________________ भाव 1594 - अमिधानराजेन्द्रः - भाग 5 भाव भावे च सामर यामप्यभावात्सिकतातैलवन्न सन्त्येव भावाः, भावसत्त्वे च | कुतः सामग्रीसद्भाव इति॥१६६५॥ प्रकारान्तरेणापि शून्यतासिद्ध्यर्थमाहपरभागादरिसणओ, सव्वाराभागसुहमयाओय। उभयाणुवलंभाओ, सव्वाणुवलद्धिओ सुण्णं / / 1666 / / इह यत् ताक्ददृश्यं, तदसदेव, अनुपलम्भात्खरविषाणवदिति निवृत्ता तद्वार्ता दृश्यस्यापि च स्तम्भकुम्भकुड्याऽऽदेः परमध्यभागयोरसत्त्वमेव अर्वाग्भागान्तरितत्वेन तयोरप्यदर्शनात, आराद्भागस्यापि च सावयत्वात्पुनरन्यः खल्वाराद्भागस्तस्याप्यन्यः पुनस्तस्याप्यन्य इत्येवं तावद्यावत्सारातीयभागस्य, परमाणुप्रतरमात्रत्वेनातिसौक्ष्म्यात्पूर्वेषां चाराद्भागानामन्यस्यान्येनान्तरितत्वेनानुपलब्धेः / ततश्वोक्तन्यायेन / परभागसर्वारातीयभागलक्षणोभयभागानुपलम्भात्सर्वस्यापि वस्तुजातस्यानुपलब्धेः शून्यं जगदिति। उक्तं च -"यावद्दृश्यं परस्तावद्भागः स च न दृश्यते / तेन तेनाभिलाप्या हि, भावाः सर्वे स्वभावतः / / 1 / / " तदेवमुक्तयुक्त्या सर्वस्यापि भूताऽऽदेरभावः प्राप्नोति, श्रूयते च श्रुतौ भूताऽऽदिसद्भावोऽपीति संशय इति पूर्वपक्षः। (3) अथ भगवान् प्रतिविधानमाहमा कुरु वियत्त ! संसयमसइन संसयसमुब्भवो जुत्तो। खकुसुमखरसिंगेसु व, जुत्तो सो थाणुपुरिसेसु / 1667 / आयुष्मन् व्यक्त मा कृथाः संशयं मा भूताभाव बुध्यस्व, यतोऽसति भूतकदम्बके संशयः खकुसुमखरविषाणयोरिव न युक्तः, अपित्वभावनिश्चय एव स्यात्, सत्स्वेव च भूतेषु स्थाणुपुरुषाऽऽदिष्विव संशयो युक्तः / यदि पुनरसत्यपि वस्तुनि सन्देहः स्यात्तदाऽविशेषेण खरविषाणाऽऽदिष्वपि स्यादिति भावः। एतदेव भावयतिको वा विसेसहेऊ, सव्वाभावे वि थाणुपुरिसेसु। संका न खपुप्फाइसु, विवज्जओ वा कहं न भवे? 11668 / / को वाऽत्र विशेषहेतुरुच्यतां यत्सर्वाभावे सर्वशून्यतायामविशिष्टायामपि स्थाण्वादिषु संशयो भवति, नखपुष्पाऽऽदिषु? ननु विशेषहेत्वभावादविशेषेण सर्वत्र संशयोऽस्तु, नियामकाभावात्। विपर्ययो वा भवेत्, खपुष्पाऽऽदिषुसंशयः स्याद्न स्थाण्वादिषु इति भावः। अपिचपच्चक्खओऽणुमाणादागमओ वा पसिद्धिरत्थाणं / सव्वप्पमाणविसयाभावे किह संसओ जुत्तो? 11666 / यदा हि प्रमाणैरर्थानां प्रसिद्धिर्जाता भवेत्तदा कथञ्चित्कचिद्वस्तुनि संशयो युज्येत / यदा च सर्वेषां प्रमाणानां सर्वेषां च तद्विषयाणामभावस्तदा कथं संशयोऽस्तु, संशयस्य ज्ञातृज्ञेयाऽऽद्यर्थसामग्रीजन्यत्वात्? सर्वशून्यत्वे च तदभावान्न संशयोद्भूतिः, निर्मूलत्वादिति भावः // 1666 एतदेव समर्थयतिजं संसयादओ नाणपज्जयातं च नेयसंबद्धं / सव्वन्नेयाभावे, न संसओ तेण ते जुत्तो।।१७००।। यस्मात्संशयविपर्ययानध्यवसायनिर्णया विज्ञानपर्ययाः, तच ज्ञेयनिबन्धनमेव, सर्वशून्यतायां न ज्ञेयमस्ति, तस्मान्न तव संशयो युक्तः 1 सति च संशयेऽनुमानसिद्धा एव भावाः॥१७००।। कथमित्याहसंति च्चिय ते भावा, संसयओ सोम्म! थाणुपुरिसु व्व। अहादिटुंतम सिद्धं, मण्णसि नणु संसयाभावो॥१७०१।। सौम्य ! सन्ति भवतोऽपि भावाः, संशयसमुत्थानाद्, इह यत्संशय्यते तदस्ति, यथा स्थाणुपुरुषो; यच्चासद् न तत्संशय्यते, यथा खपुष्पखरविषाणे। अथ स्थाणुपुरुषलक्षणं दृष्टान्तमसिद्ध मन्यसे त्वं, सर्वेषामपि स्थाणुपुरुषाऽऽदिभावानामविशेषेणैवासत्त्वाभ्युपगमात्, तदयुक्त, यतो ननु सर्वभावासत्त्वे सशयाभाव एव स्याद्, इत्युक्तमेवेति / / 1701 / / अथ परमतमाशक्य परिहरनाहसव्वाभावे विमई,संदेहो सिमिणए व्व नो तं च / जं सरणाइनिमित्तो, सिमिणो न उ सव्वहा भावो।१७०२ स्यान्मतिः परस्य सर्वाभावेऽपि स्वप्ने दृष्टः संशयो, यथा किल कश्चित्पामरो निजगृहागणे किमयं द्विपेन्द्रो महीध्रो वेति संशेते, न च तत्तत्र किञ्चिदप्यस्ति, एवमन्यत्र सर्वभावाभावेऽपि संशयो भविष्यति। तच्चन, यद्यस्मात्स्वप्नेऽपि पूर्वदृष्टानुभूतस्मरणाऽऽदिनिमित्तःसंदेहो, नतु सर्वथा भावाभावेऽसौ कापि प्रवर्तते / अन्यथा हि यत्षष्ठभूताऽऽदिकं वचिदपि नास्ति तत्रापि संशयः स्याद्विशेषाभावादिति। ननु किं स्वप्नोऽपि निमित्तमन्तरेण न प्रवर्तते ? एवमेतत्॥१७०२।। कानि पुनस्तन्निमित्तानीत्याहअणुभूयदिट्ठचिंतिय-सुयपयइवियारदेवयाऽणूया। सिमिणस्स निमित्ताई, पुण्णं पावं च नाभावो // 1703 / / स्नानभोजनविलेपनाऽऽदि कमन्वदाऽनुभूतं स्वप्ने दृश्यते, इत्यऽनुभूतोऽर्थःस्वप्नस्य निमित्तम् / अथवा-करितुरगाऽऽदिकोऽन्यदा दृष्टोऽर्थस्तन्निमित्तं विचिन्तितश्च प्रियतमालाभाऽऽदिः। श्रुतश्च स्वर्गनरकाऽऽदिः / तथा, वातपित्ताऽऽदिजनितः प्रकृतिविकारःस्वप्नस्य निमित्तम्। तथा, अनुकूला प्रतिकूला वा देवता तन्निमित्तम्। तथाऽनूपःसजलप्रदेशः / तथा पुण्यमिष्टस्वप्नस्य निमित्तं, पापं चानिष्टस्य तस्य निमित्तं, न पुनर्वस्त्वभावः / किं च-स्वप्नोऽपि तावद्भाव एव; ततस्तस्यापि सत्त्वे कथं शून्यं जगदिति भवता प्रतिज्ञायते ? // 1703 / / कथं पुनः स्वप्नस्य भावत्वम्? इत्याहविण्णाणमयत्तणओ, घडविण्णाणं व सुमिणओ भावो। अहवा विहियनिमित्तो, घडो व्व नेमित्तियत्ताओ।।१७०४|| भावःस्वप्न इति प्रतिज्ञा, विज्ञानमयत्वादिति हेतुः, घटविज्ञानवदिति दृष्टान्तः / अथवा-भावःस्वप्नो, नैमित्तिकत्वात्, निमित्तैर्निष्पन्नो नैमित्तिकस्तद्भावस्तत्त्वं, तस्मादित्यर्थः घटवदिति / कथं पुनः स्वप्नो नैमित्तिकः? इत्याह-यतो विहितनिमित्तः, विहितानि "अणुहूयदिट्ठचिंतिय'' इत्यादिना प्रतिपादितानि निमित्तानि यस्यासौ विहितनिमित्त इति॥१७०४॥