________________ भरह 1447 - अभिधानराजेन्द्रः - भाग 5 भरह 'तएणं से भरहे राया मणिरयण' इत्यादि, ततः स भरतो राजा मणिरत्नं परामृशति, किंविशिष्टम् इत्याह- 'तोतं' इति सम्प्रदायगम्यं चतुरड्गुलप्रमाणा मात्रा दैर्येण यस्य तत्तथा, चशब्दाद् व्यगुड्लपृथुलमिति ग्राहां, यदाह- 'चतुरंगुलो दुअंगुलपिहलो अ मणी' इति, अनर्धितम् अमूल्यं न केनापि तस्यार्घः कर्तुं शक्यते इत्यर्थः, तिस्रोऽसयः-कोटयो यत्र तत्तथा, ईदृश सत्षडसंषट्-कोटिक लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाऽऽकरत्वेन प्रसिद्धत्वान्मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्त्तिनोऽखित्रयस्य सत्वात् / अत्राऽऽह- षडसमित्यनेनैव सिद्धे त्र्यषडसमिति किमर्थम्? उच्यते-उभयोरन्तयोर्निरन्तर-कोटिषट्कभवनेनापि षडराता सम्भवति ततस्तद्व्यवच्छंदार्थं त्र्यसं सत्षडरसमित्युक्तं, तथा अनुपमद्युति दिव्यं मणिरत्नेषु पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात्, वैडूर्य वैडूर्यजातीयमित्यर्थः, सर्वेषां भूतानां कान्तं काम्यम्, इदमेव गुणान्तरकथनेन वर्णयन्नाह- 'जेण य मुद्धागएण' इत्यादि, येन मूर्द्धगतेनशिरोधृतेन हेतुभूतेन न-किशिद्दुःखं जायते आरोग्यं च सर्वकालं भवति, तिर्यदेवमनुष्यकृताः, चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्व, सर्वे न कुर्वन्तितस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशस्त्रवध्यः, अत्र न शस्त्रवध्योऽशस्त्रवध्य इति नसमासो या 'अः स्वल्पार्थे ऽप्यभावेऽपि' इत्यनेकार्थवचनात् अ इति पृथगेव नसमानार्थनिपातो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवति, नरो मणिवरं धरन स्थितं विनश्वरभावमप्राप्त यौवनं यस्य स तथा, स्थायियौवन इत्यर्थः, केशैः सहावस्थिता-अवद्धिष्णवो नखा यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः, भवति च सर्वभयविप्रमुक्तः, 'अत्र सर्व भाजनस्थं जलं पीतम्' इत्यदाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वाद्देवमनुष्याऽऽदिप्रतिपक्षोत्थं भयमिह ज्ञेयम्, अन्यथा-ऽश्लोकाऽऽदिभयानि महतामेव भवेयुरिति, अथैतद् गृहीत्वा नृपतिर्यच्चकार तदाह'तं मणि ति' तन्मणिरत्नं गृहीत्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे निक्षिपति-निबध्नाति, 'कुभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात्, 'तएणं' इत्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररत्नदेशितमार्गो यावत् समुद्ररवभूतामिव गुहामिति गम्यं कुर्वन् कुर्वन् यत्रैव तमिस्रागुहाया दाक्षिणात्य द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्रागुहा दाक्षिणात्येन द्वारेणात्येतिप्रविशति, शशीव मेघान्धकारनिवहम् / प्रवेशानन्तरं यत्कृत्य तदाह- 'तएणं' इत्यादि, ततः भरतो राजा काकणीरत्नं परामृशतीत्युतरेण सम्बन्धः, किंविशिष्टमित्याह- चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्वेत्येवं षट्सङ्ख्याकानि तलानियत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि यभूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्यपि दिक्षु प्रत्येक चतसृणामश्रीणां भावात् अश्रयः-कोटयो यत्र तत्तथा, कर्णिकाःकोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णा सद्भावादष्टकर्णिकम्, अधिकरणिः-सुवर्णकारोपकरणं तद्वत् संस्थित- | संस्थान यस्य तत्तथा, तत्सदृशाऽऽकार समचतुरस्त्रत्वात्, आकृतिस्वरूप निरूप्यास्य तौल्यमानमाह-अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिक, तत्र सुवर्णमानमिदं चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश श्वेतसर्षपा एक धान्यमाषफलम, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषकाः एकः सुवर्ण इति, एतादृशैरष्टभिः सुवर्ण : काकणीरत्न निष्पद्यते इति, अत्र चाधिकारे "एतानि च मधुरतृणफलाऽऽदीनि भरतचक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तत्," इत्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थानाङ्गवृत्ति-वचनात्, 'चउरंगुलो मणी पुण, तस्सऽद्धं चेवहोइ विच्छिण्णो / चउरंगुलप्पमाणा, सुवण्णवरकागणी नेया" ||1|| इहाङ्गुलंप्रमाणडगुलमवगन्तव्यं, "सर्वचक्रवर्त्तिनामपि काकण्यादिरत्नानां तुल्यप्रमाणत्वादिति '' मलयगिरिकृतबृहत्संग्रहणीबृहदवृत्तिवचनाच्च केचनास्य प्रमाणाङ्गुलनिष्पन्नत्वं, केचिच्च- "एगमेगस्स ण रण्णो चाउरंतचक्कवट्टिणो अट्टसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिंगरणिसंठाणसंठिएपण्णत्ते, एगमेगाकोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं'' इत्यनुयोगद्वारसूत्रबलादुत्सेधागुलनिष्पन्नत्वं, केऽपि च एतानि सप्तैकेन्द्रियरत्नानि सर्वचक्रवर्त्तिनामात्माङ्गुलेन ज्ञेयानि, शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्कालीनपुरुषोचितमानातीति प्रवचनसारोद्धारवृत्तिबलादात्माड्गुलनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्त्वनिर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति। अस्य परामर्शानन्तरं यच्चक्रे तदाह- 'तएण' इत्यादि, ततः- परामर्शानन्तरं तत्काकणीरत्नं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखन्नालिखन अनुपविशतीत्युत्तरेण सम्बन्धः, कथम्भूतमित्याह-चतुरङ्गुलप्रमाणमात्रम्, अस्यैकैका अनिश्चतुरडगुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरड्गुलप्रमाणा भवन्ती त्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकं चतुरङ्गुलप्रमाण इत्युक्तं भवति, यैवाश्रिरूर्वीकृता आयाम प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिर्णयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चाऽऽयामोऽपि गृहीत एव समचतुरसत्वात्तस्येति, तदेवं सर्वतश्चतुरङ्गुलप्रमाणमिदं सिद्धं यत्तु तस्सणं एगमेगा कोडी उस्सेहगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स अद्धगुल,' इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं, तथाऽष्टभिः सुवर्णर्निष्पन्नमष्टसुवर्णम्, अष्टसुवर्णमूलद्रव्येण निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषं जङ्ग माऽऽदिभेदभिन्नं तस्य हरणं, स्वर्णाष्टगुणानां मध्ये विषहरणस्य प्रसिद्धत्वात्, अस्य च तथाविधस्वर्णमयत्वादिति, अतुलंतुलारहितम नन्यसदृशमित्यर्थः, चतुरस्त्रसंस्थानसंस्थितमिति तु विविशेषण पूर्वोक्ताधिकरणिदृष्टान्तेन भाव्यमिति, ननु अधिकरणिदृष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरङ्गुलतोपपद्येत