________________ भासा 1533 - अमिधानराजेन्द्रः - भाग 5 भासा "पाणिवहाउ नियत्ता, हवंति दीहोउया अरोगा या एसमई पन्नत्ता, पन्नवणी वीयरागेहिं / / 1 / / ' 5, याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी 6, इच्छानुलोमा नाम यथा कश्चिकिंचित् कार्यमारभमाणः कञ्चन पृच्छति, स प्राह- करोतु भवान् ममाप्येतदभिप्रेतमिति 7 / अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुषु कार्येष्यवस्थितेषु कश्चित्कञ्चन पृच्छति-किमिदानीं करोमि? स प्राह- यत्प्रतिभाषते तत्कुर्विति 8, अभिगृहीता प्रतिनियतार्थाऽवधारणं, यथा इदमिदानी कर्त्तव्यमिदं नेति 6, संशयकरणी या वाक् अनेकार्थाऽभिधायितया पररय संशयमुत्पादयति यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दोऽलवणवस्त्रपु-रुषवाजिषु 10, व्याकृता या प्रगटार्था 11, अव्याकृता अतिगम्भीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अभावितार्थत्वात् 12 / शेषं सुगमम् / प्रज्ञा० 11 पद / (नैरयिकादीनां भाषकत्वाभाषकसूत्रम्-१६६, 'भासग' शब्देऽस्मिनेव भागे गतम्) जीवानां सत्यादिभाषा निरूपयन्नाहजीवा णं भंते ! किं सचं भासं भासंति मोसं भासं भासंति सामोसं भासं भासंति असचामोसं भासं भासंति? गोयमा ! जीवा सच्च पि भासं भासंति०जाव असच्चा मोसं पि भासं भासंति।नेरइया णं भंते? किं सच्चं भासंतिजाव असच्चामोसं भासं भासंति? गोयमा! नेरइया णं सच्चं पि भासं भासंतिजाव असच्चा मोसं पि भासं भासंति / एवं असुरकुमारा०जाव थणियकुमारा, वेइंदिय-तेइंदिय-चउरिंदिय य नो सच्चं नो मोसं नो सच्चामोसं भासं भासंति, असचामोसं भासं भासंति। पंचिंदियतिरिक्खजोणिया णं भंते ! किं सच्चं भासं भासंतिक जाव किं असच्चामोसं भासं भासंति? गोयमा ! पंचिंदियतिरिक्खजोणिया णो सच्चं भासं भासंति, नो मोसं भासं भासंति नो सच्चामोसं भासं भासंति एगं असच्चा मोसं भासं भासंति णण्णत्थ सिक्खापुव्वगं उत्तरगुणलद्धिं वा पडुच्च सच्चं पि भासं भासंति मोसं पि भासं भासंति, सच्चामोसं पि भासं भासंति असचा मोसं पि भासं भासंति। मणुस्सा जाव वेमाणिया, एते जहा जीवा तहा भाणियव्वा / (सूत्रम्- 167) / 'जीवा णं भंते ! कि सच्चं भासभासं ति' इत्यादि, सुगम नवरं द्वित्रिचतुरिन्द्रियेषु सत्यादिभाषात्रयप्रतिषेधः तेषां सम्यक् परिज्ञानपरवञ्चनाद्यभिप्रायासम्भवात् तिर्यक्रपञ्चेन्द्रिया अपि न सम्यक् यथावस्थितवस्तुप्रतिपादनाभिप्रायेण भाषन्ते नापि परविप्रतारणबुद्ध्या किं तु यदा भाषन्ते / तदा कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्ते ततस्तेषामपि भाषा असत्यामृषा, किं सर्वेषामपि तेषामसत्यामृषा? नेत्याह- "नन्नत्थेत्यादि'' सत्यादिकां भाषां न भाषन्ते शिक्षादेरन्यत्र, शिक्षापूर्वकं पुनः शुकसारिकादयः संस्कारविशेषास्तथा कुतश्चित्तथाविधक्षयोपशमविशेषाजातिस्मरणरूपां विशिष्टव्यवहारकौशलरूपां वा लब्धिप्रतीत्य सत्याऽऽदिकां चतुर्विधामपि भाषा भाषन्ते शेष / सुगमम्। प्रज्ञा०११ पद। (7) भाषाऽऽत्मस्वरूपाऽनात्मस्वरूपा वेतिनिरूपणमआया भंते ? भासा, अण्णा भासा? गोयमा! णो आया भासा, अण्णा भासा (आया भंते ! भास ति) षत्येकाक्वाऽध्येयम् / आत्मा जीवो भाषा, जीवस्वभावा भाषेत्यर्थः / यतोजीवेन व्यापार्यतेजीवस्य च बन्धमोक्षार्था भवति, ततो जीवधर्मत्वाजी च इति व्यपदेशाहाँ ज्ञानवदिति, अथान्या भाषा न जीवस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्त्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्का अतः प्रश्नः, अत्रोत्तरम्-(नो आया भास ति।) आत्मरूपा नासो भवति, पुद्गलमयत्वादात्मना च निसृज्यमानत्वात्तथाविधलोष्ठाऽऽदिवत् अचेतनत्वाच्चाऽकाशवत् / यच्चोक्तम्- जीवेन व्यापार्यमाणत्वाजीवः स्याज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि तत्रादौ दर्शनादिति। रूविं भंते ! भासा, अरूवि भासा? गोयमा ! रूविं भासा, णो अरविं भासा।। (रूवि भंते ! भास ति) रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहो - पघातकारित्वात् तथाविधकर्णाऽऽभरणाऽऽदिवत्, अथाऽरूपिणी भाषा चक्षुषाऽनुपलभ्यमानत्वाद्ध स्तिकायाऽऽदिवदिति शङ्काऽतः प्रश्नः, उत्तरं तु रूपिणी भाषा / यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्त तदनैकान्तिकं, परमाणुवायुपिशाचाऽऽदीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति। (8) अनात्मरूपाऽपि सचित्ताऽसौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाहसचित्ता भंते ! भासा, अचित्ता भासा ! गोयमा ! णो सचित्ता भासा, अचित्ता भासा॥ (सचित्तेत्यादि) उत्तर तुनो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्। तथाजीवा भंते ! भासा, अजीवा भासा? गोयमा! णो जीवा भासा, अजीवा भासा।। (जीवा भते ! इत्यादि) जीवतीति जीवा प्राणधारणस्वरूपा भाषा, उतैतद्विलक्षणेति प्रश्नः / अत्रोत्तरम् - 'नोजीवा' उच्छासाऽऽदिप्राणानां तस्या अभावादिति। (E) इह कैश्चिदभ्युपगम्यते, अपौरुषेयी वेद भाषा, तन्मतं मनस्याधायाऽऽहजीवाणं भंते ! भासा, अजीवाणं भासा ? गोयमा ! जीवाणं भासा, णो अजीवाणं भासा।। (जीवाणमित्यादि) उत्तरं तु जीवानां भाषा, वर्णानां ताल्वादिव्यापारजन्यत्वात्ताल्वादिव्यापारस्य च जीवाऽऽश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते, तथापि नाऽसौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति।