________________ भाव 1467 - अभिधानराजेन्द्रः - भाग 5 भाव अण्णत्ते अण्णाणी, निव्वयणो वा कहं वाई? ||1721| | शून्यं सर्वमेवविश्वत्रयमित्येवंभूतंयद्विज्ञानं वचनं च तेन सह शून्यवादिनो भवत एकत्वमनेकत्वंवा ! यद्येकत्वं ततस्तदस्तिता वस्त्वस्तिता सिद्धति कुतः शून्यता, वृक्षत्वशिंशपात्वयोरिवैकत्वस्य वस्तुत्वात्? अन्यत्वेतु विज्ञानवचनयोरज्ञानी निर्वचनश्च वादी कथं शून्यतां साधयेत्। शिलासंघातवदिति।।१७२१॥ यच घटसत्त्वयोरेकत्वविकल्पेऽभ्यधायि, योघटः स एवास्तीतिघटमात्रेऽस्तित्वस्य प्रवेशाद् घट एवास्ति / यदि वाप्रतिपक्षाभावात्सोऽपि नास्तीति तत्राऽऽहघडसत्ता घडधम्मो, तत्तोऽणण्णो, पडाइओ मिण्णो। अस्थि त्ति तेण भणिए, को घड एवेति नियमोऽयं / / 1722 / / घटास्तित्वलक्षणा घटसत्ता घटस्य धर्मः, सच ततो घटादनन्योऽभिन्नः घटाऽऽदिभ्यस्तु सर्वेभ्योऽपि भिन्नः। तेन ततो घटोऽस्तीति भणिते घट एवेति घट एवास्ति इति कोऽयं नियमः, निजनिजसत्तायाः पटाऽऽदिष्वऽपि भावात्, तेऽपि सन्त्येवेति भाव / / 1722 / / तथाऽस्मिन्नेव घटास्तित्वयोरेकत्वविकल्पे यदुक्त- यो योऽस्ति सस घट इति सर्वस्य घटत्वप्रसङ्ग, घटस्य वा सर्ववस्त्वात्मकत्वमिति। तदपि सर्व घटसत्ता घटधर्मः, इत्यादिनैव परिहृतम्, अतएवाऽऽहजंवा जदत्थितं तं-घडो त्ति सव्वघडयापसंगो को? भणिए घडोत्थि व कहं, सव्वत्थित्तावरोहो त्ति? ||1723 / / यद्वा प्रोक्तं 'यद्यदस्ति तत्तत्सर्वं घटः' इति, तत्र कोऽयं सर्वघटताप्रसङ्गः? तथा यो घटः स एवास्तीत्यप्युक्ते कथं सर्वास्तित्वावरोधःकथं घटस्य सर्वाऽऽत्मकत्वम्? इत्यर्थः / यदा हि घटसत्ताघट एवास्ति नान्यत्र, तदा यत्र यत्र घटास्तित्वं तत्र तत्र घट इति न कश्चित्सर्वेषां घटताप्रसङ्गः, 'तथा घटसत्त्वेन घट एवास्ति' इत्येतस्मिन्नप्युक्ते न किञ्चिद् घटस्य सर्वात्मकत्व प्रतीयत इति भावः / / 1723 / / तदेवं प्रस्तुतं परपक्षमपाकृत्य स्वपक्षस्य भावा र्थमाहअत्थि त्ति तेण भणिए, घडोऽघडो वा घडो उ अत्थेव। चूओ चूओ व दुमो, चूओ उ जहा दुमो नियमा।।१७२४।। येन कारणेन घटसत्ता घटधर्मत्वाद्घट एवास्ति पटाऽऽदिभ्यस्तु भिन्ना, तेन तस्मादस्तीत्युक्ते घटोऽघटो वा पटाऽऽदिर्गम्यते, निजनिजसत्वस्य सर्वेषु पटाऽऽदिष्वपि भावात् (घडो उ अत्थेव त्ति)-घट इति तु प्रोक्ते अस्त्येवेति गम्यते, निजसत्त्वस्य नियमेन घटे सद्भावात्। अत्र यथासंख्यमुदाहरणद्वयम् / यथा द्रुमः, इत्युक्ते चूतोऽचूता वा निम्बाऽऽदिर्गम्यते, द्रुमत्वस्य सर्वत्र भावात्। चूत इति तु निगदिते द्रुम एव गम्यते, अद्रुमस्य चूतत्वायोगादिति // 1724 // यदुक्तं- यदेतज्जातं न जायते, नाप्यजातं, न च जाताजातं, नापि जायमानमित्यादि / तत्रोत्तरमाहकिं तं जायं ति मई,जायाऽजाओभयं पि जदजायं। अह जायं पि न जायं, किं न खपुप्फे वियारोऽयं? / / 1725 / / | प्रष्टव्योऽत्र देवानांप्रियः कथय किं तद्वस्तुजातमिति प्रतिपद्यतेतव मतिः, यज्जाताऽजातोभयाऽऽदिप्रकारैरुजातं साध्यते।यस्य जाताजाताssदिप्रकारैर्जन्म त्वया निषिध्यते इत्यर्थः / यदि हि जात किमपि वस्तुतव सिद्ध, तर्हि तत्सत्त्वेनैव प्रतिहता शून्यता, अतः "किं तज्जातंजायते? किं तदजातं जायते? किं तज्जाताऽजातं वा जायते?" इत्यादयः शून्यतासिद्ध्यर्थमुपन्यस्यमाना निरर्थका एव विकल्पा इतिप्रच्छकाभिप्रायः / अथ तदपि जातं जाताऽजातादिविकल्पाऽऽश्रयभूतं जातत्वेन भवतो न सिद्धं, किं त्वजातमेव तत्, ननु स्ववचनविरुद्धमिदंजातमप्यजातमिति / किं च- जातस्यासत्त्वे निराश्रयत्वाज्जाताजाताऽऽदिविकल्पा निरर्थका एव / अथैतदाश्रयभूतं जाताऽऽख्ये वस्तुन्यसिद्धेऽपि 'न जातं जायते, इत्यादिविकल्पविचारः प्रवर्तते तर्हि खपुष्पेऽप्यसौ किं न विधीयते, असत्त्वाविशेषेण "समया विवज्जओ वा'' इत्यादिव्यक्तदोषप्रसङ्गात्? न च वक्तव्यं परेषा सिद्धं जातमुररीकृत्य विकल्पा विधीयन्ते, स्वपरभावाभ्युपगमे शून्यताहानिप्राप्तेरिति // 1725 / / अपि चजइ सव्वहा न जायं, किं जम्माणंतरं तदुबलंभो। पुव्वं वाऽणुवलंभो, पुणो वि कालंतरहयस्स // 1726|| यदि सर्वैरपि प्रकारैर्घटाऽऽदि कार्य न जातमिति शून्ययादिना प्रतिपाद्यते, तर्हि मृत्पिण्डाऽऽयवस्थायामनुपलब्धं कुलालाऽऽदिसामग्रीनिवर्तितजन्मान्तरं किमिति तस्मात्तदुपलभ्यते? पूर्व वा जन्मतः किमिति तस्यानुपलम्भः? पुनरपि कालान्तरे लगुडाऽऽदिना हतस्य किमिति तस्यानुपलम्भः? अजातस्य गगननलिनस्येव सर्वदैव घटाऽऽदेरनुपलम्भ एव स्थात्, यस्तुकदाचिदुपलम्भ, कदाचित्तु नोपलम्भोऽसौ जातस्यैवोपपद्यते इति भावः।।१७२६।। किंचजह सध्वहा न जायं, जायं सुण्णवयणं तहा भावा। अह जायं पिन जायं, पयासिया सुन्नया केण? ||1727 / / शून्यं सर्व जगदित्येवंभूतं यच्छून्यताविषयं विज्ञानं वचनं च तद्यथा जाताऽजाताऽऽदिप्रकारैः सर्वथा जातमप्यजातमपि सत्केनापि प्रकारेण तावज्जातं, तथा भावा अपि घटपटाऽऽदयो जाता एष्टव्याः, इत्यतो न शून्यं जगद् / अथं शून्यताविज्ञानवचनद्वयं जातमप्यजातमिष्यते, तर्हि तद्विज्ञानवचनाभ्या विना केनाऽसौ शून्यता प्रकाशिता? न केनचिदिति शून्यताऽनुपपत्तिरिति / / 1727|| यदप्युक्तं- 'नजातं जायते नाप्यजातम्।' इत्यादि तदप्ययुक्तं, यतो विवक्षया सर्वैरपि प्रकारैर्यथासम्भवं वस्तु ज्ञायते, किं चित्तु सर्वथा न जायते, इति दर्शयतिजायइ जायमजायं, जायाजायमह जायमाणं च / कजमिह विवक्खाए, न जायए सव्वहा किंचि // 1728|| रूवि त्ति जाइ जाओ, कुंभो संठाणओ पुणरजाओ। जायाजाओ दोहि वि, तस्समयं जायमाणो त्ति // 1726 / / पुव्वकओ उघडतया, परपज्जाएहिं तदुभएहिं च। जायंतो य पडतया, न जायए सय्वहा कुंभो / / 1730 //