________________ भाव १४९८-अमिधानराजेन्द्रः - भाग 5 भाव वोमाइ निच्चजायं, न जायए तेण सव्वहा सोम्म !" इय दव्वतया सव्वं, भयणिज्जं पजवगईए॥१७३१।। इह कार्य घटाऽऽदिकं विवक्षया किमपि जातं जायते, किञ्चिदजातं, किञ्चिज्जाताजातं, किञ्चिज्जायमानं, किञ्चित्तु सर्वथा न जायत इति, अथ यथाक्रममुदाहरणानि- (रूवीत्यादि) रूपितया घटो जातो जायते, मृद्रूपतायाः प्रागपि भावात्, तद्रूपतया जात एव घटो जायत इत्यर्थः / संस्थानतया आकारविशेषेण पुनः स एवा-जातो, जायते, मृत्पिण्डाऽऽद्यवस्थायामाकारस्यासम्भवात्, मृदूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातोजायते। तदनन्तरभूतत्वाद्घटस्य। तथा अतीतानागतकालयोर्विनष्टानुत्पन्नत्वात् क्रियाऽनुपपत्तेर्वर्तमानसमय एव क्रियासद्भावात्तत्समयं वर्तमानसमयं जायमानो जायते / किञ्चित्तु सर्वथा जाताऽजाताऽऽदिप्रकारैर्न जायते। किं पुनस्तदित्याह(पुवकओउइत्यादि) पूर्वकृतस्तुपूर्वनिष्पन्नोघटोघटतयाजाताजाताऽऽदिविकल्पानां मध्यादेकेनापि प्रकारेण न जायते, पूर्वमेव जातत्वात्, किं घटतयैवनजायते? नेत्याह-(परपज्जाएहिं ति) तथा पटाऽऽदिगतैः परपर्यायैश्वघटोन जायते, स्वपर्यायाणां पूर्वमेव जातत्वात, परपर्यायैश्च कदाचित् कस्याप्यभवनात् / स्वपरपर्यायैः पूर्वकृत घटो न जायते, जाताऽजातपटखरविषाणवदिति भावः।त-था जायमानोऽपिवर्तमानक्रियाक्षणसमये पटतया घटोनजायते, पररूपतया कस्याऽप्यभवनात्। किं पूर्वकृतोघट एवेत्थं न जायते, आहोस्विदन्यदपि किञ्चिन्न जायते? इत्याह- (वोमाईत्यादि) न केवलं पूर्वकृतो घटोघटतया न जायते, तथा व्योमाऽऽदिंच तेन कारणे सौम्य ! सर्वथा जाताऽऽदिभिः सर्वैरफिप्रकारैर्न जायते, येन किमित्याह-येन नित्यजातं सर्वदाऽवस्थितं हेतुद्वारेणं विशेषणमिदं नित्यजातत्वान्न जायत इत्यर्थः / उक्तस्यैवार्थस्योपसंहारच्याजेन तात्पर्यमुपदर्शयन्नाह- (इयेत्यादि) इत्युक्तप्रकारेण सर्वमपि घटपटव्योमाऽऽदिकं वस्तु द्रव्यतया द्रव्यरूपेण 'न जायते' इतीहापि संवध्यते, तद्रूपतया सदाऽवस्थितत्वादितिभावः। पर्यायगत्या पर्यायचिन्तया पुनः सर्वं भजनीयं विकल्पनीयम् / पूर्वजातं घटाऽऽदिकं रूपाऽऽदिभिः स्वपर्यायैरपि न जायते, पूर्वजातत्वादेव, अजातं तु तत्स्वपर्यायैर्जायते, परपर्यायस्तुकिश्चिदपिनजायते,इत्येवं पर्यायचिन्तायां भजना / एतच्च प्रायोदर्शितमेवेति // 1728 // 1726 // 1730 // 1731 // अथ यदुक्तं- 'सर्व सामग्रीमयं दृश्यते, सर्वाभावे च कुतः सामग्री?' तत्र प्रतिविधानमाहदीसइ सामग्गिमयं, सव्वमिह थिनय सानणु विरुद्ध घेप्पइ वन पचक्खं, किं कच्छपरोमसामग्गी॥१७३२॥ . इह यदुक्तं-"सर्वमपि कार्य सामग्यात्मकं दृश्यते, सर्वाभावेचनास्ति सामग्री।" इति। तदेतद्विरुद्धमेव, प्रस्तुतार्थप्रतिपादकत्वात्, वचोजनककण्ठोष्ठताल्वादिसामन्याःप्रत्यक्षतएवोपलब्धेः। अथ ब्रूषे-अविद्योपप्लवादविद्यमानमपि दृश्यते / यत् उक्तम्- "कामस्वप्नभयौन्मादैरविद्यापेप्लवात्तथा। पश्यन्त्य-सन्तमप्यर्थ, जनाः केशेन्दुकाऽऽदिवत् ||1| इति / यद्येवं, तॉसत्वे सामान्येऽपि कच्छपरोमजनकसामग्री किमिति प्रत्यक्षत एव नोपलभ्यते? समताविपर्ययो वा कथंनस्यादिति वाच्यमिति? // 173 // किंचसामग्गिमओ वत्ता, वयणं चत्थि जइ तो कओ सुण्णं। अह नत्थि केण भणियं, वयणाभावे सुयं केण? ||1733|| सामग्री उरःशिरःकण्ठोष्ठतालुजिह्वाऽऽदिसमुदायाऽऽत्मिका तन्मयः सामग्यात्मको वक्ता, तद्वचनंचास्तिनवा? यद्यस्ति, तर्हि कुतोजगच्छून्यत्वं,तद्वक्तृवचनसत्त्वेनैव व्यभिचारात्? अथतद्वक्तृवचनेनस्तस्तर्हि वक्तृवचनाभावे केन भणितं शून्यं जगत्? न केनचित्। सर्वशून्यत्वे च प्रतिपाद्य स्याप्यभावात् केन तत् शून्यवचः श्रुतमिति? // 1733|| अत्र परभिप्रायमाशय परिहरन्नाहजेणं चेवन वत्ता, वयणं वा तो न संति वयणिया। भावा तो सुण्णमिदं, वयणमिदं सचमलियं वा ? ||1734|| जइ सचं नाभावो, अहालियं न प्पमाणमेयं ति। अब्भुवगयं ति, व मई, नाभावे जुत्तमेयं ति॥१७३५।। येनैव न वक्ता, नापि च वचनं, ततस्तेनैव न सन्ति वचनीया भावा इत्यतः शून्यमिदं जगदिति / अत्रोच्यते- यदेतद्वक्तृवचनवचनीयानां भावानामभावप्रतिपादकं वचनंतत्सत्यमलीकं वा? यदिसत्यं, तमुस्यैव सत्यवचनस्य सद्भावान्नाभावः सर्वभावानाम् / अथालीकमिदं वचनं, तप्रमाणमेतत् अतोनातःशून्यतासिद्धिः। अथ यथा तथा वाऽभ्युपगतमस्माभिः शून्यताप्रतिपादकं वचनम् अतोऽस्मद्वचनप्रामाण्यात् शून्यतासिद्धिरिति तव मतिः / नैवं यतः "सत्यम्, अलीकं वा त्वयेदमम्युपगतम्?" इत्यादिपुनस्वदेवाऽऽवर्त्तते। किंच- अभ्युपगन्ताऽभ्युपगमोऽभ्युपमनीयं चेत्येतत्त्रयस्य सद्भावेऽभ्युपगमोऽप्येष भवतोयुज्यते, नच सर्वभावानामभावे एतत्त्रयं युक्तमिति॥१७३४॥१७३५।। अपिचसिकयासु किन तेलं, सामग्गीओ तिलेसु वि किमत्थि? किं वनसध्वं सिज्झइ, सामग्गीओ खपुष्पाणां // 1736 / / सर्वभावानाभसत्त्वे सर्वोऽपि प्रतिनियतो लोकव्यवहारः समुच्छिद्यते। तथाहि- भावाभावस्य सर्वत्राविशिष्टत्वात्किमिति सिकताकणसामग्रीतस्तैलंन भवति, तिलाऽऽदिसामग्यां वातत्किमस्ति? किं वा खपुष्पसामग्रीतः सर्वमपि कार्यजातंन सिध्यति? नचैवं, तस्मात्प्रतिनियतकार्यकारणभावदर्शनान्नाभावसामग्रीतः किमप्युत्पद्यते, किंतु यथास्वभावसामग्रीतः, तथा च सतिन शून्यं जगदिति।।१७३६॥ किंचसव्वं सामग्गिमयं, नेगंतोऽयं जओऽणुरपएसो। अह सो वि सप्पएसो, जत्थावत्था स परमाणू / / 1737 / / सर्व सामग्रीमयं सामग्रीजन्यं वस्त्वित्ययमपि नैकान्तः, यतो व्यणुकाऽऽदयः स्कन्धाः सप्रदेशत्वाव्यादिपरमाणुजन्यत्याद्भवन्तु सामग्रीजन्याः परमाणुः पुनरप्रदेश इतिनकेनचिजन्यते, इतिकथमसौसामग्रीजन्यः स्यात्? अस्तिचासौ, कार्यलिङ्गगम्यत्वात्। उक्तंच-"मूर्तरणुरप्रदेशः, कारणमन्त्य