________________ पचय 124 - अभिधानराजेन्द्रः - भाग 5 पचय साक्षान्न किञ्चित्पश्यत इत्येतावता भेदनं तयोर्भावप्रत्ययत्वे नोक्तमिति ||2137 // एवमप्यन्यदनिष्टभुत्पादयन्नाह परःओहाइपच्चयं चिय, जइ तं न सुयं पि पचओ पत्तो। पच्चक्खनाणिवज-स्म तेण वयणं न सद्धेयं / / 2138|| ननु यद्युक्तन्यायेनावध्यादिज्ञानत्रयप्रत्ययमेव सामायिकं, ततः श्रुतज्ञानमपि हन्त! न प्रत्ययः प्राप्तः / मा प्रापत्, किं नः सूयते ?, इति चेत्। उच्यते-तेन ततः प्रत्यक्षमवधिमनः पर्ययकेवलरुपं ज्ञानं येषां ते प्रत्यक्षज्ञानिनः, तद्बर्जस्य तान्बजयित्वा, अन्यस्य कस्यापि वचन न श्रद्धेयं प्राप्नोति; न चैतदस्ति, चतुर्दशपूर्वधराऽऽदिवचनस्य प्रमाणत्वेनोक्तत्वादिति // 2138|| अत्रोत्तरमाहसुयमिह सामइयं चिय, पच्चइयं जं तओ य तव्वयणं / पच्चक्खनाणिणो चिय, पच्चायणमेत्तवावारं / 2136 / ननु श्रुतं श्रुतज्ञानं यत्त्वया गणधराऽऽदिसंबद्धं प्रत्ययत्वेन गीयते, तदिह श्रुतसामायिकमेव, सामायिकहेतुत्वात् न पुनरन्यत्किचित्। तच प्रत्ययिक प्रतीयतेऽर्थो यस्मादसौ प्रत्ययोऽवध्यादिज्ञानत्रयलक्षणः, स प्रत्यायकत्वेन यस्यास्तीति तत्प्रत्ययिक, सर्वाभिलाप्यार्थगोचर सर्वद्रव्यसर्वपर्यायविषयं श्रुतज्ञानमित्यादिरुपेण केवलाऽऽदिज्ञानत्रयप्रत्याय्यं, न तु केवलाऽऽदिज्ञानत्रयवत्स्वयमेव तत्प्रत्यय इत्यर्थः, ततः कथमत्र भावप्रत्ययत्वेन तदधिक्रियते?। अथ वचनरुपं द्रव्यश्रुतं त्वया प्रत्ययोऽभिधीयते। तदप्ययुक्तम्। कुतः?, इत्याह-(जंतओय तव्वयणं इत्यादि) यतश्च तस्य प्रत्यक्षज्ञानिनो व्याख्याविधिप्रवृत्तस्य वचनं तद्वचनम्। कथंभूतम्? इत्याह-प्रत्यक्षज्ञान एवं प्रत्यायनमात्रमेव परावबोधनमातमेव व्यापारो यस्य तत्प्रत्यायनमात्रव्यापारम् / अतः केवलिप्रयुक्तवेन श्रद्धीयमानत्वात्तदपि प्रत्ययः, न तु केवलाऽऽदिवस्वयमेवेति / / 2136 / / यद्येवं तर्हि किमिह स्थितम्?- किं श्रुतं सर्वथैव प्रत्ययत्वेन नेहाधिकर्त्तव्यम् ? इत्याह ओहाइपचओ त्तिय, भणिए तोतिं पिपच्चओऽभिहियं / ओहाइतिगं च कह, तदभावे पचओ होजा? ||2140 / / ततस्तदपि श्रुतं प्रत्ययोऽभिहितं प्रत्ययत्वेनावाधिकृतं भवति / किं साक्षाद्? नैवं, सामर्थ्यात्। कथम्? इत्याशङ्वयाह-अवध्यादिरित्रविधोऽत्र प्रत्ययोऽधिक्रियते इति भणितेऽर्थापत्तेः श्रुतमपि प्रत्ययो गम्यते, किं पुनस्तदन्तरेण नोपपद्यते ? / इत्याह-अन्यथा तदभावे श्रुताभावे अवध्यादिज्ञानत्रयमपि कथं प्रत्ययो भवेत्। इदमुक्तं भवति-अवध्यादित्रयं प्रत्यय इति द्रव्यश्रुतैनैव परस्य प्रत्याय्यते, तदभावे त्ववध्यादीनि मूकत्वादात्मनः प्रत्ययत्वं परस्य प्रतिपादयितुं न शक्नुयुः, न चाप्रतिपादित तत् प्रत्ययत्वं सिद्धयेत्, द्रव्यश्रुतमपि चोपचारात् श्रुतज्ञानेऽन्तर्मवति। अतोऽवध्यादिप्रत्ययत्वसाधकत्वात् श्रुतस्यापीह प्रत्ययत्वमवगन्तव्यम्। उक्तं च- "सुयनाणे उ निउत्तं, केवले तयणंतरं। अप्पणो य परेसिंच, जम्हा तं परिभावगं 191" इति। तदेवमवध्यादयस्त्रयः प्रत्ययाः साक्षादुक्ताः, श्रुतप्रत्ययस्तु सामर्थ्यादमिहितः।।२१४०।। अथवाऽन्यथा त्रयः प्रत्यया भवन्तीत्याहआया गुरवो सत्थं , ति पचयावाऽऽदिमो चिय जिणस्स। सप्पचक्खत्तणओ, सीसाण उ तिप्पयारो वि॥२१४१।। वा इत्यथवा, आत्मा, गुरवः, शास्त्रम्, इत्येवं त्रयः प्रत्ययः। तत्राऽऽदिम आद्य एवाऽऽत्मलक्षणः प्रत्ययो जिनस्य, केवैलित्वेन स्वप्रत्यक्षत्वाद् आत्मावष्टमभेनैव जिनः सामायिकं कथयतीत्यर्थः। शिष्याणां तु गणधरतच्छिष्यप्रशिष्याऽऽदीनाम, आत्मगुरुशास्त्रलक्षणस्त्रिप्रकारोऽपि प्रत्ययो विज्ञेय इति / / 2141 / / तत्र सर्वोऽपि प्रेक्षावान 'युक्तमिदम्' इत्यात्मना ज्ञात्वैव प्रायः सामायिकप्ररुपणश्रवणाऽऽदिकार्ये प्रवत्तंत इत्यात्मप्रत्ययत्वं शिष्येष्वप्यस्तीति पञ्चाद्वक्ष्यति, अतो यथा गुरुप्रत्ययस्तथा दिदर्शयिषुर्गणधरापेक्षतावदाहएस गुरु सव्वण्णू, पच्चक्खं सव्वसंसयच्छेया। भयरागदोसरहिओ, तलिंगाभावओ जंच // 2142 / / अणुवकयपराणुग्गह-परो पमाणं च जं तिहुयणस्स। सामाइयउवएसे, तम्हा सद्धेयवयणो त्ति॥२१४३।। गणधराणां तीर्थकरो गुरुः; ततस्तेतत्प्रत्ययत्वेन सामायिक शृएवन्ति - किं विचिन्त्य ते तस्य प्रत्ययत्वमुपकल्पयन्ति ? इत्याह-एषोऽस्माकं गुरुः सर्वज्ञः प्रत्यक्षमनुभवसिद्धः सर्वसंशयच्छेदाद् अपरं च भयरागद्वेषरहितोऽयं, शस्त्रपरिग्रहाङ्गनासन्निधानवदनकाष्एाऽऽदितल्लिङ्गाभावात्ततः सर्वज्ञत्वाभयरागाऽऽदिशेषरहितत्वाच नायमनृतं कदाचिदपि भाषते, अतः सामायिकोपदेशे श्रद्धेयक्चन इति संवन्धः / / 2142 / / तथा-अनुपकृत आत्मोपकारे निरपेक्ष एव परानुग्रहपरः, प्रमाण च सकलत्रिभुवनस्य यस्मात्, ततः सामायिकोपदेशे अस्माकं श्रद्धेयवचनः ! एवं जम्बूपभवाऽऽदीनामपि शिष्यप्रशिष्याणां निजनिजगुरुषु संभत्रद्गुणोद्भावनपूर्वक सामायिक श्रवण-प्रत्ययत्वं भावनीयम् / / 2143 / / शास्त्रस्य कथं ते प्रत्ययत्वमवगम्य प्रवर्तन्ते ? इत्याहसत्यं च सव्वसत्तो-वगारिपुव्वावराविरोहीद। सव्वगुणाऽऽदाणफलं, सव्वं सामाइयऽज्झयणं / / 2144 / / शास्त्रं चेदं सर्वसत्त्वोपकारि.तथा पूर्वापराविरोधि, सर्वगुणग्रहणफलंच सर्वमप्येतत्सामायिकाध्ययनम्, अतः प्रमाणमस्माकम्, इत्येवं शास्त्रम्य प्रत्ययत्वमवधार्यतच्छवणे प्रवर्तन्ते शिष्याः। आह-ननु श्रुतस्य शास्त्रस्य प्रथममव कथं सर्वसत्वोपकारकत्वाऽऽदीन गुणान् शिष्या जानन्ति / सर्व शास्त्रं ज्ञात्वा जानन्तीति चेत्। तदयुक्तम्. श्रुते शास्त्रे तत्प्रत्ययाध्यवसायरय निष्फलत्वात्, तमन्तरेणापि तच्छ्रवणस्य प्रवृत्तत्वात्। नैतदेयं, यतोवर्णिकामावहेतोः कियदपिशास्त्रं श्रुत्वा तद्गुणान्विन्दन्ति शिष्याः, ततः शेष श्रृणवन्ति, आदिवाक्याट् वा समुदायार्थ वा गुर्वादिभ्यः श्रुत्या अश्रुतेऽपि शास्त्रेतद्गुणान् ज्ञात्वा तच्छ्रवणे प्रवर्तन्तइत्यदोष इति॥२१४६।। अथ शिष्याणामात्मप्रत्ययत्वमाहबुज्झामो णं निजमिव, विण्णणं संसयादभावाओ / कम्मक्खओवसमओ,य होइसप्पचओ तेसिं॥२१४५।। बुद्ध्यामहे संविज्ञानरूपतया सामायिकाध्ययनमवगच्छामः।