________________ भासा 1534 - अभिधानराजेन्द्रः - भाग 5 भासा तथापुटिव भंते ! भासा भासिज्जमाणी भासा, भासासमयवीइक्कता | भासा? गोयमा! णो पुव्वि भासा भासिज्जमाणी भासा, णो भासासगयवीइकता भासा। (पुब्विमित्यादि) अत्रोत्तरम् - नो पूर्व भाषणाद्वाषा भवति, मृत्पिण्डावस्थायां घट इव, भाष्यमाणा निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यति-क्रान्ता-भाषासमयेनिसृज्यमानावस्थातो यावद्भाषापरिणाम-समयस्तं व्यतिक्रान्ता या सा तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपात्रावस्थ इत्यर्थः। पुद्वि भंते ! भासा भिज्जइ, मासिज्जमाणी भासा भिज्जति, भासासमयवीइकता भासा भिज्जइ? गोयमा !णो पुटिव भासा मिजइ, भासिज्जमाणी भासा मिजइ णो भासासमयवीइक्कता भासा मिजइ। (पुवि भंते ! इत्यादि) अत्रोत्तरम् - नो नैव पूर्व निसर्गसमयानाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते। अयमत्रा-भिप्रायःइह कश्चिन्मन्दप्रयत्नो वक्ता भवति, स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्ययाऽऽत्मकत्वात्परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि च सङ्ख्येयानियोजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित् तु महा-प्रयत्नो भवति, स खल्वादानविसर्गप्रयत्नाभ्यां भित्त्वैव निसृजति,तानिच सूक्ष्मत्वाद्वहुत्वाच्च अनन्तगुणवृद्ध्या वर्द्धमानानिषट्सु दिक्षुलोकान्तमाप्नुवन्ति; अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसे या इति / (नो भासासमयबीइकते त्ति) परित्यक्तभाषापरिणामेत्यर्थः, उत्कृष्टप्रयत्नस्य तदानी निवृत्तत्वादिति भावः / भ० 13 श०७ उ०। (10) आह-ननु "पुढे सुणेइ सद्द'' इत्युक्तं भवद्भिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उतान्यान्येव तद्वासितान्याहोस्विन्मिश्राणि? इति / अत्रोच्यते-केवलानि तावन्न शृणोति, वासकरस्वभावत्वाच्छब्दद्रव्याणांतद्योग्यद्रव्याऽऽकुलत्वाच्च लोकस्य, मिश्राणि तु श्रूयेरन् वासितानि वाऽन्यानि। यत आहभासासमसेढीओ, सदं जं सुणइ मीसिअंसुणइ। वीसेढी पुण सद, सुणेइ नियमा पराधाए / / 351 / / भाष्यत इति भाषा, वक्त्रा शब्दत्रयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणयः आकाशप्रदेश, पक्तयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणिषु इतो गतः स्थित इत्यनन्तरं, भाषासमश्रेणितः। इदमुक्तं भवति- भाषकस्य, अन्यस्य वा भेदिः समश्रेणिव्यवस्थितः श्रोता यंशब्द, पुरुषश्च भेर्यादिसंबन्धिन ध्वनि शृणोति, तं मिश्रकशृणोतीत्यवगन्तव्यं,भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्र शब्दद्रव्यराशिं शृणोति, नतुवारसकमेव, वास्यमेव वा केवलमित्यर्थः। (वीसेढी पुणेत्यादि) "मञ्चा | क्रोशन्ति'' इति न्यायाद्विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, सविश्रेणिः पुनः श्रोता शब्दं नियमान्नियमेन पराघाते वासनायां सत्यां शृणोति / इदमुक्तं भवति-यानि भाषकोत्सृष्टानि, मेर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकाऽऽद्युत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनासंभवात्। न च कुड्याऽऽदिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्वादिबादरद्रव्याणामेव तत्संभवात्, एषां च सूक्ष्मत्वात्। न च वक्तव्य-द्वितीयाऽऽदिसमयेषु तेषां स्व-यमपि विदिक्षु गमनसंभवात्तत्रस्थस्यापि मिश्रशब्दश्रवणसंभव इति; निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनानवस्थानात् "भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषा अभाव" इति वचनात्। यदिप-"चउहिँ समएहि लोगो भासाएँ निरंतरं तु होइ फुडो।" इति वक्ष्यति, तत्रापि द्वितीयाऽऽदिसमयेषु भाषाद्रव्यैर्वासितत्वात्तेषां भाषात्वं दृष्टव्यम् / अत्राऽऽह- ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते, तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग्विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति, अविशेषणैव सर्वोऽपि शब्द शृण्वन्नुपलभ्यते। नैष दोषः, समयाऽऽदिकाल भेदस्याऽतिसूक्ष्मत्वेनालक्षणादिते / भवत्येवं, तथाऽपि ''भाष्यमाणैव भाषा" इति वचनाद् निसर्गसमयवर्तिन्येवभाषा, ततो विश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोतीत्यायातम्। नैतदेवं, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तद्विशेषत्वाद्भाषात्वं न विरुध्यते। अत एव- "वीसेढी पुण सई' इत्यत्र पुनरपि यच्छब्दग्रहणं तत्पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतमिति तावद्वयमवगच्छामः, तत्त्वं तु बहुश्रुताऽऽदयो विदन्तीति। घ्राणाऽऽदीन्यपीन्द्रियाणि गन्धाऽसदिद्गव्याणि मिश्राण्याददते, तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात्, वातायनोपलभ्यमानरेणुवदिति वृद्धटीकाकारः / इति नियुक्तिगाथाऽर्थः // 351 // अत्र भाष्यम्सेढी पएसपंती, वदतो सव्वस्स छदिसिंताओ। जासु विमुक्का धावइ, भासा समयम्मि पढमम्मि॥३५२।। इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुः ताः पूर्वापरदक्षिणोत्तरोधिोरूपासु षट्स्वपि दिक्षु सन्त्येव / भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति // 352 / / ततः किम्? इत्याहभासासमसेढि * ठिओ, तब्भासामीसियं सुणइ सदं / तद्दव्यभाविआई अण्णाइंसुणइ विदिसत्थो।।३५३|| भाषासमश्रेणीत इति, किमुक्तं भवति? इत्याह- भाषासमश्रेणिस्थितः। स किमित्याह- तस्य भाषकस्य शनभेदिर्वाभाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तन्मिश्रितं शब्दं शृणोति विदिग्व्यवस्थितः पुनः श्रोता तद्रव्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि॥३५३।। * 'ढीओ' (353) इदमपि युक्तं प्रतिभाति।