________________ भरह 1435 - अभिधानराजेन्द्रः - भाग 5 भरह ति लोकप्रसिद्धा, खगाः, सामान्यतः चापा:- कोदण्डाः नारा-चाःसर्बलोहवाणाः कणका-वाणविशेषाः कल्पन्यः-कृपाण्यः, शूलानिप्रतीतानि, लकुटाः प्रतीताः, भिन्दिपालाहस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः, धनविवंशमयबाणाऽऽसनानि किरातजनग्राह्याणि, तूणाः- तूणीराः, शराः- सामान्यतो वाणाः इत्यादिभिः प्रहरणैः, अत्र चकारेण पूर्वविशेषण स्थः समस्तोऽसमस्तो वा कलितशब्दो योज्यः, तेन तैः संयुक्त इति, दिग्विजयोद्यतानां राज्ञां हि शस्त्राणि सेनासहव निभवन्तीति ज्ञापित, कथमुक्तप्रहरणैः कलित इत्याह- 'कालेत्यादि' अत्र रुधिरशब्दो रक्तार्थः तेन कालनीलरक्तपीतशुक्लानि जातितः पञ्चवर्णानि, व्यक्तितस्तु तदवान्तर भेदादनेकरूपाणि यानि चिह्नशतानि तानि रान्निविष्टानि येषु तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः? राज्ञां हि शस्त्राऽध्यक्षास्तत्तज्जातीयतत्तद्देशीयशस्त्राणा निबिलम्बं परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिहानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान केशान् कुर्वन्तीत्यर्थः / अथ तुर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि आस्फोटितंकराऽऽस्फोटरूप सिंहनादः- सिंहस्येव शब्दकरणं (छेलिअ त्ति, सेण्टितं हर्षोत्कर्षण सीत्कारकरणं, हयहेषितं-तुरङ्ग मशब्दः, हस्तिगुलु-गुलायितं गजगर्जितम, अनेकानि यानि रथशतसहस्राणि तेषां (घणघणेत ति) अनुकरणशब्दस्तथा निहन्यमानानामश्वानां च तोत्राऽऽदिजशब्दास्तैः सहितेन, तथा यमकसमक-युगपत् भम्भा-ढक्का होरम्भामहाढक्का इत्यादि तूर्यपदव्याख्या प्रागुक्तत्रुटिताङ्ग कल्पद्रुमाधिकारतो ज्ञेया नवरं कलो मधुरस्तालोधनवाद्यविशेषः, कंसतालाप्रसिद्धा करघ्मान-परस्पर हस्तताडनम् एतेभ्य उत्थितः-उत्पन्नो यस्तेन महता शब्दसन्निनादेन राकलमपि जीवलोक-ब्रह्माण्ड पूरयन्, बलं-चतुरङ्ग सैन्यं वाहनंशिविकाऽऽदि एतयोः क्रमेण समुदयोवृद्धिर्यस्य स तथा, णमिति वाक्यालङ्कारे, अथवा-बलवाहनयोः सभुदयेन युक्त इति गम्यम्, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकर णोक्तानि यक्षसहस्रसम्परिवृत इत्यादीनि विशेषणानि ग्राह्याणि, तत्र सूत्रे साक्षाल्लिखितानीति। अथ प्रथमवाक्ये अनलिखितानि तहेव सेसं' इत्यतिदेशपदेन सूचितानि च विशेषणानि वाचयितॄणां सौकुमार्यायैकीकृत्य लिख्यन्ते, तथा 'जक्खसहस्ससंपरिवुडे वेसमगे चेव धणवई अमरवई सण्णिभाए इड्डीए पहिअकित्ती गामागरणगरखेडकब्बडमडबदोणमुहपट्टणासमसंवाहसहरसमंडिअ थिमिअमेइणीअं वसुहं अभिजिमाणे अभिजिण-माणे अग्गाइं वराई रयणाई पडिच्छमाणे पडिच्छमाणे तं दिवं चक्करयण अणुगच्छमाणे अणुगच्छमाणे जोअणंतरिआहिं वस-हीहिं वसमाणे वरागाणे जेणेव वरदामतित्थे तेणेव उवागच्छइ ति। व्याख्या च प्राग्वत् / अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषण-सहितो यावतादसूचितो ग्रन्थो लिख्यते, यथा- "उवागच्छित्ता वरदामतित्थस्स अदूरसामते दुवालराजोयणायाम णवजोअणवि-त्थिण्ण वरणगरसरिच्छ विजयखंधावारणिवेसं करेइ ति''प्राग्वत् / अथ ततः किं चक्रे इत्याह- 'करित्ता' इत्यादि, सर्वमुक्तार्थम। अथ राजाऽऽज्ञप्त्यनन्तरं कीदृग व किरत्न कीदृशे च वैनयि कमाचचारेत्याहतए णं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसु सव्वेसु चेव वत्थूसु णेगगुणजाणए पंडिए विहिण्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासु कोट्टणिसु अ वासघरेसु अ विभागकुसले छज्जे वेज्झे अदाणकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु अ कालनाणे तहेव सद्दे वत्थुप्पएसे पहाणेगटिभणिकण्णरुक्खवलिवेडिअगुणदोसविआणए गुणड्डे सो लसपासायकरणकुसले चउसट्ठिविकप्पवित्थियमई णंदावत्ते य वद्धमाणे सोथिअरुअग तह सव्वओभद्दसण्णिवेसे अ बहुविसेसे उइंडिअदेवकोट्ठदारुगिरिखायवाहणविभागकुसलेइअ तस्स बहुगुणड्डे, थवईरयणे णरिंदचंदस्स। तवसंजमनिविटे, किं करवाणीतुवट्ठाई।।१।। सो देवकम्मविहिणा,खंधावारं णरिंदवयणेणं। आवसहभवणकलिअं, करेइ सव्वं मुहुत्तेणं / / 2 / / करेत्ता पवरपोसहघरं करेइ, करित्ता जेणेव भरहे राया० जाव एतमाणत्तिअं खिप्पामेव पञ्चप्पिणइ, सेसं तहेव० जाव मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणे व बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता। (सूत्र-४७) 'तए ण' इत्यादि, ततस्तद्बर्द्धकिरत्नमहं किं करवाणि आदिशन्तु देवानुप्रिया ! इतिकर्तव्यमित्युदित्वोपतिष्ठते, राजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजनमग्रेतनपदैः सह कार्य , कीदृशं तद्वर्द्धकिरत्नमित्याह-आश्रमाऽऽदयः प्राग्व्याख्यातार्थाः, नवरं स्कन्धावारगृहाऽऽपणाः प्रतीताः, एतेषां विभागेविभजने उचितस्थाने तदवयवनिवेशने कुशलम्, अथवा- 'पुरभवनग्रामाणां, ये कोणास्तेषु निवसतां दोषाः / श्वपचाऽऽदयोऽन्त्यजातास्तेष्वेव वि, वृद्धिमायान्ति / / 1 / / ' इत्यादि योग्याऽयोग्यस्थानविभागज्ञम्, एकाशीतिः पदानिविभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षेत्रखण्डानीति यावत्, तानि यत्र तानि तथा एवंविधेषु वास्तुषुगृहभूमिषु सर्वेषु चैव-चतुःषष्टिपदशतपदरूपेषु वास्तुषु, चैवशब्दः समुच्चये, स च वास्त्वन्तरपरिग्रहार्थः अनेकेषां गुणानामुपलक्षणात् दोषाणां च ज्ञायकं, पण्डा जाता अस्येति तारकाऽऽदित्वादिते पण्डितं सातिशगवुद्धिमत् अथ यदि वास्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तर्हि तावता विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह-विधिज्ञ पञ्चचत्वारिंशतो देवतानाम् उचितस्थाननिवेशनार्चनाऽऽदिविधिज्ञमित्यर्थः / अथ यथा पञ्चचत्वारिशतोऽपि देवानामेकाशीत्यादिपदवास्तुन्यासस्तथातच्छिल्पिशास्त्रानुसारेणदर्शाते, यथा स्थापना