________________ भावणा १५१०-अभिधानराजेन्द्रः - भाग 5 भावणा वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवौ / वेलम्बः प्रभजनश्च, सुघोषमहाघोषकौ / 12 / / जलकान्तो जलप्रभ-स्ततः पूर्णो विशिष्टकः। अमितो मितवाहन, इन्द्राऽऽग्नेया द्वयोर्दिशोः / / 13 / / अस्या एव पृथिव्या, उपरितने मुक्तयोजनसहरसम्। योजनशतमध उपरिच, मुक्त्वाऽष्टस योजनशतेषु / / 14 / / पिशाचाऽऽद्यष्टभेदानां, व्यन्तराणां तरस्विनाम्। नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः // 15 // पिशाचा भूता यक्षाश्च, राक्षसाः किन्नरास्तथा। किंपुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा॥१६॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् / द्वौ द्वाविन्द्रौ समानातौ, यथासङ्ख्यं सुबुद्धिभिः / / 17 / / कालस्ततो महाकालः,सुरूपः प्रतिरूपकः। पूर्णभद्रो माणिभद्रो, भीमो भीमो महाऽऽदिकः / / 18|| किन्नर किंपुरुषौ स-त्पुरुषमहापुरुषनामको तदनु। अतिकायमहाकायौ, गीतरतिश्चैव गीतयशाः ||16|| अस्या एव पृथिव्या, उपरि च योजनशतं हि यन्मुक्तम्। तन्मध्यादध उपरिच, योजनदशकं परित्यज्य / / 20 / / मध्येऽशीताविह यो-जनेषु तिष्ठन्ति वनचरनिकायाः। अप्रज्ञप्तिकमुख्या अष्टावल्पर्धिकाः किश्चित् / / 21 / / अत्र प्रतिनिकायं च,द्वौ द्वाविन्द्रौ महाद्युती। दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः // 22 // योजनलक्षोन्नतिना, स्थितेन मध्ये सुवर्णमयवपुषा। मेरुगिरिणा विशिष्टे, जम्बूद्वीपे भवन्त्यत्र / / 23 // वर्षाणि भारताऽऽदीनि, सप्त वर्षधरास्तथा। पर्वता हिमवन्मुख्याः , षट् शाश्वतजिनाऽऽलयाः // 24 / / योजनलक्षप्रमिता-ज्जम्बूद्वीपात्परो द्विगुणमानः / लवणसमुद्रः परत-स्तद् द्विगुणद्विगुणविस्ताराः / / 25 / / बोधव्या धातकीखण्ड-कालोदाऽऽद्या असङ्ख्यकाः। स्वयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् // 26 // प्रत्येकरससम्पूर्णा-श्चत्वारस्तोयराशयः। त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः / / 27 / / सुजातपरमद्रव्य-हृद्यमद्यसमोदकः। वारुणीवरवाधिः स्यात्, क्षीरोदजलधिः पुनः॥२८॥ सम्यकथितखण्डाऽऽदि-मुग्धदुग्धसमोदकः। घृतवरः सुतापित-नव्यगव्यघृतोदकः / / 26 / / लवणाब्धिस्तु लवणा-ऽऽस्वादपानीयपूरितः / कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा।।३०।। मेघोदकरसाः किन्तु, कालोदजलधेर्जलम्। कालं गुरुपरिणाम, पुष्करोदजलं पुनः॥३१॥ हित लघुपरिणाम, स्वच्छस्फटिकनिर्मलम्। स्वयम्भूरमणस्याऽपि, जलधेर्जलमीदृशम् // 32|| त्रिभागाऽऽवर्तसुचतु-जतिकेक्षुरसोपमम्। शेषाऽसङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः / / 33 / / समभूमितलादूर्द्ध. योजनशतसप्तके। गते नवतिसंयुक्ते, ज्योतिषां स्यादधस्तलः / / 34 / / तस्योपरि च दशसु, योजनेषु दिवाकरः। तदुपर्यशीतिसङ्ख्य-योजनेषु निशाकरः / / 35 / / तस्योपरि च विंशत्यां, योजनेषु ग्रहाऽऽदयः / स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम्॥३६|| जम्बूद्वीपे भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ। चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः॥३७।। धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि। कालोदे द्विचत्वारिंश चन्द्राः सूर्याश्च कीर्तिताः / / 38 // पुष्कराखें द्विसप्तति-श्चन्द्राः सूर्याश्च मानुषे। क्षेत्रे द्वींत्रिशभिन्दूना, सूर्याणां च शतं भवेत्।।३६।। मानुषोत्तरतः पञ्चा-शद्योजनसहस्त्रकैः / चन्द्ररन्तरिताः सूर्याः, सूर्यरन्तरिताश्च ते॥४०॥ मानुषक्षेत्रचन्द्रार्क-प्रमाणार्धप्रमाणकाः। तत्क्षेत्रपरिधर्वृद्ध्यो, बृद्धिमन्तश्च सङ्ख्यया।।४१।। स्वयम्भूरमणं व्याप्य, घण्टाकारा असंख्यकाः। शुभलेश्या मन्दलेश्या-स्तिद्वन्ति सततं स्थिराः॥४२॥ समभूमितलादूर्द्ध, सार्धरज्जौ व्यवस्थितौ। कल्पावनल्पसम्पत्ती, सौधर्मेशाननामकौ // 43 // सार्धरज्जुद्वये स्याता, समानौ दक्षिणोत्तरौ। सनत्कुमारमाहेन्द्रौ, देवलोकौ मनोहरौ।।४४|| ऊर्द्धलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः। तदूर्द्ध लान्तकः कल्पो, महाशुक्रस्ततः परम् / / 45 / / देवलोकः सहस्रारो-ऽथाष्टमो रज्जुपञ्चके। एकेन्द्रौ चन्द्रववृत्ता-वानतप्राणतौ ततः॥४६॥ रज्जुषट्के ततः स्याता-मेकेन्द्रावारणाच्युतौ। चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः।। 47 // ग्रैवेयकास्त्रयोऽधस्त्या-स्त्रयो मध्यमकास्तथा। त्रयश्वोपरितनाः स्यु-रिति ग्रैवेयका नव // 48 // अनुत्तरविमानानि, तदूर्द्ध पञ्च तत्र च। प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते / / 46 / / प्रतीच्यां तु जयन्ताऽऽख्य-मुदीच्यामपराजितम्। सर्वार्थसिद्ध तन्मध्ये, सर्वोत्तममुदीरितम्॥५०॥ स्थितिप्रभावलेश्याभि-विशुद्ध्यवधिदीप्तिभिः / सुखाऽऽदिभिश्च सौधर्मा- द्यावत्सर्वार्थसिद्धिदम्॥५१।। पूर्वपूर्वत्रिदशेभ्यःस्तेऽधिका उत्तरोत्तरे। हीनहीनतरा देह-गतिगर्वपरिग्रहैः / / 5 / / घनोदधिप्रतिष्ठानाः, विमानाः कल्पयोर्द्वयोः। त्रिषु वायुप्रतिष्ठानाः-स्त्रिषु वायूदधिस्थिताः॥५३|| ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः। इत्यूर्द्धलोकविमान-प्रतिष्ठानविधिः स्मृतः // 54 // सर्वार्थसिद्धाद्वादश, योजनेषु हिमोज्ज्वला। योजनपञ्चचत्वारि-शल्लक्षाऽऽयामविस्तरा // 55 / / मध्येऽष्टयोजनपिण्डाश्च, शुद्धस्फटिकनिर्मिताः / सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने // 56 / / तस्या उपरि गव्यूत-त्रितयेऽतिगते सति। तुर्यगव्यूतिषड्भागे, स्थिताः सिद्धा निरामयाः / / 57 / / अनन्तसुखविज्ञान-वीर्यसद्दर्शनाः सदा। लोकान्तस्पर्धिनोऽन्योन्या-वगाढाः शाश्वताश्च ते॥५८|| एना भव्यजनस्य लोकविषयामभ्यस्यतो भावना, संसारैकनिबन्धने न विषयग्रामे मनो धावति। किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धुरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते सन्ततम् // 56 // (बोधिदुर्लभत्वभावना बोहिदुल्लहत्तभावणा शब्देऽस्मिन्नेव भागे 1333 पृष्ट गता)