________________ भावणा 1508 - अभिधानराजेन्द्रः - भाग 5 भावणा एयाइँ हुति बारस, जहकम्मं भावणीयाओ॥५०॥ तत्र प्रथममनित्यभावना 1, द्वितीया अशरणभावना 2, तृतीया संसारभावना 3, चतुर्थी एकत्वभावना 4, पञ्चमी अन्यत्वभावना 5, षष्ठी अशुचित्वभावना 6, सप्तमी आश्रयभावना 7. अष्टमी संवरभावना 8, तथा नवमी निर्जराभावनाह, दशमी लोकस्वभावभावना 10, एकादशी बोधिदुर्लभत्वभावना 11, द्वादशी धर्मकथकोऽर्हन्निति 12 / एतास्तु भावना द्वादश भवन्ति,यथाक्रमं भणितक्रमेण भायनीया अहर्निशमभ्यसनीया इति, एतासां च स्वरूपं किञ्चिन्निरूपयामः / तत्रैवमनित्यभावना"ग्रस्यन्ते वजसाराङ्गास्तेऽप्यनित्यत्वरक्षसा। किं पुनः कदलीगर्भ, निःसारा नेह देहिनः / / 1 / / विषयसुखं दुग्धमिय, स्वादयति जनो त्रिडाल इव मुदितः। नोत्पाटितलकुटभिवोत्पश्यति यममहह किं कुर्मः?||सा धराधरधुनीनीरपूरपारिप्लवं वपुः। जन्तूनां जीवितं वातधूतध्वजपटोपमम्॥३॥ लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् / यौवतं मत्तमातङ्गकर्णतालचलाचलम्॥४॥ स्वाम्यं स्वप्रावलीसाम्य, चपलाचपलाः श्रियः। प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् / / 5 / / सर्वेषामपि भावानां, भावयन्नित्यनित्यताम् / प्राणप्रियेऽपि पुत्राऽऽदो, विपन्नेऽपि न शोचति // 6 // सर्ववस्तुषु नित्यत्वग्रहग्रस्तस्तु मूढधीः। जीर्णतार्णकूटीरेऽपि, भग्ने रोदित्यहर्निशम् / / 7 / / ततस्तृष्णाविनाशेन, निर्ममत्वविधायिनीम्। शुद्धधीवियेन्नित्यमित्यनित्यत्वभावनाम् // 8 // " ||1|| अथाशरणभावना"पितुर्मातुर्धातुस्तनयदयिताऽऽदेश्च पुरतः, प्रभूताधिव्याधिव्रजनिगडिताः कर्मचरटैः। रटन्तः क्षिप्यन्तेयममुखगुहान्तस्तनुभृतो, हहा कष्ट लोकः शरणरहितः स्थास्यति कथम्?||१|| ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्रतन्त्रक्रियाप्रावीण्य प्रथयन्ति ये च दधति ज्योतिःकलाकौशलम्। तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यबिद्धंसनव्याग्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति // 2 // नानाशस्त्रपरिश्रमोद्भटभटेरावेष्टिताः सर्वतो, गत्युद्दाममदान्धसिन्धुरशतैः केनाप्यगम्याःक्कचित्। शक्र श्रीपतिचक्रिणोऽपि सहसा कीनासदासर्बलादाकृष्टा यमवेश्म यान्ति हह हा निस्त्राणता प्राणिनाम् // 3 // उद्दण्ड ननुदण्डसात्सुरगिरि पृथ्वी पृथुच्छरसात्, ये कर्तुं प्रभविष्णवः कृशमपि क्लेशं विनैवाऽऽत्मनः। निः सामान्यबलप्रपञ्चचतुरास्तीर्थरास्तेऽप्यहो, नैवाशेषजमौघघस्मरमपाकर्तुं कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्राऽऽदिस्नेह्यहनिवृत्तये। इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् // 5 // "||2|| अथ संसारभावनासुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः। नृपतिरनृपः स्वर्गी तिर्यग्नरोऽपि च नारकः, तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके // 1 // बध्वा पापमनेककल्मषमहारम्भाऽऽदिभिः कारणैः, पत्वा नारकभूमिषूदटतमः सघट्टनष्टाध्वसु। अङ्गच्छेदनभेदनप्रदहनक्लेशाऽऽदिदुःखं महज्जीवो यल्लभते तदत्र गदितुं ब्रह्मापि जिह्माऽऽनन / / 2 / / मायाऽऽत्यादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरश्चां गति, सिंहव्याघ्रमतङ्ग जैणवृषभच्छागाऽऽदिरूपस्पृशाम्। क्षुतृष्णावधबन्धताडनरुजा वाहाऽऽदिदुखं सदा। यज्जीवः सहते न तत्कथियितुं केनाप्यहो शक्यते॥३॥ खाद्याखाद्यविवेकशून्यमनसो निहीकताऽऽलिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः। तत्राऽऽनार्यनरा निरन्तरमहाऽऽरम्भाऽऽदिभिर्दुस्सह, क्लेशं सङ्कलयन्ति कर्मच महादुःखप्रदं चिन्चते॥४॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाव्यरोगाऽऽदिभिः / अन्यप्रेषणमानभजनजनावज्ञाऽऽदिभिश्वानिशं, दुःखं तद्विषहन्ति यत्कथयितुं शक्यं न कल्पैरपि // 5 // रम्भागर्भसमः सुखी शिखिशिखावर्णाभिरुच्चैरयं, सूचीभिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान्। यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थितौ, सम्पद्येत तदप्यनन्तगुणितं जन्मक्षणे प्राणिनाम् / / 6 / / वाल्ये मूत्रपुरीषधूलिलुठनाऽऽज्ञानाऽऽदिभिर्निन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टाऽगमाऽऽदिव्यथा। वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाऽऽधसुस्थाऽऽत्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जन?||७|| सभ्यग्दर्शनपालनाऽऽदिभिरथ प्राप्ते भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्वल्पर्धिकत्वाऽऽदिभिः। ईर्ष्याकाममदक्षुधाप्रभृतिभिश्चात्यन्तपीडाऽर्दिताः, क्लेशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् // 8 // इत्थं शिवफलाधायिभववैराग्यवीरुधः। सुधावृष्टिं सुधीः कुर्यादनां संसारभावनाम्॥६॥" ||3|| अथैकत्वभावना"उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी। कर्मार्जयत्येकक एव चित्र मासेवते तत्फलमेक एव / / 1 / / यजीवेन धनं स्वयं बहुविधैःकष्टैरिहोपाय॑ते, तत्संभूय कलत्रमित्रतनयभ्रात्रादिभिर्भुज्यते। तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवेष्वेक सैष सुदुःसहानि सहते दुःखान्यसङ्ख्यान्यहो।।२।। जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते. धर्माद् भ्रस्यति वश्चयत्यतिहितात् न्यायादपक्रामति। देहः सोऽपि सहाऽऽत्मनान पदमप्येकं परस्मिन् भवेगच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति? ||3|| स्वार्थकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग। सर्वत्र कल्याणनिमित्तमेकं धर्म सहायं विदधीत धीमान् // 4 // " अथान्यत्वभावना*"जीवः कायमपि व्यपास्य यदहो लोकान्तरे याति यदिन्नोऽसौ वपुषाऽपि कैव हि कथा द्रव्याऽऽदिवस्तुबजे।