________________ भरह 1465 - अभिधानराजेन्द्रः - भाग 5 भरह हट्टः, गृहं भवनम् उपलक्षणात् खेटकर्बटाऽऽदिग्रहः // 11 // अथ द्वितीयनिधानवक्तव्यतामाह- 'गणिअस्स' इत्यादि, गणितस्यसङ्ख्याप्रधानतया व्यवहर्त्तव्यस्य दीनाराऽऽदेः नालिकेराऽऽदेर्वा, चशब्दात् परिच्छेद्यधनस्य मौक्तिकाऽऽदेरुत्पत्तिप्रकारः, तथा मानसेतिकाऽऽदि तद्विषयं यत्तदपिमानमेव धान्याऽऽदि मेयमिति भावः, तथा उन्मानंतुलाकर्षाऽऽदि तद्विषयं यत्तदप्युन्मानं खण्डगुडाऽऽदि धरिमजातीयं धनमित्यर्थः, ततः समाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पाण्डुके भणितमिति सम्बन्धः,धान्यस्यशाल्याऽऽदे/जानां चवापयोग्यधान्यानामुत्पत्तिः पाण्डु के निधौ भणिता // 2 // अथ तृतीयनिधिस्वरूपं निरूप्यते- 'सव्वा आभरण' इत्यादि,सर्व आभरणविधियः पुरुषाणां यश्च महिलानां तथाऽश्वाना हस्तिनांच सयथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः प्राकृतशैलीभवः / / 3 / / अथ चतुर्थनिधिः- 'रयणाई' इत्यादि। रत्नानि चतुर्दशापि वराणि चक्रवर्त्तिनश्चक्राऽऽदीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि सर्वरत्नाऽऽख्ये महानिधावुत्पद्यन्ते, तदुत्पत्तिः तत्र व्यावर्ण्यत इत्यर्थः, अन्ये त्वेवमाहुः- उत्पद्यन्ते एतत्प्रभावात् स्फातिमद्भवन्तीत्यर्थः / / 4 / / अथ पञ्चमो निधिः- 'वत्थाण य' इत्यादि, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वविभक्तीनांवस्त्रगतसर्वरचनानां रङ्गानांच-मञ्जिष्ठावृमिरागकुसुम्भाऽऽदीनां 'धोव्वाण यत्ति' सर्वेषां प्रक्षालनविधीनां च या निष्पत्तिः सर्वा एषा महापानिधौ / / 5 / / अथ षष्ठो निधिः-'काले कालण्णाणं' इत्यादि, कालनामनि निधौ कालज्ञानंसकलज्योतिः शास्त्रानुबन्धि ज्ञान तथा जगति त्रयो वंशाः वंशः, प्रवाहः, आवलिका इत्येकार्थाः, तद्यथा-तीर्थकरवंशश्चक्रवर्त्तिवंशो बलदेववासुदेववंशश्च, तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्तमानं शुभाशुभ तत्सर्वमत्रास्ति, इतो महानिधितोज्ञायत इत्यर्थः, शिल्पशतं-विज्ञानशतं घटलोहचित्रवस्वनापितशिल्पानां पञ्चानामपि प्रत्येक विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्याऽऽदीनि जघन्यमध्यमोत्कृष्टभेदभिन्नानि त्रीण्येतानि प्रजाया हितकाराणि निहिाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते॥६॥ अथ सप्तमो निधिः- 'लोहस्सय' इत्यादि, लोहस्य च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां चन्द्रकान्ताऽऽदीनां मुक्तानां-मुक्ताफलानां शिलानां-स्फाटि काऽऽदीनां प्रवालानां च सम्बन्धिनाम् आकराणामुत्पत्तिर्भवति, महाकाले निधाविति योगः / / 7 / / अथाष्टमः- 'जोहाण य' इत्यादि, योधानां-शूरपुरुषाणां, चशब्दात् कातराणामुत्पत्तिरभिधीयते, यथायोधत्वं कातरत्वं च जायते तथाऽत्राभिधीयते इत्यर्थः, तथा आवरणानां च-खेटकानां सन्नाहानां वा प्रहरणानाम्-अस्यादीनां च सर्वा च युद्धनीतिः- व्यूहरचनाऽऽदिलक्षणा 'सर्वाऽपि च दण्डेनोपलक्षितानीतिर्दण्डनीतिः-सामाऽऽदिश्चतुर्विधा माणवकनाम्नि निधावभिधीयते, ततः प्रवर्तत इति भावः // 8|| अथ नवमः- 'णट्टविही णाडगविही' इत्यादि, सर्वोऽपि नृत्यविधिः नाट्यकरणप्रकारः सर्वोऽपि च नाटकविधिः- अभिनेयप्रबन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्य धर्मा१र्थरकाम३मोक्षVलक्षणपुरुषार्थनिबद्धस्य,अथवा संस्कृत प्राकृतारपभ्रंश३संकीर्ण४भाषानिबद्धस्य गद्य१पद्यरगेय३चौर्णपदबद्धस्य वा उत्पत्तिःनिष्पत्तिस्तद्विधिः, तत्राऽऽद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे, अपभ्रंशः- तत्तद्देशेषु शुद्धंभाषितं, सङ्कीर्णभाषाशौरसेन्यादिः, तृतीयचतुष्कं गद्यम्- अच्छन्दोबद्धं शस्त्रपरिज्ञाऽध्ययनवत्, पद्यं-छन्दोबद्धं विमुक्त्यध्ययनवत्, गेयंगन्धा रीत्या बद्धं गानयोग्यं, चौर्णबाहुलकविधिबहुलंगमपाठबहुलं निपातबहुलं निपाताव्ययबहुलं ब्रह्मचर्याध्ययनपदवत्, अत्र चेतरयोर्गद्यपद्यान्तविऽपि यत्पृथगुपादानं तदानधर्माऽऽधेयधर्मविशिष्टतया विशेषणविवक्षणार्थ, शङ्के महानिधौ, तथा त्रुटिताङ्गानां च तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्तिःशखेमहा-निधाविति॥ अथ नवनामपि निधीनां साधारणं स्वरूपमाह- 'चक्कट्ठ' इत्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठान-अवस्थानम् येषां ते तथा, यत्र यत्र बाह्यन्ते तत्र तत्राष्टचक्रप्रतिष्ठिताएव वहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः- उचैस्त्वं येषां तेतथा, नवचयोजनानीतिगम्यते, विष्कम्भेणविस्तारेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्धाः मंजूषावत्संस्थिताः, जाहव्यागङ्गाया मुखे यत्र समुद्रं गङ्गां प्रविशति तत्र सन्तीत्यर्थः, "इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः / आगतास्त्वां महाभाग !, स्वद्भाग्येन वशीकृताः / / 1 / / " इति त्रिषष्टीयचरित्रोक्तेः, चक्रयुत्पत्तिकाले च भरतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदधिःस्थितयो निधय इति चक्रिपुरमनुयान्ति, तथा वैडूर्यमणिमयानि कपटानि येषां ते तथा, मयट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमयाः- सौवर्णाः विविधरत्नप्रतिपूर्णाः शशिसूरचक्राऽऽकाराणि लक्षणानिचिह्नानियेषां ते तथा, प्रथमाबहुवचनलोपः प्राकृतत्वात्, अनुरूपा सर्मा-अविषमा वदनोपपत्तिः-द्वारघटना येषां तेतथा, पल्योपमस्थितिका निधिसदृग्नामानः खलु, तत्र च निधिषु ते देवा येषां देवानां तएव निधयः आवासाः- आश्रयाः, किंभूताः-अक्रेयाः-अक्रयणीयाः, किमर्थमित्याह-आधिपत्याय आधिपत्यनिमित्तं, कोऽर्थः? तेषामाधिपत्यार्थी कश्चित्क्रयेणमूल्यदानाऽऽदिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिम्नैवेत्यर्थः, एतेनव निधयः प्रभूतधरत्नसंचयसमृद्धाः ये भरताधिपानांषट्खण्डभरतक्षेत्राधिपानां चक्रवर्त्तिनां वशमुपगच्छन्तिवश्यतां यान्ति एतेन वासुदेवानां चक्रवर्तित्वेऽप्येतद्विशेषणव्युदासः, निधिप्रकरणे चावस्थानाङ्ग प्रवचनसारोद्धाराऽऽदिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शदृष्ट एव पाठो व्याख्यातः। अथ सिद्धनिधानो भरते, यच्चक्रे तदाह- 'तएणं' इत्यादि व्यक्तम्, अथ षट्खण्डदत्तदृष्टिर्भरतो यथोत्सहते तथाऽऽह- 'तएणं' इत्यादि, इदमपि प्रायो व्यक्तं , नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि स्यादिति द्वितीयमित्युक्तम्, अवशिष्टे न अस्यैव प्राप्तावसरत्वात्, गङ्गायाः पश्चिमतो वहन्त्याः सागराभ्यां