________________ भरह 1436 - अभिधानराजेन्द्रः - भाग 5 भरह तं. पदव्यत्ययः प्राकृतत्वात्, धरे कूपरे पिञ्जनके इति प्रसिद्धे यस्य स | तं. सुचक्रं वरनेमीमण्डलंप्रधातचक्रधारावृतं वरेशोभमाने धूस्तुण्डेधूर्वी कूर्वर यस्य स तं, वरवजैर्वद्धे तुम्बे यस्य स तं, वरकाशनभूषितं, वराऽऽचार्यः-प्रधानशिल्पी तेन निर्मित वस्तुरगैः सम्प्रयुक्तं वरसारथिना सुष्टु संप्रगृहीतं स्वायत्तीकृतमिति। इह च चक्राऽऽदीना पुनर्वचन रथावयवेषु प्रधानताख्यापनार्थः, 'वरपुरिसे' इत्यादि तु पूर्वं योजितं, 'दुरूढे आरूढे' इत्यत्र समानार्थकं पदद्वयोपादानं सुखाऽऽरूढताज्ञापनार्थम्, अथवा- दुरूढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तराऽऽरम्र्भार्थ पनुरुक्तिर्न दोषायेति। उक्तमेवार्थ नामप्रकटनायरथस्याऽऽरोहकालप्रकटनाय चाऽऽह- 'पवररयणपरिमंडिअं' इत्यादि, प्रवररत्नपरिमंण्डितं कनककिङ्किणीजालशोभितम् अयोध्यमनभिभव- | नीयमित्यर्थः, सौदामिनीविद्युत्, तप्तं यत्कनकं तच्चानलोत्तीर्ण रक्तवर्ण भवतीति तप्तशब्देन विशेषितं पङ्कजंकमलं तच्च सामान्यतो रक्तं वय॑ते 'जासुअण त्ति' जपाकुसुमं ज्वलितज्वलनोदीप्ताग्निः / अत्र पदविपर्यासः प्राकृतशैलीभवः, शुकस्य तुण्डंमुखम् एतेषामिव रागोरक्तता यस्य स तं. गुजार्द्ध रक्तिकारागभागः बन्धुजीवकंद्रिप्रहरविकाशिपुष्पं रक्तः - संमर्दितो हिड्गुलकनिकरः सिन्दूरप्रतीत रुचिरं कुडकुमजात्यघुसृणं पारापतचलनः प्रतीतः, कोकिलनयने पदव्यत्यय आर्षत्वात् दशनाऽवरणम्- अधरोष्ठ तच्च सामुद्रिकेऽत्यरुणं व्यावर्ण्यते इति रतिदोमनोहरोऽतिरक्तः-अधिकारुणोऽशोकतरुः ईदृशं च कनकं किंशुकं पलाशपुष्पं तथा गजतालुसुरेन्द्रगोपको वर्षासु रक्तवर्णःक्षुद्रजन्तुविशेष एभिः समा-सदृशा प्रभाछविर्यस्य तथा एवंविधःप्रकाशःस्तेजःप्रसरो यस्य स तं, बिम्बफलंगोल्हकं 'सिलप्पवालं ति' अत्र अश्लीलशब्द इव श्रियं लातीति ऋफिडाऽऽदित्वालत्वे श्लीलम्, एवंविधं यत्प्रवाल श्लीलप्रवालंपरिकर्मितविद्रुमः शिलाप्रवाल वा विद्रुमः उत्तिष्ठत्सूरः-उद्गच्छत्सूर्यस्तेषा सदृशं, सर्वर्तुकानिषड्- ऋतुभवानि सुरभीणि कुसुमानि-अग्रथितपुष्पाणि माल्यदामानिच ग्रथितपुष्पाणि यत्र सतम्, उच्छितः- ऊर्वीकृतः श्वेतध्वजो यत्र स तं, महामेघस्य यद्रसितं-गर्जितंतद्वद् गम्भीरः रिनधो घोषो यस्य स तं, शत्रुहृदयकम्पनं, प्रभाते च-अष्टमतपःपारणकदिनमुखे चतुर्घण्टमश्वरथपौषधिकः-आसन्नपारितपौषधव्रतो नरप-तिरारूढ इति सम्बन्धः, सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतम्, अत्राऽऽरूढः पुरुषो भूविजयं लभते इति सान्वर्थनामकमित्यर्थः, कीदृशो नरप-- तिरित्याह- लोकविश्रुतयशाः, अहत-क्वचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचार वा रथमित्यर्थः। रथाऽऽरोहानन्तरं भरतः किं चक्रे इत्याह-'तएणं' इत्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवेति, कियत्पर्यन्तमित्याह- 'जावदाहिणाभिमुहे' इत्यादि, शेष सूत्रं मागधतीर्थगमानुसारेण ज्ञेयम् / अथोक्तं यावद्दक्षिणाभिमुखो वरदामतीर्थन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते, 'सेसं तहेव त्ति' वचनात्। हयगयरहपवनजोहकलिआए सद्धिं सपरिवुडे महया भडचडगरपहगरवंदपरिखित्ते चक्करयणदेसिअमग्गो अणेगरायवरसह- | स्साणु आयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे करेमाणे' इत्यन्तंसूत्र दृश्यं, कियद्दूर लवणसमुद्रमवगाहते इत्याह- यावत्तस्य रथवरस्य कूर्पवाराः पवतः। अत्र यावच्छन्दोन संग्राह्यपदसंग्राहकः किन्तुजलावगाहप्रमाणसूचनार्थः / 'जावपीइदाणं, ति अत्रापि मागधदेवसाधनाधिकारोक्तं सूत्रतावद्वक्तव्यं यावत्प्रीतिदान, 'से' तस्य तीर्थाधिपसुरस्य प्रीतिदानशब्देनोपचारात् प्रीतिदानार्थकविवक्षितचूडामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिले अंतवाले' इति सूत्रस्याग्रतोन्यासान्यथानुपपत्त्या तस्य ग्रहणं ज्ञेयं न तु दानं, तस्य 'जाव अट्ठाहिअं महामहिम करें ति त्ति' सूत्रस्थयावच्छब्देन गृहीतत्वात्. तेनायमर्थः-प्रीतिदाननि-मित्तकचूडामण्यादिवस्तुग्रहणप्रतिपादकसूत्रं यावद्वक्तव्यमिति। तत्रायं पिण्डार्थः- तुरगनिग्रहणरथस्थापनधनुः परामर्शशरमोक्षकोपोत्पादकोपापनोदनिजचिसारसंप्रेक्षणप्रीतिदानसूत्राणि मागधतीर्थसूत्राधिकारवद् ज्ञेयानीति, नवरमयं विशेषः- प्रीतिदाने चूडामणिं च दिव्यंमनोहरं सर्वविषापहारि शिरोभूषणविशेषम् उरस्थः-वक्षोभूषणविशेष ग्रैवेयकंग्रीवाभरणं श्रोणिसूत्रक कटिमेखला कटकानि- च त्रुटिकानि च, कियदूरं वक्तव्यमित्याह- 'यावद्दाहिणिल्ले अंतवाले' इति यावद्दाक्षिणात्योऽहमन्तपाल इति, प्रीतिवाक्यप्राभृतोपढौकनभरतकृततत्स्वीकरणदेवसन्माननविसर्जनरथपरावृत्तिस्कन्धावारप्रत्यागमनमजनगृहगमनस्नानभोजनकरणश्रेणिप्रश्रेणिशब्दनादिप्रतिपादकसूत्रं वक्तव्यम्, किमन्तमित्याह- 'अढाहिमहामहिमं करेंति' अष्टादश श्रेणिप्रश्रेणयोऽष्टाहिका महामहिमा प्रकुर्वन्ति, एतामाज्ञप्तिका प्रत्यर्पयन्तीति / अथ प्रभासतीर्थाधिपसाधनायोपक्रमते- 'तए णं' इत्यादि, सर्व प्राग्वत, नवरम् उत्तरपश्चिमावायवी दिशं शुद्धदक्षिणवर्तिनो वरदामतीर्थतः शुद्धपश्चिमावर्तिनिप्रभासे गमनाय इत्थमेव पथः सरलत्वात्, अन्यथा वरदामतः पश्चिमाऽऽगमने अनुवारिधिवेलंगमनेन प्रभासतीर्थप्राप्तिदूरण स्यादिति, प्रभास-नामतीर्थ यत्र सिन्धुनदी समुद्र प्रविशति, अथ तादृक् चक्ररत्न दृष्ट्वा यन्वृपश्चक्रे तदाह- 'तए ण' इत्यादि, सर्व पूर्ववत्, परं प्रीतिदाने विशेषः, तमेव च सूत्रे दर्शयति- ‘णवरि त्ति' नवरं मालारत्नमालां मौलिं मुकुट मुक्ताजालंदिव्यमौक्तिकराशिं हेमजालं कनकराशिमिति, 'सेस तहेव त्ति' शेषन- उक्तातिरिक्तं प्रीतिदानोपढौकनस्वीकरणसुरसन्माननविसर्जनाऽऽदितथैवमागधसुराधिकार इव वक्तव्यम्, आवश्यकचूणां तु वरदामप्रभाससुरयोः प्रीतिदानं व्यत्यासेनोक्तमिति। अथ सिन्धुदेवीसाधनाधिकारमाहतए णं से दिवे चक्करयणे पभासतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडि णिक्खमइ, पडिणिक्खमित्तान्जाव पूरे ते चेव अंबरतलं सिंधूए महाणईए दाहिणिल्लेणं कू लेणं पुरच्छिम दिसिं सिंधुदेवीभवणाभिमुहे पयाते आवि होत्था। तए णं से भरहे राया तं दिव्वं चक्करयणं सिंधूए महाणईए