________________ भाव 1465 - अभिधानराजेन्द्रः - भाग 5 भाव सर्वशून्यतायां चेष्यमाणायां स्वप्नास्वप्नाऽऽदिव्यवहा राभावप्रसङ्ग एवेति दर्शयन्नाहसव्वाभावे च कओ, सुमिणोऽसुमिणो त्ति सच्चमलियं ति।। गंधव्वपुरं पाडलिपुत्तं तत्थोवयारो त्ति? ||1705 / / कजं ति कारणं ति य, सज्झमिणं साहणं ति कत्त त्ति। वत्ता वयणं वच्चं, परपक्खोऽयं सपक्खोऽयं ? ||1706 / / किं वेह थिरदवोसिणचलयाअरुवित्तणाइँ निययाई। सद्दादओ य गज्झा, सोत्ताईयाइँ गहणाइं?||१७०७।। समया विवजओ वा, सव्वागहणं व किं न सुण्णम्मि। किं सुन्नया व सम्मं, सग्गहो किं व मिच्छत्तं? ||1708|| किह सपरोभयबुद्धी, कहं च तेसिं परोप्परमसिद्धी। अह परमईऍ भण्णइ, सपरमइविसेसणं कत्तो? ||1706 // सर्वाभावेच सर्वशून्यतायां चाभ्युपगम्यमानायां स्वप्नोऽयम् अस्वप्नोऽयमिति कुतः किंकृतोऽयं विशेषः? इत्यर्थः / तथा सत्यमिदम् अलीक वा; तथा गन्धर्वपुरमेतत् पाटलीपुत्राऽऽदि चेदं; तथा- "तत्थोवयारो त्ति" अयं तथ्यो निरुपचरितो मुख्यश्चतुष्पदविशेषः सिंहः, अयंत्वौपाचारिके मनुष्यविशेषो माणवकः तथा कार्यमिदं घटाऽऽदि, कारणं चेदं मृत्पिण्डाऽऽदि, तथा। साध्यमिदमनित्यात्वाऽऽदि, साधनं कृतकत्याऽऽदि, कर्ता घटाऽऽदेः कुलालाऽऽदिः, तथा अयं वक्ता यादी, वचनं चेदं त्र्यवयवं पञ्चावयवा, इदंचवाच्यमभिधेयमस्य शब्दसन्दर्भस्य, तथाऽय स्वपक्षः, अयं च परपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते ? 'किं वेह थिरेत्यादि।' पृथिव्याः स्थिरत्वम्, अपांद्रवत्वं, वह्रुष्णत्वं, वायोश्चलत्वम्, आकाशस्यारूपित्वमित्यादयो नियताः सर्वदैवकस्वभावा विशेषाः सर्वशून्यतायां कुतो गम्यन्ते ? तथा शब्दाऽऽदयो ग्राह्या एव इन्द्रियाणि च श्रोत्रादीनि ग्राहकाण्येवेति कुतो नियमसिद्धिः। (समयेत्यादि) ननु सर्वशून्यतायां स्वप्रास्वप्रसत्यालीकाऽऽदीनां विशेषनिबन्धना-भावात् समतैव कस्मान्न भवति यादृशः स्वप्रः, अस्वनोऽपि तादृश एव, यादृशश्चास्वप्रः स्वप्रोऽपि तादृश एवेत्यादि? अथवा- विपर्ययः कुतो न भवति-यः स्वप्रः सोऽस्वप्रो, यस्त्वस्वनः स स्वप्रः इत्यादि? यदि वा सर्वेषामपि स्वप्नास्वप्नाऽऽदीनां सर्वथा शून्यत्वेऽग्रहणमेव कस्मान्न भवति? भ्रान्तिवशादेव स्वप्नाऽस्वप्नाऽऽदिग्रहणमिति चेत् / तदयुक्त देशकालस्वभावाऽऽदिनयत्येन तद्ग्राहकज्ञानोत्पत्तेः / किं च - इयं भ्रान्तिः किं विद्यते, नवा? यदि विद्यते त_भ्युपगमविरोधः। अथ न विद्यते, तर्हि भ्रान्तेरसत्त्वाभावग्राहकज्ञानस्य निर्धान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः शून्यतेति। अथवा अन्यत्पृच्छामो भवन्तंननु सर्वशून्यत्वे शून्यतैव सम्यक्त्वं सतां भावानां ग्रहणं सद्ग्रहो, भावसत्वग्रहणं पूनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः? यदुक्तंन स्वतो भावानां सिद्धिरित्यादि तत्प्रतिविधानार्थमाह- (किह सपरोभयेत्यादि) ननु कथं ह्रस्वदी?भयविषये इद ह्रस्वमिदं दीर्घम्, एतत्तु तदुभयमित्येवंभूता स्वपरोभयबुद्धियुगपदाश्रीयते भवता? कथं च तेषां ह्रस्वदी|भयानां परस्परमसिद्धिरुघुष्यते? पूर्वापरविरुद्धत्वान्नैतद्वक्तुं युज्यत इत्यर्थः / अयमत्र / भावार्थः- नखल्वापेक्षिकमेव वस्तूनां सत्त्वं, किंतुस्वविषयज्ञानजननाऽऽद्यर्थक्रियाकारित्वमपि / ततश्च ह्रसवदी?भयान्यात्मविषयं चेज्ज्ञानं जनयन्ति, तदा सन्त्येव तानि, कथं तेषामसिद्धिः? यदप्युक्तम्मध्यमाङ्गुलिमपेक्ष्य प्रदेशिन्यां ह्रस्वत्वमसदेयोच्यते इति। तदप्ययुक्तम्, यतो यदि मध्यमामपेक्ष्य प्रदेशिन्यां स्वतः सर्वथाऽसत्यामपि ह्रस्वत्वं भवति, तदा विशेषाभावात् खरविषाणेऽपि तद्भवेदतिदीर्धेष्विन्द्रयष्ट्यादिष्वपि च तत्स्यात्। अथवा प्रदेशिन्याः स्वापेक्षया स्वात्मन्यपि ह्रस्वत्वं स्यात्, सर्वत्रासत्त्वाविशेषात्। न चैवम् / तस्मात्स्वतः सत्यामेव, प्रदेशिन्या वस्तुतोऽनन्तधर्माऽत्मकत्वात् तत् सहकारिसन्निधौ तत्तद्रूपाभिव्यक्तेस्तत्तज्ज्ञानमुत्पद्यते, न पुनरसत्यामेव तस्यामपेक्षामात्रत एव ह्रस्वज्ञानमुघजायते / एवं दीर्घोभयाऽऽदिष्वपि वाच्यम्। अथेदं ह्रस्वमिदं दीर्घमेतचोभयमित्यादि स्वपरोभयबुद्धिः परमत्या पराभ्युपगमेनोच्यते, न पुनः स्वतः सिद्धं स्वविषयज्ञानजनकं ह्रस्वाऽऽदिकं किञ्चिदस्त्यतो न कश्चित् पूर्वापरविरोध इत्यत्राऽऽह- ननु सर्वशून्यत्वे इदं स्वमतम्, एतच परमतमित्येतदपि स्वपरभावेन विशेषणं कुतो ? न कुतश्चिदित्यर्थः, स्वपरभावेऽपि "समयाविजओ वा" इत्याद्ये-वावर्त्तत इति भावः / स्वपरभावाऽऽद्यभ्युपगमे च शून्यत्वाभ्युपगमहानिरिति / / 1705 / / 1706|| 1707 / / 1708 // 1706 / / अपि चजुगवं कमेण वा ते, विण्णाणं होज दीहहस्सेसु / जइ जुगवं काऽवेक्खा , कमेण पुय्वम्मि काऽवेक्खा ?||1710 / / आइमविण्णाण्णं वा, जं बालस्सेह तस्स काऽवेक्खा। तुल्लेसु व काऽवेक्खा , परोप्परं लोयणदुगे व्व? // 1711 / / ननु मध्यमा प्रदेशिन्यादिहस्वदीर्घयोस्तवाभिप्रायेण स्वाऽऽकारप्रतिभासि ज्ञानं किं युगपदेव भवेत्, क्रमेण वा? यदि युगपत्तर्हि परानपेक्षं द्वयोरपि युगपदेव स्वप्रतिभासिनि ज्ञाने प्रतिभासात्कस्य किल काऽपेक्षा? अथ क्रमेण, तदापि पूर्वमेव स्वप्रतिभासिना ज्ञानेन परानपेक्षमेव ह्रस्कस्य प्रदेशिन्यादेहीतत्वादुत्तरस्मिन् मध्यमाऽदीके। दीर्घकाऽपेक्षा? तस्माच्चक्षुरादिसामग्रीसद्भावे परानपेक्षमेव स्वकीयविविक्तरूपेण सर्वभावानां स्वज्ञाने प्रतिभासात्स्वत एव सिद्धिः / अथवा-बालस्य तत्क्षणमेव जातस्य शिशोर्यदिह नयनोन्मेषानन्तरमेवाऽऽदौ विज्ञानं, तत्किमपेक्ष्य प्रादुरस्ति? यदि वा-ये न ह्रस्वे नापि दीर्धे, किंतु परस्पर तुल्ये एव वस्तुनी, तयोर्युगपदेव स्वप्रतिभासिना ज्ञानेनैव गृह्यमाणयोः का अन्योन्यापेक्षा? नकाचित्, यथा तुल्यस्य लोचनयुग्मस्य।तस्मादगुल्यादिपदार्थानां नान्यापेक्षमेव रूपं, किं तु स्वप्रतिभासवता ज्ञानेनान्यनिरपेक्षा एव ते स्वरूपतोऽपि गृह्यन्ते। उत्तरकालं तु तत्तद्रूपजिज्ञासायां तत्तत्प्रतिपक्षस्मरणाऽऽदिसहकारिकारणान्तरवशादीर्घहस्वाऽऽदिव्यपदेशाः प्रवर्तन्ते, इति स्वतः सिद्धा एव सन्ति भावा इति // 1710 / / 1711 // अपिचकिं हस्साओ दीहे, दीहाओ चेव किं न दीहम्मि / कीसवन खपुप्फाओ, किं न पुखप्फे खपुप्फाओ ?||1712 / /