________________ भावणा १५१२-अभिधानराजेन्द्रः - भाग 5 भावणा सम्प्रति प्रशस्तभावना अभिधित्सुराहतवेण सुत्तेण, एगत्तेणं बलणे य। तुलणा पंचहा वुत्ता, जिणकप्पं पडिवन्नओ।।५३०।। वृ० 1 उ० 2 प्रकला विशे०। व्या पं०व० ध०। (व्याख्या 'जिणकप्प' शब्दे 4 भागे 1466 पृष्ठे गता) (6) मैत्र्यादिकाश्चतुर्विधा अपि भावनाःइति चेष्टावत उच्चै-विशुद्धभावस्य सद्यतेः क्षिप्रम् / मैत्रीकरुणामुदितो-पेक्षाः किल सिद्धिमुपयान्ति॥७॥ इत्येवमुक्तप्रकारेण चेष्टावतः साधुचेष्टायुक्तत्त्य उचैरत्यर्थ विशुद्धभावस्थ विशुद्धाध्यवसायस्य सद्यतेः सत्साधोः क्षिप्रमचिरेणैव मैत्रीकरुणामुदितोपेक्षाः पूर्वोक्ताश्चतस्रो भावनाः किल सिद्धिमुपयान्ति, किलेत्यासाऽऽगमवादो, निष्पत्तिं प्रतिलभन्ते // 71 षो० 13 विव०। (7) अथ भवानः पञ्चविंशतिः। तद्यथाइरियासमिए 1 सया जए य, उदेहि मुंजेज व पाणभोयणं 2 / आयाणनिक्खेवदुगंछ 3 संजए, समाहिए 4 संजयए मणो वइं॥५।। 43 / / अहस्स सच्चे 6 अणुवीय भासए 7, जे कोह 8 लोह भयमेव 10 वजए। से दीहरायं समुपेहिया सया, मुणी हु मोसं परिवजए सिया।।११४४|| सयमेव ओग्गहजायणे घडे, मइमम्मि सम्मा 12 सइ भिक्खुउग्गहं 13 अणुन्नवि य भुंजीय पाणभोयणं 15, जाइत्तु साहम्मियाण भोयणं / / 15 / / / / 45|| आहारगुत्तो 16 अविभूसियप्पा 17, इत्थिं न निज्झाएँ 18 न संथवेज्जा 16 / बुद्धे मुणी खुड्डकहं न कुजा 20, धम्माणुप्पेही संधए बंभचेरं / / 46|| जे सद्द 21 व 22 गंध 23 मागए 24, फासे य संपप्प मणुण्णपावर 25 / गेहिप्पओसं न करेज्ज पंडिए, से होइ देतं विरए अकिंचणे !47 / / प्राणातिपाताऽऽदिनिवृत्तिलक्षणमहाद्रतानां दायाऽऽपादनार्थ भाव्य- | न्तेऽभ्यस्यन्ते इति भावनाः, अनभ्यस्यमानाभिर्भावनाभिरनभ्यस्यमानविद्यावन्मलीमसीभवन्ति महाव्रतानीति। ताश्च प्रतिमहाव्रतं पञ्च पञ्च भवन्ति / तत्र प्रथममहाव्रतस्य ताः कथ्यन्ते- ईरणं ईर्या गमनं, तत्र समित उपयुक्तः, असमितो, हि प्राणिनो हिंस्यादिति प्रथमा भावना। तथा सदा सर्वकालं यतः सम्यगुपयुक्तः सन् 'उवेहि त्ति' अवलोक्य भुञ्जीत, वाशब्दाद् गृह्णीत वा, पानभोजनम्। अयमर्थः- प्रतिगृहं पात्रमध्यपतितः पिण्डश्चक्षुराद्युपयुक्तेन तत्समुत्थाऽऽगन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः, आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षित पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन भोक्तव्यम्, अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया। तथा आदाननिक्षेपौ पात्राऽऽदेहणमोक्षावागमप्रतिबद्धौ जुगुप्सति न करोतीति आदाननिक्षेपजुगुप्सकः, आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादाननिक्षेपौ करोतीत्यर्थः। जुगुप्सको हि सत्त्वव्यापादनं विदध्यादिति तृतीया। तथा संयतः साधुः समाहितः समाधानपरः सन् संयततेप्रवर्तयत्यदुष्ट मनो, दुष्ट हि मनः क्रियमाणं कायसंलीनताऽऽदिकेऽपि सति कर्मबन्धाय सम्पद्यते। श्रुयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुप्त्यभाविताऽहिंसाव्रतो, हिंसामकुर्वन्नपि सप्तमनरकपृथ्वीयोग्यं कर्म निर्मितवानिति चतुर्थी। एवं वाचमप्यदुष्टां प्रवर्तयेत्, दुष्टां प्रवर्तयन् जीवान् विनाशयेदिति पञ्चमी / तत्त्वार्थे तु अस्याः स्थाने एषणासमितिलक्षणा भावना भंणिता। इति प्रथमव्रतभावनाः पञ्च। अथ द्वितीयमहाव्रतभावना भण्यन्ते-अत्र हास्यं परिहरति सत्यः सत्यवाक्, हास्येन ह्यनृतमपि ब्रूयादिति प्रथमा। तथा अनुविचिन्त्य सम्यग्ज्ञानपूर्वक पर्यालोच्य भाषको वक्ता, अनालोचितभाषी हि कदाचिन्मृषाऽप्यभिदधीत, ततश्वाऽत्मनोवैरपीडाऽऽदयः सत्त्वोपधातश्च भवेदिति द्वितीया / तथा यः क्रोध लोभ भयमेव वा वर्जयेत् परिहरेत् स एव मुनिर्दीर्घरात्रि मोक्षं समुपेक्षिता सामीप्येन मोक्षावलोकनशीलः सन् सदा सर्वकालं 'हु' निश्चयेन 'मोस' ति अनुस्वारस्यालाक्षणिकत्वान्मृषापरिवर्जकः 'सिया' स्यात् / अयमर्थः - क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किशन भाषी मृषाऽपि भाषते / अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया 3 तथा लोभाभिभूतचित्तोऽप्यत्यर्थकाङ्क्षया कूटसाक्षित्वाऽऽदिना वितथभाषी भवति, अत्र सत्यवतमनुपालयता लोभः प्रत्याख्येय इति चतुर्थी 4 / तथा भयार्त्तः प्राणाऽऽदिरक्षणेच्छया सत्यवादितां व्यभिचरति, ततो निर्भयवासनाऽऽधानमात्मनि विधेयमिति पञ्चमी 5 / इति द्वितीयमहाव्रतभावना। अथ तृतीयमहाव्रतभावना : प्रोच्यन्ते- तत्र स्वयमेवाऽऽत्मनेव, न तुपरमुखेन साधुः प्रभुंप्रभुसन्दिष्टवा सम्यक्परिज्ञाय अवग्रहस्य देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदभिन्नस्य याचने याञ्चायां प्रवर्तत, परमुखेन हि याचनेऽस्वामियाचने च परस्य विराधेन च अकाण्डघटनाऽऽदयोऽदत्तपरिभोगाऽऽदयश्च दोषा इति प्रथमा 1 / तथातत्रैवानुज्ञापितावग्रहे तृणाऽऽदिग्रहणार्थ मतिमान घटेत चेष्टेत निशम्याऽऽकविग्रहप्रदातुस्तृणाऽऽद्यनुज्ञावचनम्, अन्यथा तददत्तं स्यादिति द्वितीया शतथा रादा सर्वकालं भिक्षुरवग्रहस्पष्टमर्यादया याचेत् / अयमर्थसकृद्दत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रहयाचनं कर्त्तव्यम्। पूर्वलब्धेऽवग्रहे ग्लानाऽऽद्यवस्थायां मूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दायकचित्तपीडापरिहारार्थ याचनीयानीति तृतीया 3 तथाऽनुज्ञाप्य गुरुमन्य वा भुजीत पानभोजनम्। अयमर्थः- सूत्रोक्तेन विधिना प्राशुकमेषणीय लब्धमानीयाऽऽलोचनापूर्वं गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्ड