________________ भाव 1500- अभिधानराजेन्द्रः - भाग 5 भाव नणु अक्खऽत्थावत्ती, अप्पचक्खत्तहाणी वा॥१७४६|| | अथ स्यान्मतिः- परमध्यभागौ न स्तः, अप्रत्यक्षत्वात्, खर-विषाणवत् / तदसत्त्वे च तदपेक्षया निर्दिश्यमान आराद्भागोऽपि नास्त्यतः सर्वशून्यतेत्यभिप्रायः / तदयुक्तम् ; यतोऽक्षमक्षमिन्द्रियमिन्द्रियं प्रति वर्त्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोऽप्रत्यक्षः, तद्भावोऽप्रत्यक्षत्वं, तस्मादप्रत्यक्षत्वादित्युच्यमाने नन्वक्षाणामर्थस्य चाऽऽपत्तिः सत्ता प्राप्नोति, तदापत्तौ च शून्यताऽभ्युपगमहानिः। शून्यतायां वाऽप्रत्यक्षत्वलक्षणस्य हेतोहानिः, अक्षार्थानामभावे प्रत्यक्षाप्रत्यक्षव्यपदेशानुपपत्तेरिति भावः |11746 // अपिच-अप्रत्यक्षत्वादित्यनैकान्तिको हेतरिति दर्शयन्नाहअस्थि अपचक्खं पिहु, जह भवओ संसयाइविन्नाणं। अह नत्थि सुण्णया का, कास व केणोवलद्धा वा ! / / 1747 / / नन्वप्रत्यक्षमप्यस्ति किश्चिद्वस्तु, यथा भवतः संशयाऽऽदिविज्ञानमन्येषामप्रत्यक्षमप्यस्ति, ततो यथैतत्तथा परमध्यभागावप्रत्यक्षो भविष्यत इत्यनैकान्तिको हेतुः। अथ भवत्संशयाऽऽदिविज्ञानमपि नास्ति तर्हि का नाम शून्यता? कस्य वाऽसौ? केन वोपलब्धा? भवत एवेह तत्र किल संशयः, सचेन्नास्ति, तर्हि कस्यान्यस्य ग्रामनगराऽऽदिसत्त्वे विप्रतिपत्तिः? इति भावः // 1747 // विशे०। (4) भवति भविष्यति भूतवांश्चेति भावः। अथवा-भवन्त्यस्मिन् स्वागता उत्पादविगमध्रौव्याऽऽख्याः परिणामविशेषा इति भावः। अस्तिकाये, दश० 1 अ०। वस्तुधर्म , विशे०। ज्ञा०। भावप्रत्ययक्ष यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति / सूत्र०१ श्रु० 12 अ० शुक्लाऽऽदिके वस्तुपाये, दर्श० 1 तत्त्व / विशे० / आव०॥ अनु० उत्ताकर्मस्था। आ०म०नि०चूा सम्मा द्रव्यस्य विशिष्टावस्था भाव इति। आचा०२ श्रु०१ चू० 4 अ० 1 उ०। भवन्ति विशिष्टहेतुभिः स्वतो वा जीवानां तत्तद्रूपतया भवनं भावः। भवन्त्येभिरुपशमाऽऽदिभिः पर्यायरिति भावः। कर्म०४ कर्म०। प्रव०तेन रूपेण भवनं भावः। अथवा- तेन तेन रूपेण भवतीति भावः / यद्वा-भवति तेभ्यः, तेषु वा भवतीति भावः। यद्वा-भवन्ति तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावः / औदयिकाऽऽदिके वस्तुपरिणामविशेषे, अनु० दशाभावशब्दो बह्वर्थः / क्वचिद्रव्यवाचकः। तद्यथा- "णासओ भुवि भावस्स, सद्दो हवति केवलो।" भावस्य द्रव्यस्य वस्तुन इति गम्यते। क्वचिच्छुक्लाऽऽदिष्वपि वर्तते।"जंजजेजे भावे परिणमइः।" इत्यादि। यान् यान् शुक्लाऽऽदीन भावानिति गम्यते, क्वचिदौदयिकाऽऽदिष्वपि वर्त्तते यथा- "ओदयिए उवसमिए।" इत्याधुक्त्वा। "छव्विहो भावलोगो उ।" औदयिकाऽऽदय एव भावा लोक्यमानत्वाद्भावलोक इति, तदेवमनेकार्थवृत्तिः सन्नौ-दयिकाऽऽदिष्वेव वर्तमान इह गृहीत इति, भवने भावः, भवन्त्यस्मिन्निति वा भावः। दश०१ श्रुग (भावानां षड्डिधत्वम् आणुपुव्वी' शब्दे द्वितीयभागे 153 पृष्ठे गतम्) (5) भावद्वारं व्याचिख्यासुराहउवसमखयमीसोदयपरिणामा दुनवऽठार इगवीसा। तियमेय संनिवाइय, सम्मं चरणं पढमभावे // 6 // इह किल षड्भावा भवन्ति / विशिष्टहेतुभिः स्वतो वा जीवानां तत्तद्रूपतया भवनानि भवन्त्येभिरुपमशमाऽऽदिभिः पर्यायैरिति वा भावाः / किंनामानः पुनस्ते? इत्याह-(उवसमखयमीसोदयेत्यादि) अत्र सूचकत्वात् सूत्रस्यैवं प्रयोगः / (उवसमि त्ति) औपमशमिको भावः / (खय त्ति) क्षायिको भावः। (मीस त्ति) क्षायौपशमिको भावः। (उदय त्ति) औदयिको भावः। (परिणाम त्ति) पारिणामिको भावः / (64 गाथा) (कर्म० 4 कर्म०) द्विभेद औपशमिको भावः, नवभेदः क्षायिकः, अष्टादशभेदः क्षायोपशमिकः, एकविंशतिभेद औदयिकः, त्रिभेदः पारिणामिकः / सर्वेऽपि भावपञ्चकभेदास्त्रिपञ्चाशदिति // 66 // प्ररूपितं सप्रभेदं भावपञ्चकम् / अधुना सांनिपातिकाऽऽरख्यषभावभेदप्ररूपणायोपक्रम्यते तत्र च यद्यप्यौपशमिकाऽऽदिभावानां पञ्चानामिति द्विकाऽऽदिसंयोगभङ्गाः षड्विंशतिर्भवन्ति। तद्यथा-औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिक इति भावपञ्चकं पट्टकाऽऽदावालिख्यते, ततो दशद्विकसंयोगा अक्षसञ्चारणया लभ्यन्तेदशैव त्रिकसंयोगाः, पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोग इति; तथापि षडेव संयोगा जीवेष्वविरुद्धाः सम्भवान्त, शेषास्तु विंशतिः संयोगभङ्गाः प्ररूपणामात्रभावित्वेनासम्भविन एव, अतः सम्भविषड्भेदद्वारेण गत्याश्रिता यावन्तः सान्निपातिकभावभेदाः सम्भवन्ति यावन्तश्च न सम्भवन्ति तदेतत्प्रकटयन्नाहचउ चउगईसु मीसगपरिणामुदएहिं चउसखइएहिं। उवसमजुएहिँ वा चउकेवलिपरिणामुदयखइए॥६७।। चत्वारो भङ्गाश्चतसृषु गतिषु चिन्त्यमानासु भवन्ति / कैःकृत्येत्याहमिश्रकपारिणामिकौदयिकादयिकैर्भावावर्णितस्वभावैः / इयमत्र भावनागतिचतुष्ट्यद्वारेण चिन्त्यमानः क्षयो-पशमिकपारिणामिकौदयिकलक्षण एकोऽप्यय त्रिकसंयोगरूपः सांनिपातिको भावश्चतुर्दा भवति। तथाहि- क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वाऽऽदि, औदयिकी नरकगतिः, इत्येको नरकगत्याश्रितस्त्रिकसंयोगः / एवं तिर्यड्मनुष्यदेवगत्यभिलापेन त्रयोभङ्गका अन्येऽपि वाच्याः / इत्येवं चतुर्विधां गतिं प्रतीत्य त्रिकसंयोगेन चत्वारो भेदा निरूपिताः। संप्रति चतुःसंयोगेन चतुरो भेदानाह-(चउसखइएहिं ति) चत्वारो भेदा भवन्ति, कैरित्याह- सह क्षायिकेण वर्तन्ते ये क्षायोपशभिकपारिणामिकौदयिकेलक्षणा भावास्ते सक्षायिकास्तैः सक्षायिकैः / अयमर्थः- गतिचतुष्टयद्वारेण चिन्त्यमानः क्षायोपशमिकपारिणामिकौदयिकक्षायिकलक्षण एकोऽप्ययं चतुष्कसंयोगरूपः सान्निपातिका भावश्चतुर्दा भवति। तद्यथाक्षायोपशमिकानीन्द्रियाणि, पारिणामिक जीवत्वाऽऽदि, औदयिकी नरकगतिः, क्षायिक सम्यक्त्वमित्येको नरकगत्याश्रितः चतुष्कसंयोगः / एवं तिर्यड्मनुष्यदेवगत्यभिलापेन त्रयो भङ्गका अन्येऽपि वाच्याः। इत्येवं चतुर्विधां गतिं प्रतीत्यैकप्रकारेण चतुष्कसंयोगेन चत्वारो भेदा निरूपिताः। अधुना प्रकारान्तरेण चतुष्क संयोग एव चतुरो भेदानाह(उवसमजुएहिं वा चउ त्ति) वाशब्दोऽथवाशब्दार्थः / अथवा क्षायिक भावाभावे औपशमिके न प्रदर्शितस्वरूपेण