________________ भावणा 1511- अभिधानराजेन्द्रः - भाग 5 भावणा अथ धर्मकथकोऽर्हन्निति भावना''अर्हन्तःकेवलाऽऽलोका-ऽऽलोकिताऽऽलोकलोककाः / यथार्थ धर्ममाख्यातुं, पटिष्ठा न पुनः परे / / 1 / / वीतरागा हि सर्वत्र, परार्थकरणोद्यताः। न कुत्राप्यनृतं ब्यु-स्ततस्तद्धर्मेसत्यता॥२॥ क्षान्त्यादिभेदैधर्म च, दशधा जगदुर्जिनाः। यं कुर्वन् विधिना जन्तु-र्भवाब्धौ न निमञ्जति // 3 // पूर्वापरविरुद्धानि, हिंसाऽऽदेः कारकाणि च / वचासि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया।।४।। कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः / धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? / / 5 / / यच्च तत्समये क्वापि, दयासत्याऽऽदिपोषणम्। दृश्यते तद्वचोमात्र, बुधैज्ञेयं न तत्त्वतः॥६॥ यत्प्रोद्दाममदान्धसिन्धुरघट साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं सम्पद्यते वैभवम्। यत्पूर्णेन्दुसमद्युतिगुणगणः सम्प्राप्यते यत् परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् / / 7 / / यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाऽऽकुलो, यत्पृथ्वीमखिलां धिनोति सलिलाऽऽसारेण धाराधरः। यच्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तं निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम्।।। अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्त्तिक्लान्तानां धनमधनभावार्त्तमनसाम्। अनाथानां नाथो गुणविरहितानां गुणनिधिः, जयत्येको धर्मः परमिह हितवातजनकः / / 6 / / अर्हता कथितो धर्मः, सत्योऽयमिति भावयन्। सर्वसम्पत्करे धर्मे धीमान दृढतरो भवेत्॥१०॥" |12|| ''एकामप्यमलाभिमासु (?) सततं यो भावयेद्भावनां, भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम्। यस्त्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादभ्यस्येल्लभते स सौख्यमतुलं किं तत्र कौतूहलम् ? // 1 // " प्रव०६७ द्वार। (4) आत्मभावना द्विधा-द्रव्यतो, भावतश्च। तत्र द्रव्यतस्तावदाहसरवेहआसहत्थीपवगाईया उभावणा दव्वे। अब्भास भावण त्ति य, एगटुं तत्थिमा भावे ||462|| इह धानुष्को यदभ्यासविशेषात्प्रथम स्थूलद्रव्यं, ततो बालबद्धा कपर्दिका, ततः सुनिमां, ततः खरेणाऽपि लक्ष्यस्य बेधं करोति। यचाश्वः शीघ्रं शीघ्रतर धावमानः शिक्षावि शेषाद् महदपि गर्ताऽऽदिकं लड यति, हस्ती वा शिष्ययाणः प्रथमं काष्ठानि, ततः क्षुल्लकान् पाषाणान, ततो गोलिका, तदनु बादराणि, तदनन्तरं सिद्धार्थानप्यभ्यासातिशयाद् गृह्णातिाप्लवको वा प्रथमं वंशे विलग्नः सन्प्लवते, ततः पश्चादभ्यस्य नाकाशेऽपि तानि तानि कारणानि करोति / आदिशब्दाच्चित्रकराऽऽदिपरिग्रहः, एताः सर्वा अपि द्रव्यभावनाः। अभ्यास इति वा भावनेति वा एकार्थम् / तत्रैता वक्ष्यमाणलक्षणा भावना भाये मन्तव्याः / / 462 / / ता एवाऽऽहदुविहा उ भावणाओ, असंकिलिट्ठा य संकिलिट्ठाय। मुत्तूण संकिलिट्ठा, असंकिलिट्ठाएँ भावेति / / 463|| द्विविधा भावतो भावनाः- असंक्लिष्टाः शुभाः, संक्लिष्टाश्चाशुभाः / तत्र मुक्त्वा संक्लिष्टभावनाः असंक्लिष्टाभिर्भावनाभिर्भावयति जिनकल्पं प्रतिपित्सुरिति / / 463 / / अथ कास्ताः संक्लिष्टभावना इत्याशङ्काऽपनोदाय तत् स्वरूपमभिधित्सुराहसंखा य परूवणया, होइ विवेगो य अप्पसत्थासु / एमेव पसत्थासु वि, जत्थ विवेगो गुणा तत्थ / / 464|| अप्रशस्तभावनानां संख्या पञ्चेतिलक्षणा निरूपणीया, प्ररूपणा च तासां कर्त्तव्या, तासां चाऽप्रशस्तानां विवेकः परिहारो भवति / एवमेव प्रशस्तास्वपि तपःप्रभृतिभावनासु संख्या प्ररूपणा च वक्तव्या; नवरं (जत्थ विवेगोत्ति) यत्र विवेक इति पदं तत्राप्रशस्ता एव भावना द्रष्टव्यास्ता विवेक्तव्याः परित्याज्या इति भाव्याः (गुणा तत्थि त्ति) यासु प्रशस्ता भावनाः तासु भाव्यमानासुगुणाः खेदविनोदाऽऽदयः प्रागुक्ता भवन्तीति चूर्ण्यभिप्रायेण व्याख्यानम् / विशेषचूर्ण्यभिप्रायः पुनरयम्- यत्र च प्रशस्तेऽपि वस्तुनि विवेकपरित्यागोऽस्य घटते तत्र गुणा भवन्ति, यथाऽऽचार्याऽऽदीनामवर्णभाषणश्रावणे औदासीन्यमवलम्बमानस्याप्यस्य गुण एव भवति, न पुनः स्थविरकल्पिकस्येव यथाशक्ति तन्निवारणमकुर्वतो दोष इति / / 464 // अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाहकंदप्पदेवकिदिवस-अभिओगा आसुरा य संमोहा। एसाय संकिलिहा, पंचविहा-भावणा भणिया।।बृ०|| एषाऽप्रशस्ता पञ्चविधा भावना तत्स्वभावाभ्यासरूपा भणिता॥४६५।। (5) अथासामेव फलमाहजो संजओ वि एआसु अप्पसत्थासु भावणं कुणइ। सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो॥४९६|| यः संयतोऽपि व्यवहारतः साधुरप्येताभिरप्रशस्ताभिविनाभिः, गाथायां तृतीयाऽर्थे सप्तमी। भावनमात्मनो वसनं करोति, स तद्विषयेषु तादृशेषु कान्दर्पिकाऽऽदिषु सुरेषु गच्छति, यस्तु चरणरहितः सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनोवा सभाज्यः तद्विधेषु वा देवेषूत्पद्यते, नरकतिर्यग्मनुष्येषु वा / / 466|| बृ०१ उ०२ प्रका अथाऽऽसां भावनानां सामान्यतः फलमाहएआओं भावणाओ, मावित्ता देवदुग्गई जंति। तत्तो वि चुया संता, पयरिंति भवसागरमणंतं / / 526 / / एता भावना भावयित्वा अभ्यस्य देवदुर्गति कान्दर्पिकाऽऽदिदेवगतिरूपां यान्ति संयता अपि, ततोऽपि देवदुर्गतश्चुताः सन्तः पर्यटन्ति भवसागरं संसारसमुद्रमनन्तमिति। उक्ता अप्रशस्ता भावना।