________________ भाव 1466 - अभिधानराजेन्द्रः - भाग 5 भाव भवेत्तथा नित्यः / एकररावर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च / 1 / " अथायमपि सप्रदेशः, तह. तत्प्रदेशोऽणुर्भविष्यति, तस्यापि सप्रदेशत्वेतत्प्रदेशोऽणुरित्येवं तावद्यावद्यत्र क्वचिन्निः प्रदेशतया भवबुद्धेरवस्थानं भविष्यति, स एव परमाणः, तेनापि च सामग्रीजन्यत्वस्य व्यभिचार इति / / 1737 / / न सन्त्येव ते परमाणवः, सामग्रीजन्य त्वाभावादित्याशङ्कयाऽऽहदीसइ सामग्गिमयं, न याणवो संति नणु विरुद्धमिदं / किं वाणूणमभावे, निप्फण्णमिणं खपुप्फे हिं? ||1738 / / "सामग्रीमयं सर्वं दृश्यते' इति भवतैव प्रागुक्तम्। अणवश्चन सन्ति' इत्यधुना ब्रूषे, ननु विरुद्धमिदं, यथा सर्वमप्यनृतं वचनमिति बुवतः स्ववचनविरोधः, तथाऽत्रापीत्यर्थः / यदेव हि सामग्रीमयं किमपि दृश्यते भवता, तदेवाणुसङ्घाताऽऽत्मकम्, अतः स्ववचनेनैव प्रतिपादितत्वात्कथमणवो न सन्तीति भावः। किंच अणूनामभाव इदं सर्वमपिघटाऽऽदिकार्यजातं किं खपुष्पैर्निष्पन्नं, परमाण्वभावे तज्जनकमृत्पिण्डाऽऽदिसायभावात्? इति भावः। तस्माद्यस्मात्सामग्रीमयं दृश्यत इति प्रतिपद्यते भवता, तद्वदेव परमाणव इति।।१७३८|| यदुक्तम्-'परभागादरिसणओ, सव्वाराभागसुहुमयाओ य' इत्यादि / तत्र प्रतिविधानमाहदेसस्साराभागो, घेप्पइ न य सो त्ति नणु विरुद्धमिणं। सव्वाभावेऽपि न सो,घेप्पइ किं खरविसाणस्स?||१७३६।। यदुक्तम्- दृश्यस्यापि वस्तुनः परभागस्तावन्न दृश्यते, आराद्भागस्तु गृह्यते, परं सोऽप्यन्यान्यपरभागकल्पनया प्रागुक्तयुक्तितो नास्तीति। ननु विरुद्धमिदं-गृहाते असौ, नच समस्तीति। सर्वाभावाद्भ्रान्त्याऽसौ गृह्यत इति चेत / तदयुक्तम् / यतः- सर्वाभावे तुल्येऽपि किमिति खरविषाणस्य संबन्धी आराद्भागोन गृह्यते? समता विपर्ययो वा कथं न भवतीति // 1736 // किंचपरभागादरिसणओ, नाराभागो वि किमणुमाणं ति। आराभागग्गहणे, किं व न परभागसंसिद्धि? ||1740 / / "परभागमात्रादर्शनादाराद्भागोऽपि नास्ति'' इत्यत्र किमनुमा-नं | भवत? एतदुक्तं भवति-यत्प्रत्यक्षेण सकललोकप्रसिद्धं तदनेरौष्ण्यमिव कथमनुभानेन बाध्यते? आराद्भागस्य हि आपेक्षिकत्वात् तदन्यथाअनुपपत्तेः परभागानुमानंतावदद्यापियुज्यते। यस्तुवरभागादर्शनमात्रेणैव तन्निहवः सोऽसंबद्ध एव, सत्स्वपि देशाऽऽदिविप्रकृष्टषु मेरुपिशाचाऽऽदिष्वदर्शनसंभवात् / तस्मान्न परभागादर्शनमात्रेणाराद्भागोऽपह्रोतव्यः। किञ्चआराद्भागग्रहणे परभागानुमान युज्येतापीति भाष्यकारोऽप्याह(आराभागेत्यादि) आराद्धागग्रहणे कथं न परभागसंसिद्धिरिति? अपि तुतत्संसिद्धिरेव। तथाहि-दृश्यस्य वस्तुनःपरभागोऽस्ति, तत्संबन्धिभूतस्याऽऽराद्भागस्य ग्रहणाद्, इह यत्संबन्धिभूतो भागो गृह्यते तत्समस्ति, यथा नभसः पूर्वभागे ग्रहीते तत्संबन्ध्यपरभागः, गृह्यते च घटाऽऽदेराराद्भागोऽतस्तत्संबन्धिभूतः परभागोऽप्यस्ति। यच्चोक्तम् ''आराद्धा- | गस्याप्यन्य आराद्भागः कल्पनीयः, तस्याप्यन्य इत्यादि तावत् यावत्सवाऽऽरातीयभागः।" इति। अत्रापि परभागस्यासत्वे सर्वाऽऽरातीयभागपरिकल्पनमनुपपन्नमेव स्यात्। तस्मादस्ति परभाग इति / / 1710! अपिचसव्वाभावे विकओ आरापरमज्झभागनाणत्तं / अह परमईए भण्णइ, सपरमइविसेसणं कत्तो? / / 1741 / / आरपरमज्झभागा, पडिवण्णा जइ न सुण्णया नाम / अप्पडिवण्णेसु विका, विगप्पणा खरविसाणस्स?||१७४२।। सव्वाभावे वाऽऽराभागो, किं दीसए न परभागो। सव्वागहणं व न किं, किं वा न विवजओ होइ? ||1743 / / तिस्रोऽपि प्रतीतार्था एवेति // 17411 / 1742 // 1743 / / किं च यदि परभागादर्शनाद्भावानाम सत्वं प्रतिपाद्यते, तर्हि स्फटिकाऽऽदीना तन्न स्यादिति दर्शयन्नाहपरभागदरिसणं वा, फलिहाईणं ति ते धुवं संति। जइवा ते वि न संता, परभागादरिसणमहेऊ // 1744|| सव्वादरिसणओ चिय, न भण्णए कीस भणइ तन्नाम। पुव्वत्भुवगयहाणी, पच्चक्खविरोहओ चेव / / 1745 / / ननु येषां स्फटिकाभ्रपटलाऽऽदीना भावानां परभागदर्शनमस्ति ते तावद् ध्रुवं सन्त्येवेति 'परभागादर्शनात्' इत्यनेन हेतुना सर्वभावानामसत्वं न सिद्ध्यति / अथ स्फटिकाऽऽदयोऽपि न सन्ति तर्हि 'परभागादर्शनात्' इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्वस्यासाधकत्वाद्। अतोऽव्यापकममु हेतुं परित्यज्य 'सर्वादर्शनान्न सन्ति भावाः' इत्ययमेव व्यापको हेतुः कस्मान्न भण्यते? (भण्णइ तन्नामत्ति) अत्र पर उत्तरं भणति। किमित्याह- तन्नामास्तुसर्वादर्शनादित्ययं हेतुस्तर्हि भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयिव्या, सा च सर्वादर्शनादित्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणाऽऽस्माकम्? इति भावः / अथ सूरिराह(पुव्वेत्यादि) नन्विदानी सर्वादर्शनादिति ब्रुवतो भवतः "परभागादरिसणओ' इति पूर्वाभ्युपगतस्य हानिः प्राप्नोति। किं च - ग्रामनगरसरित्समुद्रघटपटाऽऽदीनां प्रत्यक्षेणैव दर्शनात् सर्वादर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः। ततः प्रत्यक्षविरोधतश्च सर्वादर्शनादित्येतदयुक्तमिति। अत्र कश्चिदाह- ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात्सर्वथा निवृत्तो हेतुरिष्यत एव, यथा ''अनित्यःशब्दः, प्रयत्नानन्तरीयकत्वात्।" इति नह्यनित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः विद्युद्घनकुसुमाऽऽदिभियभिचारात् तददिहापि यद्यपि सर्वेष्वपि भावेषु परभागादर्शनं नास्ति, यथाऽपि बहुषुतावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग हेतुर्भविष्यति / तदयुक्तम् / यतस्तत्र 'यदनित्यं न भवति तत्प्रयत्नान्तरीयकमपि न भवति' यथा "आकाशम्।' इत्येवं व्यतिरेकः सिध्यति। इह तु यत्र शून्यता नास्ति, किं तर्हि? वस्तुनः सत्त्वं परभागादर्शनमपि तत्र नास्ति,किंतुपरभागदर्शन यथाव? इति भवतः सर्वासद्वादिनोव्यतिरेक: वचिदपि न सिध्यति अतोऽहेतुरेवायमिति।।१७४४।। / / 1745 / / अत्र पराभिप्रायमाशक्य परिहरन्नाहनत्थि परमज्झभागा, अप्पचक्खत्तओ मई होजा।