SearchBrowseAboutContactDonate
Page Preview
Page 1462
Loading...
Download File
Download File
Page Text
________________ भरह 1454 - अभिधानराजेन्द्रः - भाग 5 भरह ग्घारिअमल्लदामकलावं सारयधवलब्भरययणिगरप्पगासं दिव्वं छत्तरयणं महिवइस्स धरणिअलपुण्णइंदो / तए णं से दिवे छत्तरयणे भरहेणं रण्णा परामुढे समाणे खिप्पमेव दुवालस जोअणाइं पवित्थरइ साहिआई तिरिअं (सूत्रम्-५६) 'तए णं' इत्यादि, ततो-दिव्यवर्षानन्तरं स भरतो राजा स्वसैन्ये उक्तप्रकारेण-सप्तरात्रिप्रमाणकालेन वर्ष वर्षन्तंमेघवृष्टिं जायमानां पश्यति, दृष्ट्वा च चर्मरत्नं परामृशति, अत्रावसराऽऽगतं चर्मरत्नवर्णकसूत्रमतिदिशन्नाह-'तएण' इत्यादि कण्ठ्यम्, अथेदंछत्ररत्नं कीदृशमिति जिज्ञासूनां तत्स्वरूपप्रकटनायाऽऽह- 'तए ण' इत्यादि, तत इति प्रस्तावनावाक्योपन्यासे, छत्ररत्नं महीपतेः- भरतस्य धरणितलस्य पूर्णचन्द्र इव पूर्णचन्द्रो वर्त्तते इति योगः, किंविशिष्टं? नवनवतिसहस्रप्रमाणाभिः काञ्चनमयशलाकाभिः परिमण्डितं महार्घ बहुमूल्यम् अथवा-महान्-चक्रवर्ती तस्य अर्हयोग्यम् अयोध्यम् अयोधनीयम् अस्मिन् दृष्ट न हि प्रतिभटानां शस्त्रमुत्तिष्ठते इति भावः, निव्रणः- छिद्रग्रन्थ्याऽऽदिदोषरहितः सुप्रशस्तोलक्षणोपेतत्वात विशिष्टलष्टः-अतिमनोज्ञः; अथवा-विशिष्टः-अतिभारतया एकदण्डेन दुर्वहत्वात् प्रतिदण्डसहितः ईदृशश्च यो लष्टः काञ्चनमयः सुपुष्टोऽतिभारसहत्वात् दण्डो यत्र तत्तथा, मृदुसुकुमालंघृष्टमृष्टत्वात्राजतंरूप्यसम्बन्धिवृत्तं लष्ट यदरविन्दं तस्य कर्णिकाबीजकोशस्तेन समानं श्वेतत्वावृत्तत्वाच्च रूपम् आकारो यस्य तत्तथा, बस्तिप्रदेशो नाम छत्रमध्यभागवर्ती दण्डप्रक्षेपस्थानरूपस्तत्र, चः समुच्चये, पञ्जरेणपञ्जराऽऽकारेण विराजितं, विविधाभिर्भक्तिभिः-विच्छित्तिभीरचनाप्रकारैश्वित्रचित्रकर्म यत्र तत्तथा, एतदेव विशिष्याऽऽह- मणयः- प्राग्व्यावर्णितस्वरूपाः मुक्ताप्रवाले प्रतीते, तप्तमूषोत्तीर्णं यत्तपनीयंरक्तसुवर्ण पञ्चवर्णिकानि, सूत्रे मत्वर्थीय इकप्रत्ययः, धौतानि शाणोत्तारेण दीप्तिमन्ति कृतानि रत्नानि प्राग्व्यावर्णितस्वरूपाणि तैः रचितानि रूपाणिपूर्णकलशाऽऽदिमङ्गल्यवस्तूनामाकारा यत्र तत्तथा, पदव्यत्ययः प्राकृतत्वात्, तथा रत्नानां मरीचिसमर्पणासमारचना तस्यां कल्पकराविधिकारिणः परिकर्मकारिण इत्यर्थःतैरनुसम्प्रदायक्रमं रञ्जितं, यथोचितस्थानं रङ्गदानात्, मकारोऽलाक्षणिकः स्वार्थे इल्लेकौ प्रत्ययौ प्राकृतशैलीभवौ, राजलक्ष्मीचिह्नम्अर्जुनाभिधानं यत्पाण्डुरस्वर्णं तेन प्रत्यवस्तृतः-आच्छादितः पृष्ठदेशभागो यस्य तत्तथा षदव्यत्ययः प्राकृतत्वात्, तथैवेति विशेषणान्तरप्रारम्भे, ध्मायमानं तत्कालध्मातमित्यर्थः यत्तपनीयं तस्य पट्टस्तेन, परिगतं-परिवेष्टितं, चतुर्ध्वपि प्रान्तेषु रक्तसुवर्णपट्टा योजिताः सन्तीति, पदव्यत्ययः पूर्ववत्, अत एवाधिकसश्रीकं शारदः-शरत्कालसत्को रजनिकरः- चन्द्रस्तद्वद्विमलं निर्मलं प्रतिपूर्णचन्द्रमण्डलसमानरूपं ततो विशेषणसमासः, नरेन्द्रः-प्रस्तावाभरतस्तस्य व्यायामः-तिर्यक्प्रसारितोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन प्रकृत्यास्वभावेन विस्तृतं, यत्तु चक्रिपरामृष्ट साधिकद्वाद-शयोजनानि विस्तृणाति तदस्य कारणिको विस्तार इति सूचितं, कुमुदानिचन्द्रविकाशीनितेषां खण्ड-वंन तद्वद्धवल राज्ञोभरतस्य ‘संचारिम त्ति' सञ्चरणशीलं जङ्गमं विमानम् आश्रयिणां सुखाऽऽवहत्वात् सूराऽऽतपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकर, यद्वा-सूराऽऽतपवातवृष्टीना दोषाणां च विषाऽऽदिजन्यानां क्षयकरम्, एतच्छत्रच्छायसमाश्रितानां हि विषाऽऽदिदोषा अपि न प्रभवन्तीति विशेषः, तपोगुणैः- पूर्वजन्माऽऽचीर्णतपोगुणमहिमा लब्धं भरतेनेति शेषः / अथ गाथाबन्धेन विशेषणान्याह-विचित्रत्वात्सूत्रकारप्रवृत्तेः, अहतं न केनापि योधमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानाम्- ऐश्वर्याऽऽदीनां दानं यस्य तत्तथा, ऋतूनांहेमन्ताऽऽदीना विपरीता, अथवा-आर्षत्वात् षष्ठ्यर्थे पञ्चमी व्याख्यानेन ऋतुभ्यो विपरीता उष्णतौ शीता शीतर्ती उष्णा अत एव कृतसुखा छाया यस्य, सूत्रे क्तान्तस्य परनिपातो 'जातिकालसुखाऽऽदेर्नवा' (श्रीसिद्ध०अ०३ पा०१-सू०१५२) इत्यनेन विकल्पविधानात्, छत्रेषु रत्नम्-उत्कृष्ट प्रधानं छत्रगुणोपेतत्वात्. सुदुर्लभमल्पपुण्यानामिति, प्रमाणराज्ञांस्वस्वकालोचितशरीरप्रमाणोपेतराज्ञाम् अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा-षट्खण्डाधिपत्वेन सर्वराजसम्मतत्वात्, एतेन वासुदेवाऽऽदिव्युदासस्तेषां त्रिखण्डभोक्तृत्वात्, चक्रवर्तिनां तपोगुणाना-सुचरितविशेषाणां फलानाम् एकदेशभागरूपं, सूत्रे क्लीबलिङ्गनिर्देशः प्राकृतत्वात्, कोऽर्थः? चक्राधिपपूर्वार्जिततपसां फलं-सर्वस्य नवनिधानचतुर्दशरत्नाऽऽदिषु विभक्तं, तेन तदेकदेशभूतमिदं छत्ररत्न विमानवासेऽपिदेवत्वेऽपि दुर्लभतरं, तत्र चक्रवर्तित्वस्यासम्भवात्, 'वग्धारिअ त्ति' प्रलम्बितो लम्बतयाऽवलम्बितो माल्य दाम्नां पुष्पमालाना कलापः-समूहो यत्र तत्तथा, समन्ततः पुष्पमालावेष्टितमिति भावः, शारदानिशरत्कालभावीनि धवलान्यभ्राणिवाईलानि शारदश्च रजनिकरः चन्द्रः तद्वत्प्रकाशोभास्वरत्वजनित उद्द्योतो यस्य तत्तथा, दिव्य- सहस्रदेवाधिष्टितं शेषपदयोजना प्राक् कृतैवास्ति। अथ प्रकृतम्'तए ण' इत्यादि, ततस्तदिव्यं छत्ररत्नं भरतेन राज्ञा परामृष्ट-स्पृष्ट सत्क्षिप्रमेव चर्मरत्नवत् द्वादश योजनानि साधिकानि तिर्यक् प्रविस्तृणाति साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृतवृष्ट्युपद्रवः स्वसैन्यस्य दुर्वारः स्यादिति। अथ छत्ररत्नप्रविस्तरणानन्तरं यच्चक्रे तदाहतए णं से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवेइ, ठवेत्ता गणिरयणं परामुसइ, वेढो० जावछत्तरयणस्सवत्थिभागसि ठवेइ, तस्स य अणतिवरं चारुरूवं सिलणिहिअत्थ मंतमेतसालिजवगोहूममुग्गमासतिलकुलत्थसट्टिगनिप्फावचणगकोद्दवकोत्थु भरिकं गुवरगरालगअणेगधण्णावरणहारिअगअलगमूलगहलिद्दलाउअतउसतुंवकालिंगकविट्ठअंबअंबिलिअसव्वणिप्फायएसुकुसले गाहावइरयणे त्तिसव्वजणवीसुअगुणे।तएणंसे गाहावइरयणे भरहस्स रण्णो तदिवसप्पइण्णणिप्फाइअपूइआणं सव्वधण्णाणं अणेगाई कुंभसहस्साई उवट्ठवेति, तए णं से भरहे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy