SearchBrowseAboutContactDonate
Page Preview
Page 1515
Loading...
Download File
Download File
Page Text
________________ भावणा 1507 - अभिधानराजेन्द्रः - भाग 5 भावणा पि गुणमाहात्म्यमाचार्याऽऽदेवर्णयतस्तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतस्तेषामेव च सुरनरेन्द्रपूजाऽऽदिकं कथयतस्तथा चिरंतनचैत्यानि पूजयत इत्येवमादिकां क्रिया कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धि- | र्भवतीत्येषा प्रशस्ता दर्शनविषयां भावनेति। ज्ञानभावनामधिकृत्याऽऽहतत्तं जीवाऽजीवा, वायव्वा जाणणा इहं दिट्ठा। इह कज्जकरणकारगसिद्धी इह बंधमोक्खो य // 335|| बद्धो य बंधहेऊ, बंधणबंधप्फलं सुकहियं तु / संसारपवंचो विय, इहवं कहिओ जिणवरेहिं / / 336 / / णाणं भविस्सई एवमाझ्या वायणाइयाओ य / सज्झाए आउत्तो, गुरुकुलवासो य इय णाणे // 337 / / तत्रज्ञानस्य भावनां ज्ञानभावना-एवंभूतं मौनीन्द्रज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाऽऽविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति। यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शन, तत्त्वं च जीवाजीवाऽऽदयोनवपदार्थाः, ते चतत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानमिहैवाऽऽर्हतप्रवचने दृष्टम् - उपलब्धमिति, तथेहैवाऽऽर्हत प्रवचने कार्य परमार्थरुपं मोक्षाऽऽख्यं तथा करणं क्रियासिद्धो प्रकृष्टोषकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः साधुः सम्यग्दर्शनाऽऽद्यनुष्ठाता, क्रियासिद्धिश्चहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः कर्मबन्धनं तस्मान्मोक्षः कर्मविचटनलक्षणोऽसावपीहैव, नान्यत्र शाक्याऽऽदिकप्रवचने भवतीति, इत्येवंज्ञानं भावयतो ज्ञानभावना भवतीति / तथा बद्धोऽष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा बन्धहेतवो मिथ्यात्वाविरतिप्रमादकषाययोगाः, तथा बन्धनमष्टप्रकारकर्मवर्गणारूपं तत्फलं चतुर्गतिसंसारपर्यटनसातासाताऽऽद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम् अन्यद्वा वत्किञ्चित् सुभाषित्त तदिहैव प्रवचने अभिहितमिति ज्ञानभावना। तथा विचित्रसंसारप्रपञ्चोत्रैव जिनेन्द्रः कथित इति // तथा ज्ञानं मम विशिष्टतरं भविष्यतीति झानभावना विधेया, ज्ञानमभ्यसनीयवमित्यर्थः। आदिग्रहणादेकाग्रचित्तताऽऽदयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा- "जं अन्नाणी कम्मवदेइ" इत्यादि, तथैभिश्च कारणैर्ज्ञानमभ्यसनीयं, तद्यथाज्ञानसंग्रहार्थ निर्जरार्थम् अव्यवच्छित्यर्थ स्वाध्यायार्थमित्वादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति / तथा चोक्तम्- "णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए, गुरुकुलवास न मुंचंति / / 1 / / '' इत्यादिका ज्ञानविषया भावना भवतीति। चारित्रभावनामधिकृत्याऽऽहसाहुमहिंसाधम्मो, सचमदत्तबिरई य बंभं च। साहुपरिग्गहविरई, साहु तवो वारसंगो य॥३३८|| वेरग्गमप्पमाओ, एगत्ता भावणा य परिसंग। इय चरणमणुगताओ, भणिया एत्तो तवो वोच्छं // 336 / / साधु शोभनोऽहिंसाऽऽदिलक्षणो धर्म इति प्रथमव्रतभावना / तथा | सत्यमस्मिन्नेवाऽऽर्हते प्रवचने साधु शोभनं नान्यत्रेति। द्वितीयव्रतस्य, तथा अदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति। तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्ग तप इहैव शोभनं नान्यत्रेति, तथा वैरण्यभावना सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना मद्याऽऽदिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकान्नभावना- "एगो मे सासओ अप्पा, णाणदसणसजुओ। सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा // 1 // " इत्यादिका भावनाश्वरणमुपगतावरणाऽऽश्रिताः इत क्रय तपोभावना वक्ष्ये अभिधास्य इति। किह मे हविज्जऽवंझो, दिवसो किं वा पहू तवं काउं? को इह दव्वे जोगो, खेत्ते काले समयभावे / / 340 / / कथं केन निर्विकृत्वादिना तपसा मम दिवसोऽबन्ध्यो भवेत्? कतरदा तपोऽहं विधातुं प्रभुःशक्तः? तय कतरत्तपःकस्मिन् द्रव्वाऽऽदौ मम निर्वहतीति भावनीयम् / तत्र द्रव्ये उत्सर्गतो वल्लचणकाऽऽदिके क्षेत्रे स्निग्धरूक्षाऽऽदौ काले शीतोष्णाऽऽदौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलमित्येवं द्रव्याऽऽदिकं पर्यालोच्य यथाशक्ति तपो विधेयम्। "शक्तितस्त्यागस्तपसी" (तत्त्वार्थे - ६अ०२३ सूत्र० दर्शन०) इति वचनादिति। किंचउच्छाहपालणाए, इति तवे संजमे य संघयणे। वेरग्गेऽणिणादि, होइ चरित्ते इह पगयं // 341 / / तथा अनशनाऽऽदिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्तव्यो, गृहीतस्य च प्रतिपालनं कर्त्तव्वमिति। उक्तं च"तित्थयरो चउनाणी, सुरमहिओ सिज्झिवव्ववधुवम्मि। अणिगूहिवबलविरिओ, सवत्थामेसु उज्जमइ // 1 // किं पुण अवसेसेहिं, दुक्खक्खयकारणा सुविहिएहिं। होइन उज्जमियव्वं, सपचवायम्मि माणुस्से'' |2|| इत्येयं तपसि भावना विधेया / एवं संयमे इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा संहनने वजर्षभाऽऽदिके तपोनिर्वाहनासमर्थे भावना विधेयेति। वैराग्यभावना त्वनित्यत्वाऽऽदिभावनारूपा तदुक्तम्"भावयितव्यमनित्य त्वमशरणत्वं तथैकताऽन्वत्वे। अशुचित्य संसारः, कर्माऽऽश्रयसंवरविधिश्च // 1 // निर्जरणलोकविस्तरधर्मस्वाख्या ततत्त्वचिन्ता च। बोधेः सुदुर्णश्रत्वं च भावना द्वादश विशुद्धाः" ||2|| इत्यादिका अनेकप्रचारा भावना भवन्तीति। आचा०२ श्रु०३ चू०। (3) भावना परिसंख्यानम्पढममणिच 1 गणरणं 2, संसारो 3 गया व 4 नत्तं 5 / असुइत्तं 6 आसव 7 संवरोय तह निजराह नवमा |7 लोगसहावो १०बोहियदुलहा 11 धम्मसाहओ अरहा 12 /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy