________________ पचमाण 123 - अभिधानराजेन्द्रः - भाग 5 पच्चय पञ्चमाण त्रि० (पच्यमान) विपाकावस्था प्राप्ते, उत्त०३२ अ०। अत्याकुलीक्रियमाणे, उत्त०२३ अ०। "णिरए णेरइयाणं, अहो-णिसं पचमाणाण। सूत्र० 1 श्रु०५ अ०१ उ०। पञ्चय पु० (प्रत्यय) अवबोधे, स्था० 1 ठा०। विश्वासे, द्वा० 14 द्वा०। व्य० / प्रतीतो, अविसंवादिवचनत्वे, ज्ञा० 1 श्रु०१ अ०। सर्वातिशयनिधानमतीन्द्रियार्थी पदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरुपायां प्रतिपत्तो, स०६० अङ्ग / प्रत्यभिज्ञानाऽऽदौ, विशे०। प्रत्यापयतीति प्रत्ययः / अन्तर्भूतएयर्थादचप्रत्ययः। आ०म०१अ०१खएड। विशे०। प्रतीयोऽनेनार्थ इति प्रत्ययः / ज्ञानकारणे, उत्त०१ अ० अने०। प्रव०। अथ प्रत्ययद्वारमाहपचयनिक्खेवो खलु, दव्यम्मी तत्तमाऽऽसगाईओ। भावम्मि ओहिमाई, तिविहोपगयं तु भावेणं / / 2131|| केवलनाणि त्ति अहं, अरिहा सामाइयं परिकहेइ। तेसि पि पचओ खलु, सव्वएणू तो निसामिति 2132 / / प्रत्याययतीति प्रत्ययः, प्रत्ययनं वा प्रत्ययः, तन्निक्षेपस्तन्न्यासः, खलुशब्दस्यापिशब्दार्थत्वात्सोऽपि तन्निक्षेपः कारणनिक्षेपवभागस्थाफ्नाऽऽदिभेदाचतुर्विधः। तत्र नामस्थापने प्रतीतेद्रव्ये द्रव्यविषय : प्रत्ययो ज्ञशरीरराव्यशरीररुपः सुगमः। तद्यतिरिक्तस्तुतप्तमाषकाऽऽदिः, आदिशब्देन घटतन्दुलचर्वणाऽऽदिद्र व्यपरिग्रहः। द्रव्यं च तत्प्रत्याय्य पतीतिहेतुल्वात्प्रत्ययश्च द्रव्यप्रत्ययस्तंप्तमाषकाऽऽदिरेव, तज्जो वा प्रत्याप्यपुरुषगतप्रत्ययः। (भावम्मि त्ति) भावे भावप्रत्यये विचार्येऽवध्यादिस्त्रिविध भावप्रत्ययः। अवधिमनः पर्यायकेवलज्ञानत्रयलक्षणो बाह्यलिड्रानपेक्ष एव प्रत्याययति, अतस्तात्त्विकप्रत्ययत्वाद्भावप्रत्ययस्त्रिविध इत्यर्थः। मतिश्रुते तु बाह्यलिङ्ग करणमपेक्ष्य प्रत्याययतः,न साक्षाद् . अतः किलात्र न विवक्षिते। प्रकृतं प्रस्तुतोपयोगस्तु सामायिकमङ्गीकृत्य भावेन भावप्रत्यये नेति / / / 2131 / / अत एव केवलज्ञान्यहमिति स्वकीयादेव के वललक्षणाद्भावप्रत्यथादर्हन् साक्षादेव सामायिकामुपलभ्य सामायिक परिकथयति, तेषामपि श्रोतृणांगणधराऽऽदीना हृद्गताशेषसंशयपरिच्छित्त्या सर्वज्ञ इति प्रत्ययो बोधनिश्चयो भवति। ततो यस्मात्सर्वज्ञप्रत्ययात्ते निशमयन्ति श्रृण्वन्ति सामायिकम्, अत एव यत्कश्चिदुच्यते - "सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपिवुभुत्सुभिः / तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्?।।१।।'' इत्यादि / तद् व्युदातगवति। अन्यथा चतुर्वेदोऽयमित्यादिलोकव्यवहारानुपपत्तेः। इति नियुक्तिगाथाद्वयार्थः // 2132 // अथ भाष्यम्दव्वस्स दव्वओवा,दव्वेण व दव्वपच्चओ नेओ। तस्विरीओ भावे, सो विहु नाणाइओ तिविहो।२१३३१ प्रत्यप्प पुरुषलक्षणस्य प्रत्ययः, प्रतीतिर्द्रव्यप्रत्ययः, तथा द्रव्यात्तप्तमाषकाऽऽदः, द्रव्येण वा घटाऽऽदिना प्रत्ययोद्रव्यप्रत्ययो ज्ञेयः। वस्तु बाह्यद्रव्या बाह्यद्रव्येण वा न क्रियते, किंतु तद्विपरीतस्तन्निरपेक्ष एव साक्षादुपलम्भाद्भवति स भावरुपः प्रत्ययो भावप्रत्यया स चावधिमनःपर्यायकेवलज्ञानभेदात्त्रिविध इति / अनेक च भावप्रत्येनेहाधिकारः // 2133 // तथा चाऽऽहकेवलनाणित्तणओ, अप्प चिय पच्चओ जिणिंदस्स। तप्पच्चक्खत्तणओ, तत्तो च्चिय गोयमाईणं // 2134|| जिनेन्द्ररय तीर्थंकरस्य केवलज्ञानित्वात्सामायिकार्थ साक्षादुपलभ्य कथयत आत्मैव प्रत्ययो नान्यः, केवलज्ञानाऽऽत्मना भावप्रत्ययावष्टम्भेनैव तस्य सामायिकप्ररुपणादिति। गौतमाऽऽदीनामपि श्रोतृणांतत एव केवलज्ञानलक्षणाद्भावप्रत्ययात्सामायिकश्रवणमिति गम्यते। कुतः? इत्याह- तस्य केवलज्ञानिनः प्रत्यक्षत्वं तत्प्रत्यक्षत्वं, तस्मात्। इदमुक्तं भवति-सर्वसंशयपरिच्छेदाऽऽदिना कैवलज्ञान्यसौ, इत्यनुभवप्रत्यक्षद्वारेणैव गौतमादयोऽवगच्छन्त्येव, ततस्तेषामपि वस्तुनः केवलज्ञानलक्षणभावप्रत्ययादेव सामायिकश्रवणं प्रवर्त्तत इति॥२१३४।। आह-ननु कथमवध्यादिरेव त्रिविधो भावप्रत्ययः यावता मतिश्रुते अपि प्रत्यायनफलत्वा त्कथं न भावप्रत्ययः? इत्याहजेणाइंदियमिटुं, सामइयं तोऽवहाइविसयं तं। न तु मइसुयपचक्खं, जं ताइँ परोक्खविसयाइं / / 2135|| येन यस्मात्कारणाजीवपर्यायत्वात् जीवस्य चाऽमूर्त्तत्वादतीन्द्रियमिन्द्रियविषयो न भवति सामायिकम्, इतीष्ट तत्त्व वेदिनां, तस्मादवध्यादिज्ञानानामेव तद्विषयः। मतिश्रुतप्रत्यक्षं तु तन्न भवति, यद्यस्मात्ते मतिश्रुते परोक्षार्थविषये, इन्द्रियद्वारेणै-वोत्पत्तेरिति॥२१३५।। अत्र प्रेरकः प्राऽऽहजुत्तमिह केवलं चे-व पचओ नोहि-माणसं नाणं / पोग्गलमेत्तविसयओ, सामइयरुवया जं च॥२१३६।। ननु यद्येवं, तर्हि जीवपर्यायत्वादमूर्तत्वेन सामायिक केवलज्ञानस्यैवविषयः, अतस्तदेवैकं भावप्रत्ययो युक्तं, न त्ववधिमनःपर्यायज्ञाने, तयोः पुद्गलमात्रविषयत्वात्,रुपिद्रव्यविषयत्वादित्यर्थः / सामायिकमपि पौद्गलिक भविष्यति, न, इत्याह-यद्यस्माचारुपताऽमूर्तता सामायिकस्य, जीवपर्यायत्वादित्युक्तमेवेति // 2136 / / सूरिराहजंलेसापरिणामो, पायं सामाइयं भवत्थस्स। तप्पचक्खत्तणओ, तेसिं तो तं पि पचक्खं // 2137 / / यद्यस्माद्भवस्थस्य जन्तोः संबन्धि प्रायोद्रव्यलेश्याजनित एव परिणामोऽध्यवसायः सामायिकम् / सिद्धस्यालेश्यापरिणामोऽपि सम्यक्त्वसामायिकं भवति, अतस्तद्व्यवच्छेदार्थं भवस्थग्रहणम् / भवस्थस्याप्ययोगिकेवलिनोऽलेश्यापरिणाम रुपे अपि सम्यक्त्वचारित्रसामायिक भवतः, ततस्तन्निरासार्थ प्रायोग्रहणं, यस्मात्प्रायो द्रव्यलेश्याजनित एव परिणामो भवस्थस्य सामायिकम् / (तो तं पि पचक्ख ति) तत्त्तदपि सामायिक प्रत्यक्षम्। केषाम् ? इत्याह-(तेसिं ति) तेषामवधिमनः-पर्यायज्ञानिनाम्। कुतः? इत्याह-(तप्पचक्खत्तणउ त्ति) तासां द्रव्यलेश्यानां प्रत्यक्षत्वं तत्प्रत्यक्षत्वं, तस्मात्तत्प्रत्यक्षत्वात् / इदमुक्तं भवति-अवधिमनः पर्यायज्ञानिनोऽपि सामायिकपरिणामजनकानि लेश्याद्रव्याणि साक्षात्पश्यन्ति, ततस्तद्द्वारेण तजनितप रिणामरुपं सामायिकमपि तेषां प्रत्यक्षमुच्यते / मतिश्रुते तु