं नाभिग्गहिओ सोलसदोसविरहियं पि स सावज्जं भासेज्जा,उवट्ठावणं बहु भासे उवट्ठावणं कसाए हिंसिज्जा, अवंदे कसाएहिं समुइत्तेहिं मुंजे रयणिं वा परिवसेज्जा मासं० जाव मुणव्वए, अवंदे य उवट्ठावणं च परस्स वा कस्सइ कसाएसु मुइरेज्जा, अकसायस्स वा कसायबुद्धिं करेज्जा, मम्मं वा किंचि वालेज्जा, एतेसु गच्छबज्झो फरुसं भासे दुवालसं कक्कसं भासे दुवालसं खरफरुसकक्कसनिठुरमणितुरं भासे उवट्ठावणं दुव्योलं देइ खामणं कलिकिंचं कलह झंझडमरं वा करेज्जा गच्छबज्झो, मगारं जगारं वा वोले खमणं वीयवाराए अवंदे वहंते संधबज्झो, हणंतो संघबज्झो / एवं खणंतो भंजंतो हसंतो लहितो जलिंतो जालायंतो पयंतो पेयावतो, एतेसु सव्वेसु पत्तेगं संघबज्झो / महा०१ चूल। (15) शिष्यस्य वाग्विनयमाहमुसं परिहरे भिक्खू, न य ओहारिणिं वए। भासादोसं परिहरे, मायं च वज्जए सया // 24 // मृषेत्यसत्यं भूतनिहवाऽऽदिपरिहरेत् सर्वप्रकारमपित्यजेत्, भिक्षुर्न च नैव, अवधारणीं गम्यमानत्वाद्वाचं गमिष्याम एव वक्ष्याम एवेत्येवमादि अवधारणाऽऽत्मिकां वदेदाषेत, किंबहुना? भाषादोषमशेषमपि वाग्दूषणं सावधानुमोदनाऽऽदिकं परिहरेत, न च कारणोच्छेदं विनाकार्योच्छेद इत्याह-माया, चशब्दात् क्रोधाऽऽदींश्च तद्धेतून वर्जयेत् सदा सर्वकालम्, इति सूत्रार्थः // 24 // किञ्चन लविज पुट्ठो सावजं, न निरटुं न मम्मयं / अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा / / 25 / / नलपेन वदेत्, पृष्ठ इति पर्यनुयुक्तः, सावा सपापं, न निरर्थम् अर्थविरहितं दशदाडिमाऽऽदि, एष बन्ध्यासुतो यातीत्यादि वा. न नैव, म्रियते अनेन राजाऽऽदिविरुद्धेनोचारिते नेति मर्मतद्गच्छति वाचकतयेति मर्मग, वचनमिति सर्वत्र शेषः / अतिसंक्लेशोत्पादकत्वात्तस्याः। अत्राऽऽह च (दश०७अ०) "तहेव काणं काण त्ति, पंडगं पंडग त्ति वा। वाहिय वावि रोगि त्ति, तेणं चोरो त्ति नो वए / / 12 / / एएणऽन्नेण अट्ठणं, परो जेणुवहम्मई। आयारभावदोसण्णू, न तं भासेज पण्णवं // 13 // "