________________ भाव 1463 - अभिधानराजेन्द्रः - भाग 5 भाव तत्र कार्य कारणेन क्रियतइति कारणाऽऽयत्त एव तस्य कार्यत्व-व्यपदेशो, न तु कार्यस्य कार्यत्व स्वतः सिद्ध किमप्यस्ति / एवं कारणमपि कार्य करोतीति कार्याऽऽयत्त एव तस्य कारणत्वव्यपदेशौ, न तुतस्यकारणत्वं स्वतः सिद्ध किश्चदस्ति / तदेवं कार्याऽऽदिभावः स्वतो न सिध्यति। यच स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य। ततश्च न स्वतः कार्याऽऽदिभावो, नापि परतः स्वपरोभयतस्तर्हि तस्य सिद्धिरिति चेत् / तदयुक्तम्, व्यस्तादुभयतस्तत्सिद्धरभावात्तत्समुदायेऽपि तदयोगात्। न हि सिकताकणेषु प्रत्येकमसत्तैलं तत्समुदाये प्रादुर्भवति। अपि च- उभयतः सिद्धिपक्ष इतरेतराऽऽश्रयदोषः प्राप्नोति / यावद्धि कार्य न सिद्ध्यति न तावत्कारणसिद्धिरस्ति, यावच कारणं न सिध्यति न तावत्कार्य सिद्धिमासादयति। अत इतरेतराऽऽश्रयदोषः। तस्मान्नोभयतोऽपि कार्याऽऽदिभावसिद्धिः। नाप्यन्यतः-अनुभयत इत्यर्थः स्वपरोभयव्यतिरेकेणाऽन्यस्य वस्तुनोऽसत्वेन निर्हेतुकत्वप्रसाङ्गाद् एवं ह्रस्वदीर्घलक्षणे दृष्टान्तेऽपि अपेक्षात इत्यस्य ह्रस्वदीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः / तथाहि-प्रदेशिन्या अड्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते, मध्यमां त्वपेक्ष्य ह्रस्वत्वं, परमार्थेन त्वियं स्वतो न ह्रस्वा, नापि दीर्घा / तदेवं न स्वतो ह्रस्वदीर्घत्वयोः सिद्धिः ततः स्वतः परतः उभयत, अनुभयतश्चतत्सिद्ध्यभावो यथोक्तवद्भावनीयः तदुक्तम्"न दीर्घऽस्तीह दीर्घत्वं, न ह्रस्वे नापि च द्वये। तस्मादसिद्ध शून्यत्वा-त्सदिल्याख्यायते क्व हि ? ||1|| ह्रस्व प्रतीत्य सिद्ध, दीर्घ दीर्घ प्रतीत्य हृस्वमपि / न किश्चिदस्ति सिद्ध, व्यवहारवशाद्वदन्त्येवम् / / 2 / / " / / 1662 / / इतश्च सर्व जगच्छून्यता, कुतः? इत्याहअस्थित्तघडे आणेगया व सवे गयाइदोसाओ। सव्वेऽणमिलप्पावा, सुण्णा वा सव्वहा भावा / / 1663|| नन्वस्तित्वधटयोरेकत्वम्, अनेकत्वं वा ? यद्येकत्वं, तर्हि सर्वे कता प्राप्नोति-यो योऽस्ति स स घट इत्यस्ति त्वे घटस्य प्रवेशात्सर्वस्य घटत्वप्रसङ्गः स्यात्।नपटाऽऽदिपदार्थान्तरम्। घटोवा सर्वसत्वाव्यतिरेकात्सर्वाऽऽत्मकः स्याद्। अथवा-यो घटः स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्ट, ततोऽन्यत्र सत्वाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैकः स्यात् / सोऽपि वा न भवेद्, अघटव्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्ष भूतोऽघट एव नास्ति, तदा किमपेक्षोऽसौ घटः स्यात्? इति सर्वशून्यत्वमिति। अथ घटसत्वयोरन्यत्वमिति द्वितीयो विकल्पः। तर्हि सत्वरहितत्यादसन् घटः, खरविषाणवदिति। अपि च सतो भावः सत्वमुच्यते, तस्य च स्वाऽऽधारभूतेभ्यो घटाऽऽदिभ्यः सदभ्योऽन्यत्वेऽसत्वमेव स्याद्, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः। तदेवमस्तित्वेन सह घटाऽऽदीनामेकत्वान्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वेकताऽऽदिदोषप्रसङ्गात्सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः, सर्वथैव तेषामभावो वा भवेदित्यर्थः / अपियन्नोत्पद्यते तत्तावन्निर्विवादं खरविषाणवदसदेव, इति निवृत्ता तत्कथा यदप्युत्पत्तिमलोकेऽभ्युपगम्यते, तस्यापि जाताऽजाताऽऽदिविकल्पयुक्तिभिरुत्पादो न घटते, इति शून्यतैव युक्ता इति।।१६६३।। एतदेऽऽवाहजायाऽजाओभयओ, न जायमाणं व जायए जम्हा। अणवत्थाऽभावोभयदोसाओ सुन्नया तम्हा।।१६६४॥ इह तावन्न जातं जायते, जातत्वादेव, निष्पन्नघटवद् / अथ जातमपि जायते, तीनवस्था, जातत्याविशेषेण पुनः पुनर्जन्मप्रसङ्गात्। अथाजात जायते / तत्रोत्तरमाह- (आभव त्ति) सूचकत्वात्सूत्रस्य, तभावोऽपि खरविषाणलक्षणो जायताम्-अजातत्वाविशेषात् अथ जाताजातरूपं जायते। तदप्ययुक्तम्। कुत इत्याह- उभयदोषात्प्रत्ये कोभयपक्षोक्तदोषाऽऽपत्तेरित्यर्थः / किञ्च एतज्जाता-जातलक्षणमुभयमस्तिवा, नवा? यद्यस्ति तर्हि जातमेव तन्न पुनरुभयं, तत्र चोक्तो दोषः / अथ नास्ति तथाऽपि नोभयं तत् किं त्वजातमेव, तत्राप्यभिहितमेव दूषणम्। नापि जायमान जायते, सर्वोक्तविकल्पद्वयानतिवृत्तेः / तथाहि- तदपि जायमानमस्ति, न वा? यद्यस्ति, तर्हि जातेमव तत्, नास्ति चेत् तर्हि जावमेव / पक्षद्वयेऽपि चास्मिन्नभिहित एव दोषः / उक्तं च, गतं न गम्यते ताव-दगतं नैव गम्यते / गतागतविनिर्मुक्तं, गम्यमान न गम्यते / / 1 // " इत्यादि / यस्मादेव, तस्मादनवस्थाऽऽदिदोषप्रसङ्गे न वस्तूनामुत्पादायोगाजगतः शून्यतैव युक्तेति॥१६६४।। प्रकारान्तरेणापि वस्तूत्पत्ययोगतः शून्यतासाधनार्थमाहहेऊपचयसाम- ग्गिवीसु भावेसु नो व जं कजं / दीसइ सामग्गिमयं, सध्वाभावेण सामग्गी॥१६६५।। हेतव उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतुप्रत्ययानां या सामग्री तस्याविश्वग्भावेषु पृथगवस्थासु यक्तार्य न दृश्यते, दृश्यते च सामग्रीमयं संपूर्णसामग्र्यवस्थायां पुनर्दृश्यत इत्यर्थः / एवं च सति कार्यस्य सर्वाभाव एव युक्त इतिशेषः / सर्वाभावेचन सामग्री, नैव सामग्रीसद्धावः प्राप्नोतीत्यर्थः। ततः सर्वशून्यतैवेति भावः इदमत्र हृदयमहेतवश्व प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति संभूय वा? न तावदैकैकशस्तथाऽनुपलब्धेः / तत एकैकस्माक्तार्यस्याभावात्सामग्रयामपि तदभाव एव स्याल्सिकताकणतैलवदिति / इत्थं च सर्वस्यापि कार्यस्योत्पत्यभावे सामग्रीसद्भावो न प्राप्नोति, अनुत्पन्नायाः सामग्र्या अप्ययोगात्। ततश्च सर्वशून्यतैव जगतः। उक्तंच"हेतुप्रत्ययसामग्री, पृथग्भावेष्वदर्शनात्। तेन तेनाभिलप्या हि, भावाः सर्वे स्वभावतः / / 1 / / लोके थावत्संज्ञा, सामग्र्यामेव दृश्यते यस्मात्। तस्मान्न सन्ति भावाः, भावे सति नास्ति सामग्री / / 2 / / " इत्यादि। अस्य च व्याख्या-पृथग्भावेष्वदर्शनाक्तार्यस्येति शेषः / तेन ते घटाऽऽदयो भावाः सर्वेऽपि स्वभावतः स्वरूपतो नाभिलाप्याः पृथगेकैकावस्थायां कार्यस्यानुत्पादात् उत्पत्तिमन्तरेण चघटाऽऽदिसंज्ञाऽप्रवृत्तेः संज्ञाऽभावे चाभिलप्तुमशक्यत्वादिति कुतः पुनः पृथगवस्थायां संज्ञाऽप्रवृत्तिः? इत्याह लोके यावदित्यादि / लोके यावत् संज्ञा घटोऽयमित्यादिसंज्ञाप्रवृत्तिस्तावत्संपूर्ण कार्य सम्पूर्णसामा यामेव यस्माद्दृश्यते पृथग