________________ भावणय 1505 - अभिधानराजेन्द्रः - भाग 5 भावणय भावेभ्यः पयायेभ्योऽर्थान्तरभूतं भिन्नं किं नाम द्रव्यम्? येनोच्यते- / 'दव्वपरिणाममित्तमित्यादि ? ननुभाव एवाऽयं यदिदं दृश्यते त्रिभुवनेऽपि वस्तुनिकुरम्बमिति। यदि हि किञ्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तराऽऽरभ्भे व्यप्रियेत, तदा न्याय्या स्यादियं कल्पना, यावता प्रतिक्षणं भवनमेवाऽनुभूयते। किमुक्तं भवति? इत्याह- भावस्यैकस्य पर्यायस्याऽऽपत्तिरुद्भुत्तिः, अपरस्य तु विपत्तिर्विनाशः / 'ननिहाणगया भग्गा, पुजोनत्थि अणागए। निव्वुया नेय चिट्ठति, आरगे सरसवोवमा' / / 1 / / इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तूत्पत्तिरित्यर्थः।। इति गाथाऽर्थः।।६।। आह-ननु ये भावस्याऽऽपत्ति- विपत्ती प्रोच्यते, ते तावद्धत्वन्तरमपेक्ष्य | भवतः, यच्च हेत्वन्तरमपेक्षते तदेवाऽवस्थितं कारणं, तदेव द्रव्यम्, अतो 'भावत्थंतरभूअं किं दव्वम्' इत्यादिनाऽऽयुक्तमेव द्रव्यमपाक्रियते ; इत्याशक्याऽऽहन य भावो भावंतरमवेक्खए किंतु हेउनिरवेक्खं / उप्पजइ तयणंतरमवेइ तमहेउअंचेव // 7 // न च भावो घटाऽऽदिरुत्पद्यमानो भावान्तरं मृत्पिण्डाऽऽदिकमपेक्षते, किन्तु निरपेक्ष एवोत्पद्यते / अपेक्षा हि विद्यमानस्यैव भवति / न च / मूत्पिण्डाऽऽदिकारणकाले घटाऽऽदि कार्यमस्ति, अविद्यमानस्य चाऽsपेक्षायां खरविषाणस्याऽपि तथा-भावप्रसङ्गात् / यदि चोत्पत्तिक्षणात् प्रागपि घटाऽऽदिरस्ति, तर्हि किं मृत्पिण्डाऽद्यापेक्षया? तस्य स्वत एव विद्यमानत्वात्। अथोत्पन्नः सन घटाऽऽदिः पश्चाद् मृत्पिण्डाऽऽदिकमपेक्षते। हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनम्, यदि हि स्वत एव कथमपि निष्पन्नो घटाऽऽदिः, किं तस्य पश्चाद् मृत्पिण्डाऽऽद्यपेक्षया? अथोल्पद्यमानताऽवस्थायामसौ तमपेक्षते, केयं नामोत्पद्यमानता? न तावदनिष्पन्नावयवता, खयमनिष्पन्नस्य खरविषाणस्येवाऽपेक्षाऽयोगात्। नापि निष्पन्नावयवता, स्वयं निष्पन्नस्य परापेक्षोवैयात् / नाप्यर्द्धनिष्पन्नाऽऽवयवता, वस्तुनः सांशताप्रसङ्गात्; तत्र चाऽवयविकल्पनाऽऽदावनेकदोषोपनिपातसम्भवात् / किञ्चसांशतायामपि किमनिष्पनोऽशः कारणमपेक्षते, निष्पन्नो वा, उभयं वा? न तावदाद्यपक्षद्वयम्, निष्पन्नाऽनिष्पन्नयोरपेक्षायाः प्रतिषिद्धत्वात्। उभयपक्षोऽपि न श्रेयान्, उभयपक्षोक्तदोषप्रसङ्गात् / तस्माद् मृत्पिण्डाऽऽद्युत्तरकालं भवनमेव घटाऽऽदेस्तदपेक्षा, मृत्पिण्डाऽऽदेरपि कार्यत्वाभिमताद् घटाऽऽदेः प्रागभावित्वमेव कारणत्वम्, न पुनर्घटाऽऽदिजन्मनि च्याप्रियमाणत्वम्। व्यापारो हि तद्वतो भिन्नः, अभिन्नो वा? यदि भिन्नः, तर्हि तस्य निर्व्यापारताप्रसङ्गः। अथाऽभिन्नः, तर्हि व्यापाराभावः / कारणव्यापारजन्य जन्माऽपि जन्मवतो भिन्नम्, अभिन्नं वा? भेदे जन्मवतोऽजन्मप्रसङ्गः / अभेदे तु जन्माभावः। तस्मात् पूर्वोत्तरकालभावित्वमात्रेणैवाऽयं कार्यकारणभावो वस्तूनां लोके प्रसिद्धः, न जन्यजनकभावेन / यदपि मृत्पिण्डघटाऽऽदीनां पूर्वात्तरकालभावित्वम्, तदप्यनादिकालात् तथाप्रवृत्तक्षणपरम्पराऽऽरूढम्. न पुनः कस्यचित् केनचिद् निर्वर्तितम्, इति नकस्यचित्भावस्य कस्यापि सम्बन्धिन्यपेक्षा। ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावः समुत्पद्यत इति स्थितम्। विनश्यतितर्हि कथम् ? इत्याह'तयणंतरमित्यादि।' तदनन्तरमुत्पत्तिसमनन्तरमेवाऽपैति विनश्यति भावः / तदपि च विनशनमहेतुकमेव। मुद्रोपनिपाताऽऽदिसव्यपेक्षा एव घटाऽऽदयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेद्। नैवम्, विनाशहेतोरयोगात्। तथाहिमुहूराऽऽदिना विनाशकाले किं घटाऽऽदिरेव क्रियते, आहोस्वित् कपालाऽऽदयः, उत तुच्छरूपोऽभावः? इति त्रयी गतिः। तत्र न तावद् घटाऽऽदिः, तस्य स्वहेतुभूतकुलालाऽऽदिसामग्रीत एवोत्पत्तेः / नापि कपालाऽऽदयः, तत्करणे घटाऽऽदेस्तदवस्थत्वप्रसङ्गात्, न ह्यन्यस्य करणेऽन्वस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्याऽपि निवृत्तिप्रसङ्गात्, नापि तुच्छरूपोऽभावः खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वाल, करणे वा घटाऽऽदेस्तदवस्थताप्रसङ्गात् अन्यकरणेऽन्यनिवृत्त्यसम्भवात्। घटाऽऽदिसम्बन्धेनाऽभावो विहितस्तेन घटाऽऽदेर्निवृत्तिः, इति चेत्। न, सम्बन्धस्यैवाऽनुपपत्तेः, तथाहि- किं पूर्व घट: पश्चादभावः, पथाद्वा घटः पूर्वमभावः, समकालं या घटाभावी? इति विकल्पत्रयम्।तत्राऽऽद्यविकल्पद्वयपक्षे सम्बन्धानुपपत्तेरिव, सम्बन्धस्य द्विष्ठत्वेनभिन्नकालयोस्तदसम्भवात्, अन्यथा भविष्यच्छड्स चक्रवादीनामतीतैः सगराऽऽदिभिरपि सम्बन्धप्राप्तेः / तृतीयविकल्पपपक्षेऽपि घटाऽभावयोर्यदिक्षणमात्रमपि सहावस्थितिरभ्युपगम्यते, तह्यसिंसारमप्यसौ स्यात, विशेषाभावात, तथा चसति स एवघटाऽऽदेस्तादवस्थ्यप्रसङ्गः। घटाऽऽधुपमर्दनाऽभावो जायते, अतो घटाऽऽदिनिवृत्तिः, इति चेत् / ननु कोऽयमुपमर्दोनाम? न तावद् घटाऽऽदिः, तस्य स्वहेतुत एवोत्पत्तेः। नापि कपालाऽऽदयः, तद्भावे घटाऽऽदेस्तादवस्थ्यप्रसङ्गात्। नापि तुच्छरूपोऽभावः, एवं हिसति घटाऽऽद्यभावेनघटाऽऽद्यभावोजायत इत्युक्तं स्यात्, न चैतदुच्यमानं हास्यं न जनयति, आत्मनैवाऽऽत्मभवनानुपपतेः। तस्माद् मुद्राऽऽदिसहकारिकारणवैसदृश्यात् विसदृशः कपालाऽऽदिक्षण उत्पद्यते घटाऽऽदिस्तु क्षणिकत्वेन निर्हेतुकः स्वरसत एव निवर्तते, इत्येतायन्मात्रमेव शोभनम्। अतो हेतुव्यापारनिरपेक्षा एवसमुत्पन्ना भावाः क्षणिकत्वेन स्वरसत एव विनश्यन्ति, न हेतुच्यापारात, इति स्थितम्। तस्माजन्मविनाशयोकिञ्चित् केनचिदपेक्ष्यते, अपेक्षणीयाभावाच्च न किञ्चित् कस्यचित् कारणम् / तथा च सति न किञ्चित् द्रव्यम्, किन्तु पूर्वापरीभूताऽपरापरक्षणरूपाः पर्याया एव सन्त इति / अत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनतामयात्, सुगतशास्त्रेषु विस्तरेणोक्तत्याच इति गाथाऽर्थः // 70 / / यदपि द्रव्यवादिना 'पिंडो कारणमिट्ट, पयंच परिणामओ' इत्याधुक्तम्, तत्राऽस्माभिरप्येतद् वक्तुं शक्यत एवेति किम्? इत्याहपिंडो कजं पइसमयभावाउ जह दहिं तहा सव्वं / कजाभावाउ नत्थि, कारणं खरविसाणं व॥७१।। मृदादिपिण्डः कार्यमेव, न तु कारणम् / कुतः? इत्याह- प्रतिसमयमपरापरक्षणरूपेण भावात्, दध्यादिवदिति / प्रतिसमयमपरापरक्षणभवनमसिद्धमिति चेत्। न, वस्तूनां पुराणाऽऽदिभावाऽन्यथाऽनुपपत्तेः / उक्तंच'प्रतिसमयं यदि न भवे-दपरापररूपतेह वस्तूनाम् / न स्यात् पुराणभावो, न युवत्वं नापि वृद्धत्वम्॥१॥ जन्मानन्तरसमये, न स्याद् यद्यपररुपताऽर्थानाम्। तर्हि विशेषाभावाद्, न शेषकालेऽपि सा युक्ता // 2 // " किं पिण्ड एव कार्य म्? न, इत्याह- तथा सर्व , यथाप्रतिसमयं भावात् पिण्ड : कार्य तथा सर्वमपि घट पट15