________________ भरह 1446 - अभिधानराजेन्द्रः - भाग 5 भरह मभित्तौ अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मण्डलान्यालिखंस्तावद् गच्छति यायचरममष्टनवतितम मण्डलमुत्तरद्वारसत्कपश्चिमदिकपाटे, एवं चैकैकस्यां भित्तावेकोनपञ्चाशत् मण्डलानि उभयमीलने चाष्टनवतिरिति, अत्र चोभयोः पक्षयोर्मध्ये आद्यः आवश्यकबृहद्वृत्तिटिप्पनकप्रवचनसारोद्धारबृहद्वृत्यादावुक्तो द्वितीयस्तु मलयगिरिकृतक्षेत्रविचारवृत्त्यादाविति / अथ प्रकृतं प्रस्तूयते- 'तए णं' इत्यादि, ततोगण्डलालिखनानन्तरं सा तमिस्रागुहा भरतेन राज्ञा तैर्योजनान्तरितैर्यावधोजनोद्योतकरैरेकोनपञ्चाशता मण्डलैरालिख्यमानैः क्षिप्रमेवालोकंसौरप्रकाशं भूताप्राप्ता, एवमुद्योतंचान्द्रप्रकाशं भूता, किंबहुना? दिवसभूतादिनसदृशी जाता चाप्यभवत्, चः समुच्चये, अपिः सम्भावनाया, तेन नेयं गुहा मण्डलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभूता, एवमग्रेतनपदद्वयमपि, क्वचिद् 'दिवसभूअ' इत्यस्य स्थाने 'दीवसयभूया' इति पाटस्तत्र दीपश-तानि भूतेति व्याख्येयम्। अथान्तणुहं वर्तमानयोः परपारं जिगमिषूणां प्रतिबन्धकभूतयोरुन्मग्नानिमग्रानामेकनद्योः स्वरूपम् (जं०) 'उम्मग्ग जला शब्दे' द्वितीयभागे 844 पृष्ठे दर्शितम्।) अथ दुरवगाहे नद्यौ विबुध्य भरतो यच्चकार तदाहतए णं से भरहे राया चक्करयणदे सिअमग्गे अणेगराय० महया उकिट्ठसीधणायजाव करेमाणे करेमाणे सिंधूए महाणईए पुरच्छिमिल्ले णं कूडे णं जेणेव उम्मग्गजला महाणई तेणेव उवागच्छइ, उवागच्छित्ता बद्धइरयणं सद्दावेइ, सद्दा वेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिआ ! उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविटे अयलमकंपे अभेजकवए सालंबणबाहाए सव्वरयणामए सुहसंकमे करेहि, क रेत्ता मम एअमाणत्तिअंखिप्पामेव पच्चप्पिणाहि, तए णं से बद्धइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणंदिए०जाव विणएणं पडिसुणेइ, पडिसुणित्ता खिप्पामेव उम्मग्गणि-मग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे०जाव सुहसंकमे करेइ, करित्ताजेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ताजाव एअमाणत्तिअंपच्चप्पिणइ, तएणं से भरहे राया सखंधावारबले उम्मग्गणिमग्गजलाओ महाणईओ तेहिं अणेगखंभसयसण्णिविटेहिं जाव सुहसंकमेहिं उत्तरइ, तए णं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया महया को चारवं करेमाणासरसरस्सग्गाइं सरसरस्सग्गाइंठाणाई पचोसक्कित्था। (सूत्रम्-५५) 'तएणं इत्यादि, ततः स भरतो राजा चक्ररत्नदेशितमार्गः 'अणेगराय' | इत्यादि सूत्र व्याख्या च प्राग्वत्, सिन्ध्वा महानद्याः पौरस्त्ये कूलेपूर्वतटे उभयत्रापि णशब्दो वाक्यालङ्कारे, अयमर्थः तमिरनाथा अधो वहन्ती सिन्धुस्तमित्रापूर्वकटकमवधीकृत्येवेति, उन्मानाऽपि पूर्वकटकान्निर्ग ताऽस्तीत्युभयोरेकस्थानतासूचनार्थकमिदं सूत्रं, यत्रेवोन्मग्नजला महानदी तत्रैवोपागच्छति, उपागत्य च वर्धाकिरत्नं शब्दयति शब्दयित्वा चैवमवादीदिति। यदवादीत् तदाह- 'खिप्पामेव त्ति क्षिप्रमेव भो देवानुप्रिय ! उन्मग्ननिमग्न-जलयोर्महानद्योः अनेकानि स्तम्भशतानि तेषु सन्निविष्टौसुसंस्थितौ अत एवाचलौ महाबलाऽऽक्रान्तत्वेऽपि न स्वस्थानाच्चलतः अकम्पो-दृढौ 'सकम्पसेतुबन्धेतु तितीर॑णां सशर्दू चलनं स्यादिति दृढतरनिर्माणावित्यर्थः, अथवा- अचलोगिरिस्तद्वत् अकम्पौ, मकारोऽलाक्षणिकः, अभेद्यकवचाक्विाभेद्यकवचौ अभेद्यसन्नाहाविति, जलाऽऽदिभ्यो न भेदंयात इत्यर्थः / नन्वनन्तरोक्तविशेषणाभ्यामुत्तरतां तदुपरि पातशङ्का न स्यात्तथापि उभयपाययोर्जलपातशङ्का नापनीता भवतीत्याह- साऽऽलम्बने उपरिगच्छतामवलम्बनभूतेन दृढतरभित्तिरूपेणाऽऽलम्बनेन सहितेबा-हे- उभयपावी ययोस्तौ तथा; सर्वाऽऽत्मना रत्नमयौ आदिदेव-चरित्रप्रवचनसारोद्धारवृत्त्योस्तु क्रमेण पाषाणमयकाष्ठ मयौ तावुक्तौ स्तइति, तथा सुखेन संक्रमः- पादविक्षेपो यत्र तौ तथा, ईदृशौ संक्रमौसेतू कुरुष्व कृत्वा च मामेतामाज्ञप्तिका क्षिप्रमेव प्रत्यर्पयेति / अथ स किं चकारेत्याह- 'तएणं' इत्यादि, अनुवादसूत्रत्वात् सर्व प्राग्वत्, ननु उन्मग्नजला जलस्योन्मजकत्वस्वभावत्वेन कथं तत्र संक्रमार्थकशिलास्तम्भाऽऽदिन्यासः सुस्थितो भवति? स च दीर्घपट्टशालाकारोनच जलोपरिकाष्ठाऽऽदिमयः सम्भवति, तस्यासारत्वेन भारासहत्वात्, उच्यते-वर्द्धकिरत्नकृतत्वेन दिव्यशक्तेरचिन्त्यशक्तिकत्वात्, अनेन चाऽऽचक्रिराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति, गुहा चतावन्तंकालमपावृतैवाऽऽस्ते मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति प्रवचनसारोद्धारवृत्तेरभिप्रायः, त्रिषष्टीयाजितचरित्रे तु- "उद्घाटितं गुहाद्वार, गुहान्तमण्डलानि च / तावत्तान्यपि तिष्ठन्ति, यावजीवति चक्रभूत्॥१॥" इत्युक्तमस्ति / 'तए गं' इत्यादि, ततः स भरतो राजा स्कन्धावाररूपबलसहितस्ताभ्यां संक्रमाभ्या उन्मग्ननिमग्नजले महानद्यौ उत्तरति परपारं गच्छति, एवं उत्तरतो गच्छति राजराजे उत्तरद्वारे यज्जातं तदाह- 'तए णं' इत्यादि, ततो-नधतिक्रमणानन्तरं तस्यास्तमिस्रागुहाया उत्तराहस्य द्वारस्य कपाटौ स्वयमेव सेनानीदण्डरत्नाऽऽघातमन्तरेणेत्यर्थः, 'महया महया' इति सूत्रदेशेन पूर्वसूत्रस्मरण तेन 'महया महया सद्देण' मिति बोध्यं क्रौरवं कुर्वाणौ 'सरस्सर त्ति' कुर्वन्तौ च स्वके स्वके स्थाने प्रत्यवाष्वष्क्रिषाता, व्याख्या तु प्राग्वत्, ननुयदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्वकमुद्धटते तथा इमावपि कथं न तथा? उच्यते- एकशः सेनापतिसत्यापितकपाटोद्घाटनविधिसन्तुष्टगुहाधिपसुरानुकूलाऽऽशयेन द्वितीयपक्षकपाटौ स्वयमेवोद्धटेते इति। अथोत्तरभरतार्द्धविजयं विवक्षुस्तत्रत्यविजेतव्यजन __ स्वरूपमाहतेणं कालेणं तेणं समएणं उत्तरडभरद्दे वासे बहवे आ