SearchBrowseAboutContactDonate
Page Preview
Page 1514
Loading...
Download File
Download File
Page Text
________________ भावणा 1506 - अभिधानराजेन्द्रः - भाग 5 भावणा दिकं वस्तुनिकुरम्बम्, ततएव हेतोः कार्यत्वमपि द्रष्टव्यमित्यर्थः। अनभिमतप्रतिषेधमाह- 'कजाभावाउ' इत्यादि पराभ्युपगतं कारणं कारणाऽऽख्यं वस्तु नास्ति। कुतः? इत्याह- कार्याभावात्तत्र कार्यत्वाऽभ्युपगमाभावात् प्रतिसमयभवनानभ्युपगमादित्यर्थः / इह यत् प्रतिसमयमपरापररूपेण नभवतितद्वस्तु नास्ति, यथा खरविषाणम्, प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परैर्मृत्पिण्डाऽदयः, तस्माद् न सन्तीति भावः / इति गाथाऽर्थः // 71 / / विशे०। भावणा स्त्री०(भावना) परिकर्मणि, ब्र०ा परिकर्मेति वा भावनेति वा एकार्थमिति।बृ०१उ०२ प्रकला विशे० वासनायाम्, नि०१ श्रु०१ वर्ग 1 अ०भावना वासनेत्यनर्थान्तरमिति। आव०४ अ०। विशे० आचा०। अध्यवसाये, आचा० १श्रु०८ अ०६ उ०1 आ०म० षो०। (1) भाव्यतेऽनयेति भावना / परिच्छेदे, आव० 4 अ० भाव्यत इति भावना। अभ्यासक्रियायाम, आव०४ अ० सम्यक्रियाऽभ्यासे, उत्त०१४ अ० द्वा०। पुनः पुनश्चिन्तने, संघा० 1 अधि०१प्रस्ता०। पं०व०। अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा भावनेति। अनु०॥ आलोचनायाम, प्रश्न०५ संव० द्वार / अनुप्रेक्षायाम्, ध०३ अधिol आत्मगुणभेदे, सम्म० / भावनासंज्ञः पुनरात्मगुणो ज्ञानजो ज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीयमानसद्भावः। सम्म०३ काण्ड। अन्तः करणवृत्तिभेदे च। सूत्र०१ श्रु०३ अ०१ उ०। अध्यात्मानुवर्तने, द्वा०ा 'अभ्यासौ वृद्धिमानस्य, भावना बुद्धिसंगतः। निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम्।।६॥ द्वा०१८ द्वा०। पौनः पुन्येनानित्यत्वाऽऽदिप्रकारतो भावनैर्गुण्यपरिभावनायाम, विशे० / भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते इति भावनाः / अनित्यत्वाऽऽदिके, ओघका प्रव०। धo| ग०। आव०। सूत्रा आचाo) (2) भावनायां नामाऽऽदिचतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्यादनादृत्य द्रव्याऽऽदिनिक्षेपार्थ नियुक्तिकृदाहदव्वं गंधंगतिलाइएसु सीउण्हविसहणाईसु। भावम्मि होइ दुविहा, पसत्थ तह अप्पसत्था य॥३२७।। तत्र द्रव्यमिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्ग:- जातिकुसुमाऽऽदिभिर्द्रव्यैस्तिलाऽऽदिषु द्रव्येषु या वासना सा द्रव्यभावनेति। तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति। आदिग्रहणाद्व्यायामक्षुण्णदेही व्यायामसहिष्णुरित्याद्यन्येनापिद्रव्येण द्रव्यस्य या भावना साद्रव्यभावनेति। भावेतु-भावविषया प्रशस्ताप्रशस्तभेदेन द्विरूपा भावनेति। तत्राप्रशस्तां भावभावनामधिकृत्याऽऽहपाणिवहमुसावाए, अदत्त मेहुण परिग्गहे चेव। कोहे माणे माया, लोभे य हवंति अपसत्था / / 328|| प्राणिवधाऽऽद्यकार्येषु प्रथम प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चात्पौनः पुन्यकरणतया निःशङ्कः प्रवर्तते। तदुक्तम्कारोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते। तृतीयं निःशको विगतघृणमन्यत् प्रकुराते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते।।१।। प्रशस्तभावनामाहदंसणणाणचरित्ते, तववेरग्गे य होइ उपसत्था। जाय जहा ता य तहा, लक्खण वोच्छं सलक्खणओ॥३२६।। दर्शनज्ञानचारित्रतपोवैराग्याऽऽदिषु या यथा च प्रशस्तभावना भवति तां प्रत्येक लक्षणतो वक्ष्ये इति। दर्शनभावनार्थमाहतित्थगराण भगवओ, पवयणपावयणिअईसइड्डीणं / अहिगमणनमणदरिसणकित्तणसंपूयणाथुणणा // 330 // तीर्थकृतां भगवतां प्रवचनस्य च द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनामाचार्याऽऽदीनां युगप्रधानानां, तथातिशायिनामृद्धिमतां केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्षोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तन सम्पूजनं गन्धाऽऽदिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति। किंचजम्माभिसेयणिक्खमणचरणणाणुप्पया य णिव्वाणे। दिअलोअभवणमंदिरणंदीसरभोभणगरेसुं॥३३१॥ अट्ठावयमुग्जिंते, गयग्गपयए य धम्मचक्के य। पासरहावत्तणगं, चमरुप्पायं च वंदामि॥३३२॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु तथा मन्दिरेषु तथा नन्दीश्वरद्वीपाऽऽदौ भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति। एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरौ 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्थनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वत वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्-वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु चस्थानेषुयथा-सम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनाऽऽदिकाः क्रियाः कुर्वतो दर्शनशुद्धिभर्वतीति। किंचगणियं णिमित्त जुत्ती, संदिट्ठी अवितह इमं णाणं। इय एगंतमुवगया, गुणपत्रइया इमे अत्था / / 333 / / गुणमाहप्पं इसिणामकित्तणं सुरणरिंदपूया य। पोराणचेइयाणि य, इइ एसा दंसणे होइ॥३३४।। प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति / तद्यथा- गणितविषये वीजगणिताऽऽदौ परं पारमुपगतोऽयं, तथा अष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तीर्द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यगविपरीता दृष्टिदर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथा अवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याऽऽवार्याऽऽदेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यद
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy