________________ भरह 1448 - अभिधानराजेन्द्रः - भाग 5 भरह अधिकरणेरधः सङ्कुचितत्वेन विषमचतुरस्रत्वादित्याह- समतलमिति, समानि न न्यूनाऽधिकानि तलानि षडपि यस्य तत्तथा, अथैतदेव यच्छब्दगर्भितवाक्यद्वारा विशिनष्टियतः काकणीरत्नात् मानोन्मान (प्रमाण) योगाः-एते मानविशेषव्यवहारा लोके चरन्ति; प्रवर्त्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवाऽऽदि, रसमान चतुःषष्टिकाऽऽदि, उन्मानं कर्षपलाऽऽदिखण्डगुडाऽऽदि-द्रव्यमानहेतुः उपलक्षणात् सुवर्णाऽऽदिमानहेतुः प्रतिमानमपि ग्राह्य गुजाऽऽदि, किंविशिष्टास्ते व्यवहाराः?सर्वजनानाम्-अधमर्णोत्तमर्णाना प्रज्ञापकाः, मेयद्रव्याणमियत्तानिर्णायकाः, अयमाशयः-यथा सम्प्रति आप्तजनकृतनिर्णयाङ्क कुडवाऽऽदिमानं जनप्रत्यायकं व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्तिकाले कारणिकपुरुषैः काकणीरत्नाङ्कितं तत्तादृशं भवेदित्यर्थः, यच्छब्दगर्भेणैव वाक्येन माहात्म्यान्तरमाह-नापि चन्द्रः तत्र तिमिरं नाशयतीति योजनीयं, न वा सूर्यः- अत्र इक्यिालङ्कारे, एवं सर्वत्र, नवाऽग्निर्दीपाऽऽदिगतः न वा मणयस्तत्र तिमिर नाशयन्ति; प्रकाश कर्तुमलम्भूष्णव इत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकारमत्रास्तीति अभ्राऽऽदित्वादप्रत्ययविधानाद्वा अन्धकारवति गिरिगुहाऽऽदौ तकत्- काकणीरत्नं दिव्यंप्रभावयुक्तं तिमिरं नाशयति, अथ यदीदं प्रकाशयति तदा कियत् क्षेत्र प्रकाशयतीत्याह- द्वादश योजनानि तस्य लेश्याः- प्रभा विवर्द्धन्ते, अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्या? तिमिरनिकरप्रतिषेधिकास्तमिस्राऽऽदिगुहायाः पूर्वापरतो द्वादशयोजनविस्तारयोस्तासां प्रसरणात् रत्तिं च त्ति' प्रथमान्तयच्छब्दाध्याहारादर्थवशाद्विभक्तिपरिमाणाच्च यद्रत्न रात्री 'चो' वाक्यान्तराऽऽरम्भार्थः सर्वकालं स्कन्धावारे दिवससदृशं, यथा दिवसे आलोकस्तथा रात्रावपीत्यर्थः, आलोकं करोति, यस्य प्रभावेण चक्रवर्ती तमित्रां गुहाम् अत्येति-प्रविशति सैन्यसहितो द्वितीयमर्द्धभरतमभिजेतुम् उत्तरभरतं वशीकर्तुमित्यर्थः, चात्रान्तरायच्छन्दगर्भितवाक्यावतारेण वाक्यान्तरप्रवेशो नाम सूत्रदूषणमिति वाच्यम्. आर्षत्वात् तस्यादुष्टत्वेन शिष्टव्यवहारात्, यथा आर्षे छन्दस्सुवर्णाऽऽद्याधिक्याऽsदावपि न छन्दोभ्रष्टत्वदोषो, महापुरुषोपज्ञत्वेनाय॑त्वात्, तथैव शिष्टव्यवहारात, राजवरोभरतः कागणिं ति पदैकदेशे पद-समुदायोपचारात् काकणीरत्नं गृहीत्वालात्वा तमिस्त्रागुहाया पौरस्त्यपाश्चात्ययोः कटकयोः-भित्त्योः प्राकृतत्वाद्विवचने बहुवचनं, योजनान्तरितानि प्रमाणाड्गुलनिष्पन्नयोजनमपान्तराले मुक्त्वा कृतानीत्यर्थः, अवगाहनापेक्षयोत्सेधागुलनिष्पन्नपञ्चधनुःशतमानविष्कम्भाणि, वृत्तत्वाद् विष्कम्भग्रहणेनाऽऽयामोऽपि तावानेवावगन्तव्यः, उत्सेधाड्गुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काकणीरत्नेन क्रियमाणत्वान्मण्डलानामयं च मण्डलावगाहाः स्वस्वप्रकाश्ययोजनमध्ये एव गण्यते, अन्यथा 46 मण्डलानामवगाहे पिण्डीक्रियमाणे गुहाभित्योरामाय / उक्तप्रमाणाधिकप्रमाणः प्रसज्येतेति, अत एव च योजनोद्योतकराणि- 1 योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलान्तरालं तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्रस्य नेमिः-परिधिस्तत्संस्थानानि वृत्तानीत्यर्थः तथा चन्द्रमण्डलस्य प्रतिनिकाशानिभास्वरत्वेन सदृशानि, एकोनपञ्चाशतं मण्डलानि वृत्तहिरण्यरेखारूपाणि, काकणीरत्नस्य सुवर्णमयत्वात्, आलिखन् 2 विन्यस्यन् 2 अनुप्रवशिति गुहामिति प्रकरणाद ज्ञेयं, वीत्सावचनमाभीक्ष्ण्यद्योतनार्थ , मण्डलाऽऽलिखनक्रमश्वायंगुहायां प्रविशन् भरतः पाश्चात्यपान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिकपाटे प्रथमं योजन मुक्त्वा प्रथम मण्डलमालिखति ततो गोमूत्रिकान्यायेनोत्तरतःपश्चिमदि-क्क्याटतोडके तृतीययोजनाऽऽदौ द्वितीयमण्डलमालिखति, ततस्तेनैव न्यायेन पूर्वदिक्कपाटतोडुके चतुर्थयोजनाऽऽदौ तृतीयं, ततः पश्चिमदिग्भितौ पञ्चमयोजनाऽऽदौ चतुर्थं , ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चम, ततः पश्चिमदिभित्तौ सप्तमयोजनाऽऽदौ षष्ठं, ततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमम्, एवं तावद् द्वाच्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिक्कपाटे प्रथमयोजनाऽऽदौ एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिकपाटे द्वितीययोजनाऽऽदावालिखति, एवमेकस्यां भित्तौ पञ्चविंशतिरपरस्यां चतुर्विशतिरित्येकोनपञ्चाशन्भण्डलानि भवन्ति, एतानि च किल गुहायां तिर्यम् द्वादश योजनानि प्रकाशयन्ति, ऊर्ध्वाधोभावेन चाष्टौ योजनानि, गुहाया विस्तरोच्चत्वस्य च क्रमेण एतावत एव भावात्, अग्रतः पृष्टतश्च योजनं प्रकाशयन्तीति, ननु गोमूत्रिकाविरचनक्रमेण मण्डलाऽऽलिखने कथमेषां योजनान्तरित्वं? यद्येकभित्तिगतमण्डलापेक्षया तर्हि योजनद्वयान्तरितत्वमापद्येत, अन्यथा द्वितीयमण्डलस्यैकभित्तिगतत्वप्रसङ्गः, तथा च सति गोमूत्रिकाभङ्गः, अन्यभित्तिगतमण्डलापेक्षया तु तिर्यक् साधिकद्वादशयोजनान्तरितत्वमिति, उच्यते- पूर्वभित्तौ प्रथमं मण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे द्वितीयमण्डलमालिखति, ततस्तत्समुखप्रदेशापेक्षया योजनातिक्रमे पूर्वभित्तौ तृतीयमण्डलमालिखतीत्यादिक्रमेण मण्डलकरणात् गोमूत्रिकाऽऽकारत्वं योजनान्तरित्वं च व्यक्तमेवेति सर्व सुरथम्, अथ पञ्चाशयोजनाऽऽयामाया गुहायामेकोनपञ्चाशता मण्डलैर्यत्प्रकाशकरणमुक्तमित्यस्यार्थस्य सुखावबोधाय संक्षेपेण मण्डलपञ्चकस्य स्थापनादय॑ते, यथा-एवं षट्कोष्ठकपरिकल्पितषड्योजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्यत्र तु द्वे इत्युभयमीलने पञ्च मण्डलानि भवन्ति, एवमनेन गोमूत्रिकामडण्लकविरचनक्रमेण पञ्चाशद्योजनायामऽऽयां गुहायामेकोनपञ्चाशतोऽपि मण्डलकानां स्थापना स्वयं ज्ञेयेति, अन्ये तु पूर्वदिक्कपाटे आदौ योजनं मुत्वा प्रथमं मण्डलं करोति, ततः पश्चिमदिक्कपाटे तत्सम्मुखं द्वितीयं, ततः पूर्वदिक्कपाटगतप्रथममण्डलादुतरतोयोजनं मुक्त्वा पूर्वदिक्कपाटतोडकेतृतीयं, ततः पश्चिमदिक्कपाटतोडकेतत्सम्मुखं चतुर्थम्, ततः पूर्वदिक्कपाटतोडुकेतृतीयान्मण्ङलाद्योजनं मुक्त्वा पञ्चमं, ततस्तत्सम्मुखं पश्चिमदिक्कपाटतोडुके षष्ठ, पुनस्तावतैवान्तरालेन पूर्वदिग्भित्तौ सप्तम, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टमं, ततः पूर्वदिग्भित्तौ सप्तमान्मण्डलाद्योजनान्तरे नवमं, ततः पश्चि