________________ भाव 1466 - अभिधानराजेन्द्रः - भाग 5 भाव हन्त यदि सर्वशून्यता, ततः किमिति ह्रस्यादेव प्रदेशिनो प्रभृतिद्रव्याद्दीर्घ मध्यमाऽऽदिद्रव्ये दीर्घज्ञानाभिधानव्यवहारःप्रवर्तते। दीर्घापेक्ष एव दीर्घन ज्ञानाभिधानेन व्यवहारः किं न प्रवर्तते, असत्त्वाविशेषादिति भावः / एवं "किं दीहाओ हस्से, हस्साओ चेव किं न हस्सम्मि / / " इत्येतदपि द्रष्टव्यम् / तथा किमिति वा न खपुष्पाद्दी! ह्रस्वेवा तज्ज्ञानाभिधानव्यवहृतिर्विधीयते! तथाऽसत्त्वाविशेषत एव किमिति खपुष्पात्खपुष्प एव ह्रस्वदीर्घज्ञानाऽऽदिव्यवहारोन प्रवर्तते? न चैवं, तस्मात्सन्त्येव भावाः, न तु शून्यता जगत इति / / 1712 // अपिचकिं वाऽवेक्खाए चिय, होज मई वा सभाव एवायं / सो भावो त्ति सभावो, वंझापुत्ते न सो जुत्तो।।१७१३।। अथवा- सर्वस्यापि असत्त्वे ह्रस्वाऽऽदेर्दीर्घाऽऽद्यपेक्षयाऽपि किं कर्त्तव्यम्, शून्यताप्रतिकूलत्वात्तस्याः,घटाऽऽद्यर्थसत्ववद्? अथ परस्य मनिर्भवेत् स्वभावादेवापेक्षयैव हुस्वदीर्घाऽऽदिव्यवहारः प्रवर्तते / न च स्वभावः पर्यनुयोगमर्हति-तथा चोक्तम्-"अग्रिर्दहति नाऽऽकाशं, कोऽत्र पर्यनुयुज्यताम्।" इति। हन्त इत्थमपि हतोऽसि, यतः स्वो भावः स्वभावस्ततः स्वपरभावाभ्युपगमात् शून्यताऽभ्युपगमहानिः / न च वन्ध्यापुत्रकल्पानामर्थानां स्वभावपरिकल्पना युक्तेति / भवतु वाऽपेक्षा तथापि शून्यतासिद्धिः।।१७१३॥ कुतः? इत्याहहोजावेक्खाओ वा, विण्णाणं वाऽभिहाणमेत्तं वा। दीहं ति व हस्सं ति व, न उ सत्ता सेसधम्मा वा / / 1714 / / अथवा स्वतः सिद्धे वस्तुन्यपेक्षातो भवेत् किम्? इत्याह-विज्ञानमभिधानमात्रं वा। केनोल्लेखेन? इत्याह-दीर्घमिति वा, ह्रस्वमिति वेति / किं पुनर्न भवेदित्याह- न त्वन्यापेक्षया वस्तूनां सत्ता भवति, नाप्यापेक्षिकहस्वदीर्घत्वाऽऽदिधर्मेभ्यः शेषाः रूपरसाऽऽदयो धा अन्यापेक्षया सिध्यन्ति। उत्पद्यन्ते च वस्तुसत्ताग्राहकाणि, रूपाऽऽदिधर्मग्राहकाणि च ज्ञानानि / अतोऽन्यापेक्षा भावतः कथं स्वतः सिद्धस्य वस्तुसत्ताऽऽदेरभावः? तत्सद्भावे च कथं शून्यता जगत०? इति // 1714 // कथं पुनः सत्ताऽऽदयोऽन्यापेक्षा? इत्याहइहरा हस्साभावे, सय्वविणासो हवेजदीहस्स। न यसो तम्हा सत्तादयोऽणविक्खा घडाईणं // 1715 / / इतरथा यदि घटाऽऽदीनां सत्ताऽऽदयोऽप्यन्यापेक्षा भवेयुः, तदा ह्रस्वाभावे ह्रस्वस्य सर्वविनाशे दीर्घस्यापि वस्तुनःसर्वविनाशः स्यात्, ह्रस्वसत्तापेक्षित्वात् दीर्घसत्ताऽऽदीनाम न चैवमसौदीर्घस्य सर्वविनाशो दृश्यते, तस्मान्निश्चीयतेसन्त्यन्यानपेक्षा एव घटाऽऽदीनां सत्तारुपाऽऽदयो | धर्माः, तत्सत्वे चापास्ता शून्यतेति।।१७१५।। यदुक्तं न स्वतो नापि परतो नापि चोभयतो भावानां सिद्धिः, अपेक्षत | इत्यादि। अत्रापेक्षात इति विरुद्धो हेतुः, विपक्ष एव सत्त्वादिति दर्शयन्नाह- 1 जावि अविक्खाऽविक्खणमविक्खगोऽविक्खणिजविक्ख। सान मया सव्वेसु वि, संतेसु न सुन्नया नाम / / 1716|| याऽपीय ह्रस्वाऽऽदेर्दीर्घोऽऽद्यपेक्षा साऽप्यपेक्षणं क्रियारूप, तथा अपेक्षक करिमपेक्षणीयं च कर्मानपेक्ष्य न मता न वि दुषां सम्मता / ततः किमित्याह- एतेषु चापेक्षणापेक्षकापेक्षणीयेषु सर्वेषु वस्तुषु सत्सु न काचिच्छून्यता नाम, अतोऽपेक्षकाऽऽदिसत्त्वलक्षणे विपक्ष एवापेक्षालक्षणस्य हेतोवृत्तत्वाद्विरुद्धत्वमिति / / 1716 / / तस्मात्स्वतः, परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतो, निश्चयतस्तु स्वतः सिद्धा एव सर्वे भावा इति दर्शयतिकिंचि सओ तह परओ, तदुभयओ किंचि निचसिद्धं पि! जलओ घडओ पुरिसो, तह ववहारओ नेयं / / 1717 // निच्छयओ पुण बाहिरनिमित्तमेत्तोवओगओ सव्वं / होइ सओ जमभावो, न सिज्झइ निमित्तभावे वि 1718 इह किञ्चित्स्वत एव सिद्ध्यति, यथा कटनिरपेक्षस्तत्कारणद्रव्यसंघातविशिष्टपरिणामरूपोजलदः / किं चित्तु परतो, यथा कुलालकर्तृको घटः। किं चिदुभयतो, यथा मातापितृभ्यां स्वकृतकर्मतश्च पुरुषः। किं चिन्नित्यसिद्धमेव, यथा आकाशम् / एतय व्यवहारनयापेक्षया द्रष्टव्यम् निश्चयतस्तु बाह्य निमित्तमात्रमेवाऽऽश्रित्य सर्व वस्तु स्वत एव सिद्ध्यति, यद्यस्माद् बाह्यनिमित्तसद्भावेऽपि खरविषाणाऽऽदिरूपोऽभावः कदाचिदपि न सिद्धयति। उभयनयमतं च सम्यक्त्वमिति / / 1717 / 1718 / / अथ यदुक्तम्-"अत्थित्तघडेगाणेगया व'' इत्यादि, तत्प्रतिविधातुमाहअत्थित्तघडेगाणे-गया य पज्जायमेतचिंतेयं / अत्थि घडे पडिवन्ने, इहरा सा किं न खरसिंगे ?||1719 / / इहास्ति घटो न तु नास्तीत्येवं प्रतिपन्ने सति तदनन्तरमेवास्तित्वघटयोः किमेकताऽनेकता वेत्यादिना घटारितत्वयोरेकरवानेकत्वलक्षणपर्यायमात्रचिन्तैव भवता कृता भवति नतुतयोरभावः सिद्ध्यति। अन्यथा ह्यभावरूपा विशेषात् यथा घटास्तित्वयोः, एवं खरविषाणबन्ध्यापुत्रयोरप्येकत्वा-नेकत्वचिन्ता भवतः किंन प्रवर्तते इति॥१७१६।। कि च? यथा घटास्तित्वयोरेकत्वानेकत्वविकल्पौ त्वं विधत्से, तथा घटशून्यतयोरपि तौ विधातुं शक्यते। कथम्? इत्याहघडसुन्नयनयाए, वि सुम्नया का घडाहिया सोम्म!। एगत्ते घडओ चिय, न सुन्नया नाम घडधम्मो / 1720 // ननु घटशून्यतयोरप्यन्यताऽनन्यतावा? यद्यन्यता, तर्हि (सुन्नया का घडाहिया सोम्म त्ति) सौम्य व्यक्त ! शून्यता का घटाऽऽदिका नाम ? ननु घटमात्रमेव पश्यामो, नपुनः क्वचिच्छून्यता घटादधिका समीक्ष्यते। अथाऽनन्यता, तथाऽपि सति सघटशून्यत्वयोरेकत्वे घट एवासौ युज्यते, प्रत्यक्षत-एवोपलभ्यमानत्वात्, न तु शून्यत्वं नाम कश्चित्तद्धर्मः, सर्वप्रमाणैरनुपलब्धेरिति / / 1720 / / अपिचविण्णाणवयणवाईण-मेगया तो तदत्थिया सिद्धा।