SearchBrowseAboutContactDonate
Page Preview
Page 1461
Loading...
Download File
Download File
Page Text
________________ भरह 1453 - अभिधानराजेन्द्रः - भाग 5 भरह संस्तीर्य चवालुकासस्तारकानारोहन्ति, आरुह्य चाष्टमभक्तंप्रगृह्णन्ति, प्रगृह्य च वालुकासंस्तारोपगता उत्तानकाः-ऊर्ध्वमुखशायिनः अवसनाःनिर्वस्त्राः, एवं च परमातापनाकष्टमनुभवन्त इत्युक्तम्, अष्टमभक्तिकादिनत्रयमनाहारिणः, ये तेषां कुलदेवताः कुलवत्सला देवा मेघमुखा नाम्ना नागकुमारा देवास्तान् मनसि कुर्वन्तः 2 तिष्ठन्तीति / अथ ते देवाः किमकुर्वन्नित्याह-'तएणं' इत्यादि,ततः- चेतसि चिन्ताऽनन्तरं तेषामापातकिरातानाम् अष्टमभक्तेपरिणमति सतिपरिपूर्णप्राये इत्यर्थः, मेधमुखानां नागकुमाराणां देवानामासनानि चलन्ति, ततस्ते मेघमुखा नागकुमारा देवा आसनानिचलितानि पश्यन्ति, दृष्ट्वा चावधिं प्रयुञ्जन्ति, प्रयुज्य चाऽवधिना आपातकिरातानाभोगयन्ति, आभोग्य चान्योऽन्यं शब्दयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुरित्याह- ‘एवं खलु' इत्यादि, एवम्-इत्थमन्तिखलुः- निश्चये हेदेवानुप्रिया! किंतदित्याहजम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्यां महानद्यां वालुकासंस्तारकान् उपगताः- प्राप्ताः सन्तः उत्तानका अवसना अष्टमभक्तिका अस्मान् कुलदेवतान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाः 2 तिष्ठन्तीति, ततः श्रेयः खलु भो देवानुप्रिया ! अस्माकमापातकिरातानामन्तिके प्रादुर्भवितुंसमीपे प्रकटीभवितुमितिकृत्वापर्यालोच्यान्योऽन्यस्यान्तिके एतमर्थम्- अनन्तरोक्तमभिधेयं प्रतिशृण्वन्तिअभ्युपगच्छन्ति, परस्परं साक्षीकृत्य प्रतिज्ञातं कार्य कर्तव्यमवश्यमिति दृढीभवन्तीत्यर्थः प्रतिश्रवणानन्तरं ते यच्चकुस्तदाह'पडिसुणेत्ता' इत्यादि, प्रतिश्रुत्यचते देवास्तयोत्कुष्टया त्वरितया गत्या यावद्व्यतिव्रजन्तो 2 यत्रैव जम्बूद्वीपो द्वीपो यत्रैव चोत्तरभरतार्द्ध वर्ष यत्रैय च सिन्धुर्महानदी यत्रैव चाऽऽपातकिरातास्तत्रैवोपागच्छन्ति, उपागत्य चान्तरिक्षप्रतिपन्नाः सकिङ्किणीकानि पञ्चवर्णानि वस्त्राणि प्रवराणि परिहितास्तानापातकिरातानेवमवादिषुः किमवा दिषुरित्याह'हं भो !' इत्यादि, हं भो ! इति सम्बोधने आपतकिराताः, यत् 'ण' वाक्यालङ्कारे, सर्वत्र यूयं देवनुप्रिया ! बालुकासंस्तारकोपगतायावदष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान् देवान् मनसि कुर्वाणाः 2 तिष्ठत, ततो वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवताः सन्तो युष्माकमन्तिकं प्रादुर्भूताः तद्वदत देवानुप्रियाः ! किं कुर्मः- किं कार्य विदध्मः, किम् आचेष्टामहे-कां चेष्टां कुर्मः- कस्मिन् व्यापारे प्रवर्तामहे, किंवा (भे)-भवतां मन स्वादितंमनोऽभीष्टमिति कुलदैवतप्रधानन्तरं तेयदचेष्टन्त तदाह-'तएणं' इत्यादि, ततस्ते आपातकिराता | मेघमुखानां नागकुमाराणां देवानामन्तिके एतमर्थं श्रुत्वा निशम्य च 'हद्वतुट्ठ' इत्यादि प्राग्वत्। उत्थानम् उत्थाऊर्ध्वं भवनंतया उत्तिष्ठन्तिऊभिवन्ति इत्यर्थः, उत्थाय च यत्रैव मेघमुखा नागकुमारा देवास्तत्रैवोपागच्छन्ति, उपागत्यच करयल' इत्यादिप्राग्वत्, मेघमुखान्नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, वर्धयित्वा चैवमवादिषुरिति, यदवादिषुस्तदाह- 'एसणं इत्यादि, देवानुप्रिय! एष कश्चिदप्रार्थितप्रार्थकाऽऽदिविशेषणविशिष्टो अस्मद्देशोपर्यागच्छति, तेन तथा प्रकारेण | णमितिएनं घत्तेहप्रक्षिपत यथा पुनर्नाऽऽयातीति पिण्डार्थः। अथ यन्मेघमुखा ऊचुस्तदाह- 'तए णं' इत्यादि, व्यक्तं, किमवोचुस्ते इत्याह'एसणं' इत्यादि, हे देवानुप्रिया! एष भरतोनाम राजा चतुरन्तचक्रवर्ती महर्द्धिको महाद्युतिको यावन्महासौख्यः नो खलु एष भरतः शक्यः केनचिदेवेन वा वैमानिकेन दानवेन वा-भवनवासिना किन्नरेणेत्यादिपदचतुष्कं व्यन्तरविशेषवाचकं तेन वाशस्त्रप्रयोगेण वा अग्निप्रयोगेण वा मन्त्र-प्रयोगेण वा, त्रयाणामप्युत्तरोत्तरबलाधिकता ज्ञेया, शस्त्रेभ्योऽग्निस्तस्मान्मन्त्री बलाधिक इति, उपद्रवयितुं वा-उपद्रवं कर्तुं , प्रतिषेधयितुं वा-युष्मद्देशाऽऽक्रमणरूपपापकर्मतो निवर्तयितुमिति, सर्वत्र वाशब्दः समुच्चयार्थः, तथापि इत्थं दुस्साध्ये कार्ये सत्यपि युष्माकं प्रियार्थतायैप्रीत्यर्थ भरतस्य राज्ञ उपसर्ग कुर्म इति कृत्वा तेषामापातकिरातानामन्तिकादपक्रामन्तियान्ति निस्सरन्तीत्यर्थः इति प्रतिज्ञातवन्तः, ततः किं कृतवन्त इत्याह- 'अवक्कमित्ता वेउब्विअसमुग्धाएणं' इत्यादि, अपक्रम्य च-व्रजित्वा वैक्रियसमुद्धातेन-उत्तरवैक्रियार्थकप्रयत्नविशेषेण समवघ्नन्तिआत्मप्रदेशान् विक्षिपन्ति शरीराद् बहिर्विकिरन्तीत्यर्थः, समवहत्य च तैरात्मप्रदेशैर्गृहीतैः पुद्गलैर्मेधानीकम्अध्रपटलकं विकुर्वन्ति, विकुळ च यत्रैव भरतस्य विजयस्कन्धावारनिवेशस्तत्रैवोपागच्छन्ति, उपागत्य च विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेवेत्यादि सर्वं पुष्कलसंवर्तकमेधाधिकार इव वाच्यं यावद्वर्षितुं प्रवृत्ताश्चाप्यभवंस्ते देवा इति। इति व्यतिकरे यद्भरताधिपः करोति तदाहतए णं से भरहे राया उप्पिं विजयक्खंधादारस्स जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासमाणं पासइ, पासित्ता चम्मरयणं परामुसइ, तए णं तं सिरिवच्छसरिसरूवं वेढो भाणिअव्वोजाव दुवालसं जोअणाई तिरि पवित्थरइ तत्थ साहिआई, तए णं से भरहे राया सखंधावारबले चम्मरयणं दुरूहइ, दुरूहित्ता दिव्वं छत्तरयणं परामुसइ, तए णं णवणउइसहस्सकंचणसलागपरिमंडिअं महरिहं अउज्झं णिव्वणसुपसत्थविसिहलहकंचणसुपुट्ठदंडं मिउराययवट्टलट्ठअरविंदकण्णिअसमाणरूवं वत्थिपएसे अ पंजरविराइ विविहभत्तिचितं मणिमुत्तपवालतत्ततवणिज्जपंचवण्णिअधोअरयणरूवरइयं रयणमरीईसमप्पणाकप्पकारमणुरंजिएलियं रायलच्छिचिंधं अज्जुणसुवण्णपंडुरपबत्थुअपट्टदेसभागं तहेव तवणिज्जपठ्धम्मतपरिगयं अहिअसस्सिरीअं सारयरयणिअरविमलपडिपुण्णचंदमंडलसमाणरूवं णरिंदवामप्पमाणपगइवित्थडं कुमुदसंडधवलं रण्णो संचारिमं विमाणंसूराऽऽतववायबुट्टिदोसाण यखयकरंतवगुणेहिं लद्धं- "अहयं बहुगुणदाणं, उऊण विवरीअसुहकयच्छायं / छत्तरयणं पहाणं, सुदुल्लह अप्पपुण्णाणं // 1 // " पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासे वि दुल्लहतरं व
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy